This page has not been fully proofread.

पूजासमु.
॥८० ॥
 
यमद्विती.
 
11
 
( लक्ष्मीर्यालोक० गोवर्धन० ) होमांते विप्रान्सुहृदश्चविशेषान्नैःसंभोज्यविप्रेभ्योधेनुंदीनेभ्यश्चान्नंदत्वागोभ्योयवसमन्नग्रा
संगिरयेबलिंचदद्यात् ॥ ततोगाः शरत्पुष्पादिभिरलंकृत्य स्वयंभुक्तवद्भिःस्वलंकृतैः स्वनुलिप्तैः सुवेषैर्गोब्राह्मणहोमाग्निगिरीन्प्र-
दक्षिणीकुर्वद्भिस्तथागोभिःसहप्रदक्षिणा कार्या ॥ यथागोभिरपिब्राह्मणादीनांप्रदक्षिणाकृताभवति ॥ तद्दिनेगवांदोहनंभार ॥ ६८ ॥
वाहनंचवर्ज्यं ॥ इतिगोवर्धन पूजान्नकूटोत्सव विधिः समाप्तः ॥ ततोऽपराह्णेमार्गपालीबंधनादिविधिःसिंध्वादौज्ञेयः ॥
॥ ६७ ॥ बलिराजपूजा ॥ अस्मिन्दिनेप्रतिसद्मप्रातः तथा रात्रौराजागृहमध्येप्रांगणेवाभूमौपंचरंगैः कृतेमंडले तैरेव व लि
मालिख्यपूजयेत् ॥ नृत्यगीतप्रेक्षणकैश्चतांरात्रिंनयेत् ॥ लोकैस्तु शय्यायांशुक्लतंडुलैस्तमालिख्यपूजयेत् ॥ ममश्रीविष्णुसांनि
ध्यसिद्ध्यर्थंवलिपूजांकरिष्ये ॥ मंत्रः ॥ बलिराजनमस्तुभ्यंविरोचनसुतप्रभो ॥ भविष्येंद्रसुरारातेपूजेयंप्रतिगृह्यतां ॥ प्रार्थना ॥
बलिराजनमस्तुभ्यंदैत्यदानववंदित!॥इंद्रशत्रोऽमरारातेविष्णुसांनिध्यदोभव ॥ ततोबलिप्रीत्यर्थंवस्त्रादिदत्वाऽग्निर्ज्योतिरिति
दीपान्दद्यात् ॥ अत्रमंगलस्नानातिरिक्तंसर्वंयथाचारंकार्य नित्यत्वाभावात् ॥ राज्ञः कर्तव्य विशेषः कृत्यरत्नावल्यांद्रष्टव्यः ॥
 
॥ ६८ ॥ यमद्वितीया पूजा ॥ देशकालकथनांते ममश्रीयमप्रीत्यर्थयमादिदेवतानांपूजनंकरिष्ये ॥ ततोयमंचित्रगुप्तंयमदूतां
चावाह्यसंपूज्य ॥ एह्येहि मार्तंड जपाशहस्तयमांतकालोकधरामरेश ॥ भ्रातृद्वितीयाकृतदेवपूजांगृहाणचार्घ्यं भगवन्नमस्ते ॥ इत्य
र्ध्यदत्वा ॥ धर्मराजनमस्तुभ्यंनमस्तेयमुनाग्रज ॥ त्राहिमांकिंकरैः सार्धंसूर्यपुत्र नमोस्तुते ॥ यमस्व सर्नमस्तेस्तुयमुनेलोकपूजिते ॥
वरदाभवमेनित्यंसूर्यपुत्रिनमोस्तुते॥ इतियमंयमुनांचप्रणम्यकर्मसमाप्तिः ॥ अत्र भगिनीत्ववश्यंभ्रातरंसंभोज्यतांबूलादिनापूज
 
॥ ८० ॥