This page has not been fully proofread.

विप्रेभ्योदक्षिणांतांबूलं चदत्वाशिषोगृहीत्वासर्वान् गृहप्रति विसृजेत् ॥
 
॥ ४॥
 
दिस्वजनैःसहधृत्वास्त्रीभिनी॑राजितो
॥ ५६ ॥ छत्रशस्त्रादिपूजनं ॥ आचम्यदेशकालावुच्चार्यममसपरिवारस्य कीर्त्यायुर्यशोबल विजयादिलौहाभिसारिक कर्म
कल्पोक्तफलावाप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थंछत्रचामरगजाश्वादिराजचिह्नपूजां करिष्ये इँतिसंकल्प्यछत्रचामरादिदेवताभ्योन
मइतिमंत्रेणपूजयित्वाप्रार्थयेत् ॥ तत्रपृथक्पृथक्मंत्राः ॥ यथांबुदश्छादयतिशिवायेमांवसुंधरां ॥ तथाछादयराजानं विजयारो
ग्यवृद्धये ॥ इतिछत्रस्य १ ॥ शशांककरसंकाशक्षीरडिंडीरपाडुर ॥ प्रोत्सारयाशुदुरितंचामरामर दुर्लभ ॥ इतिचामरस्य २॥
शक्रकेतोमहावीर्यश्यामवर्णार्चयाम्यहं ॥ पत्रिराजनमस्तेस्तुयथानारायणध्वज ॥ काश्यपेयारुणभ्रातर्नागारेविष्णुवाहन ।
अप्रमेयदुराधर्षरणेदेवारिसूदन । गरुत्मान्मारुतगतिस्त्वयिसन्निहितोयतः ॥ साश्ववर्मायुधान्योधानक्षत्वंचरिपून्दह ॥ इति
ध्वजस्य ३ ॥ हुतभुग्वसवोरुद्रावायुः सोमोमहर्षयः ॥ नागकिन्नरगंधर्वयक्षभूतगणग्रहाः ॥ प्रमथस्तुसहादित्यैर्भूतेशोमातृभिः
सह ॥ शक्रःसेनापतिःस्कंदोवरुणञ्चाश्रितस्त्वयि । प्रदहंतुरिपून्सर्वान्राजाविजयमृच्छतु ॥ यानिप्रयुक्तान्यरिभिरायुधानिसमं
ततः ॥ पतंतूपरिशत्रूणांहतानितवतेजसा ॥ हिरण्यकशिपोर्युद्धेयुद्धेदेवासुरेतथा ॥ कालनेमिवधेयद्वद्यद्वत्रिपुरघातने ॥ शोभि
तासितथैवाद्यशोभयास्मांश्चसंचर ॥ नीलचेलामिमांदृष्ट्वानश्यंत्वाशुनृपारयः ॥ व्याधिभिर्विविधैर्घोरैःशस्त्रैश्चयुधिनिर्जिताः ॥
पूतनारेवतीनाम्नीकालरात्रिश्चयास्मृता ॥ दहचाशुरिपून्सर्वान्पताकेत्वं मयार्चिता ॥ इतिपताकायाः ४ ॥ असिर्विशसनः खड्ग
।स्तीक्ष्णधारोदुरासदः ॥ श्रीगर्भोविजयश्चैव धर्माधारस्तथैवच ॥ एतानितवनामानिस्त्रयमुक्तानिवेधसा ॥ नक्षत्रंकृत्तिकातेतु