This page has not been fully proofread.

ino
 
थाज्ञानेनयथामिलितोपचारैर्ध्यानावाहनादिषोडशोपचारैः कृतपूजनेन भगवान् श्रीमदनंतःप्रीयताम् ॥ अथार्घ्यदानं ॥ नमःसर्व
हितानंतजगदानंदकारिणे ॥ सर्गस्थित्यंत रूपायगृहाणार्ध्यनमोस्तुते ॥ इत्यदद्यात् ॥ ॐतत्सद्ब्रह्मार्पणमस्तु ॥ अथदोरक
ग्रहणं ॥ स्वीकरोमिनवंसूत्रंममविज्ञानदोभव । दोररूपेणमांरक्षपुराणपुरुषोत्तम ॥ अनंतसंसारमहासमुद्रमग्नंसमभ्युद्धरवासु
देव ॥ अनंतरूपेविनियोजयस्वअनंतसूत्राय नमोनमस्ते ॥ इतिनमस्कृत्वा ग्रहणकार्य ॥ अनंतसर्वदेवेशभुक्तिमुक्तिफलप्रद ॥
अनंताख्यमिदंसूत्रंधारयामितवप्रियं ॥ संसारगह्वरगुहासुसुखंविहर्तुवांछंतियेकुरुकुलोद्भवशुद्धसत्वाः॥ संपूज्यचत्रिभुवनेशम
नंतदेवंबनंतिदक्षिणकरेवरदोरकंते ॥ इतिमंत्रेणअनंतदोरकंस्वदक्षिण करेबध्वालक्ष्मीदोरकं पत्नीदामकरेचनीयात् ॥ अनंतगु
णरत्नायविश्वरूपधरायच॥ सूत्रग्रंथिषुसंस्थायअनंतायनमोनमः ॥ इति ॥ अनंतः सर्वदेवानामधिपः सर्वकामदः ॥ व्रतेनानेन
सुप्रीतोभवत्विहसदामम ॥ इतिनमस्कृत्य ॥ पापोहंपापकर्माहंपापात्मापापसंभवः ॥ त्राहिमांकृपयानंतशरणागतवत्सल ॥ अ
द्यमेसफलंजन्मजीवितंचसुजीवितं ॥ यत्तवांघ्रियुगांभोजेमन्सूर्धाभ्रमरायते ॥ नमस्तेदेवदेवायविश्वरूपधरायच ॥ जीर्णदोरं
परित्यज्यनूतनेऽस्मिन्वसप्रभो ॥ इतिजीर्णदोरकोत्तारणं ॥ नमस्तेदेवदेवेशविश्वरूपधरायच ॥ सूत्रग्रंथिपुसंतिष्ठअनंतायनमो
नमः ॥ इतिप्रार्थना ॥ अथजीर्णदोरकविसर्जनं ॥ अद्यपूर्वोच्चरित० जीर्णदोरकस्थश्रीमदनंतस्यगंधायुपचारैरुत्तरपूजां करिष्ये
इतिसंकल्प्ययथावत्पूजांविधाय ॥ विसर्जयामिदेवेशजीर्णदोरस्थितंपरं ॥ संपूर्ण मेव्रतं चास्तुदेवदेवनमोस्तुते ॥ अधिष्ठायनवेs
न्यस्मिन्यतोऽनंत निवेशितः ॥ अतोजीर्णमधिष्ठानविसर्जयरमापते ॥ संवत्सरकृतांपूजांसंपाद्यविधिवन्मया ॥ व्रजेदानीमनंत