2022-09-12 11:26:11 by ambuda-bot

This page has not been fully proofread.

ऋग्वेदः
 
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्म॑णि प्रथ॒मान्या॑सन् ।
 
ते ह॒ नाकं महि॒मानः सचन्त॒ यत्र॒ पूर्वे॑ स॒ध्याः सन्ति दे॒वाः ॥ १६ ॥
यज्ञेन॑ य॒ज्ञम् । अयजन्त॒ । दे॒वाः । तानि॑ । धर्माणि । प्रथ॒मानि॑ । आसन् ।
 
ते । ह॒ । नाक॑म् । म॒हि॒मान॑ः । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । स॒ध्याः । सन्ति । दे॒वाः ॥ १६ ॥
 
६२०
 
[ अ. ८. अ. ४. व. २०
 
पूर्वं प्रपञ्जेनोकमर्थं संक्षिप्यात्र दर्शयति । देवाः प्रजापतिप्राणरूपाः यज्ञेन यथोक्तेन मानसेन
संकल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिम् अयजन्त पूजितवन्तः । तस्मात्पूजनात तानि
प्रसिद्वामि धर्माणि जगदूपविकाराणां धारकाणि प्रथमानि मुख्यानि आसन् । एतावता सृष्टिप्रति-
पादकसूक्तभागार्थः संगृहीतः । अथोपासनतत्फलानुवादकभागार्थः संगृह्यते । यत्र यस्मिन् विराट्
प्राप्तिरूपे नाके पूर्व साध्या: पुरातना विराडुपास्तिसाधकाः 'देवाः सन्ति तिष्ठन्ति तत् नाकं
विराप्राप्तिरूपं स्वर्ग ते महिमानः तदुपासका महात्मानः सचन्त समवयन्ति प्राप्नुवन्ति ॥
 
॥ १९ ॥
 
अष्टमेऽनुवाके नव सूक्तानि । 'सं जागृवद्भिः' इति पञ्चदशचं प्रथमं मूकं वीतहव्यपुत्रस्या-
रु॒णनाम्न आर्षमग्निदेवत्यम् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रान्तं – 'सं जागृवद्भिः
पञ्चोनाणो वैतहव्य आग्नेयम्' इति । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदं सूक्तम् । सूत्रितं च---
'मं जागृवद्भिश्चित्र इच्छिशोर्वसुं न चित्रमहसमिति जागतम्' ( आश्व. श्री. ४. १३ ) इति ॥
 
सं जा॑ग॒वद्ध॒र्जर॑माण इध्यते॒ दमे॒ दम॑ना इ॒षय॑नि॒ळस्प॒दे ।
 
विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुवि॒भावा॑ स॒पख सखीय॒ते ॥ १ ॥
सम्। जा॒ग॒वत॒ऽभिः॑ि। जर॑माणः । इ॒ध्य॒ते॒ । दमे॑ । दमू॑नाः । इ॒पय॑न् । इ॒ळः । प॒दे ।
विश्व॑स्य । होता॑। ह॒विष॑ः । वरे॑ण्यः । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽसखा॑ । स॒ग्नि॒ऽय॒ते ॥ १ ॥
 
हे अने जागृवद्भिः जागरणशीलै: स्नोतृभिः 'जरमाणः स्तूयमानः दमूना: दममना दानमना
दान्तमना वा इळः इळाया: 'पदे स्थाने उत्तरवेद्याम् Vइपयन् अन्नमिच्छन् विश्वस्य सर्वस्य हविषः
होता Vवरेण्यः वरणीयः विभुः व्याप्तः विभावा दीप्तिमान् सुपखा शोभनसखा भवान् सखी-
यते सखित्वमिच्छते यजमानाय सम् इध्यते सम्यग्दीप्यते ॥
 
स द॑श॑त॒श्रीरति॑थिर्गृहेगृ॑ह॒ वने॑वने शश्रिये तक॒वीरि॑व ।
 
जने॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षैति वि॒श्यो॒ विशँविशम् ॥ २ ॥
सः । दुर्शत॒ऽश्रीः । अति॑थिः । गृहेऽर्गृहे । वने॑ऽवने । शि॒श्रिये । त॒क्क॒वीःऽइ॑व ।
जन॑म्ऽ जनम् ।
 

 

 
ज॒न्य॑ः । न । अति॑। मन्यते । विश॑ । आ । क्षेति॒ । विश्यः । विशेम्ऽविशम् ॥ २ ॥
Vदर्शतश्री: दर्शनीयविभूतिः अतिथिः अतिथिभूतः सः अग्निः गृहेगृहे यजमानानां गृहेषु
Vवनेवने सर्वेषु बनेषु च शिश्रिये श्रयति । किंच Vजन्य: जनहितः सोऽग्निः Vजनंजनं सर्व जनं
 
१. त मुख्यानि भूतानि । २. गत३.४.५.६ मु-' अतिथिः ' नास्ति । ३० गत४ - वृक्षेषु; त१.
२-३.५.६.८-भ२.४.८ - वृद्धेषु । ४ गत भ२.४.५.८ - जातं ।