2022-09-12 11:26:11 by ambuda-bot
This page has not been fully proofread.
अष्टमोऽष्टकः
च॒न्द्रमा॒ मन॑सो जा॒तश्चः सूर्यो अजायत ।
मुख॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥ १३ ॥
चन्द्रमा॑ः । मन॑सः । जातः । चक्षौः । सूर्यः । अजायत ।
मुखा॑त् । इन्द्र॑ः । च॒ । अ॒ग्निः । च । प्रा॒णात् । वा॒युः । अजायत ॥ १३ ॥
म. १०. अ. ७, सू ९० ]
यथा दध्याज्यादिद्रव्याणि गवादयः पशव ऋगादिवेदा ब्राह्मणादयो मनुष्याश्च तस्मादुरपन्ना
एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह । प्रजापतेः मनसः सकाशात् चन्द्रमाः जातः ।
Vवक्षोः च चक्षुषः सूर्यः अपि अजायत । अस्य मुखादिन्द्रश्चाग्निश्च देवावुत्पन्नौ । अस्य प्राणा-
द्वायुरजायत ॥
नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्णो द्यौः सम॑वर्तत 1
प॒द्भ्या॑ भूमि॒दि॑श॒ श्रोत्र॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥ १४ ॥
नाभ्या॑ः । आ॒सी॒त् । अ॒न्तरि॑क्षम् । शी॒र्ष्णः । द्यौः । सम् । अत्रर्तत ।
प॒त्ऽभ्याम्। भूमि॑ । दिश॑ः । श्रोत्रा॑त् । तथा॑ । लो॒कान् । अकल्पयन् ॥ १४ ॥
६१९
यथा चन्द्रादीन् प्रजापतेर्भनःप्रभृतिभ्योऽकल्पयन् तथा अन्तरिक्षादीन् 'लोकान् प्रजापतेः
नाभ्यादिभ्यो देवाः' अकल्पयन् उत्पादितवन्तः । एतदेव दर्शयति । नाभ्याः प्रजापतेर्नाभेः
अन्तरिक्षमासीत् । शीर्णः शिरसः द्यौः समवर्तत उत्पन्ना। अस्य पद्भ्यां पादाभ्यां भूमिः
उत्पन्ना । अस्य श्रोत्रात् दिशः उत्पन्नाः ॥
स॒प्तास्या॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मिध॑ः कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध॒न्॒ पुरु॑षं प॒शुम् ॥ १५ ॥
स॒प्त । अ॒स्य॒ । आ॒स॒न्। प॒रंऽधय॑ः । त्रिः । स॒प्त । स॒म्ऽइध॑ः । कृ॒ताः ।
दे॒वाः । यत् । य॒ज्ञम् । त॒न्वा॒नाः । अब॑नन् । पुरु॑पम् । प॒शुम् ॥ १५ ॥
"
"
vअस्य सांकल्पिकयज्ञस्य गायत्र्यादीनि सप्त छन्दांसि परिधय: आसन् । ऐष्टिकस्याहव
नीयस्थ त्रयः परिधय तरवेदिकास्त्रय आदित्यश्च सप्तमः परिधिप्रतिनिधिरूपः । अत एवाम्नायते-
न पुरस्तात्परि दधान्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षांस्य पहन्ति ' ( तै. सं. २.६.६.३ ) इति । तत
एत आदिस्यसहिताः सप्त परिधयोऽत्र सप्त छन्दोरूपाः । तथा समिधः त्रिः सप्त त्रिगुणीकृतसप्त-
संख्याकाः एकविंशतिः कृताः । द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादिस्य एकविंशः '
(तै. सं. ५.१.१०.३) इति श्रुताः पदार्था एकविंशतिदारुयुक्ते ध्मत्वेन भाविताः । यत् यः पुरुषो
वैराजोऽस्ति तं पुरुषं देवाः प्रजापतिप्राणेन्द्रियरूपा: यज्ञं Vतन्वानाः मानसं यज्ञं तन्वानाः
कुर्वाणाः Vपशुम् 'अबध्नन् विराट्पुरुषमेव पशुस्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वत्र ' या पुरुषेण
हविया ' इत्युक्तम् ॥
१. त-भ२.४.६.८-प्रजापतेर्मनःप्रभृतयो; भ७ प्रजापतेर्मनसःप्रभृतयो । २. त१-२-६-नाभ्या
दयो देवा अवयवा; त३. ७ - नाभ्यदयोवयवा; त८-भ-नाभ्यादयो देवा । ३. त-सांकल्पिकस्य यशस्य ।