2022-09-12 11:26:11 by ambuda-bot

This page has not been fully proofread.

ऋग्वेदः
 
[ अ. ८. अ. ४. व. १९
 
सर्वहुतः तस्मात् पूर्वोक्तात् यज्ञात् ऋचः सामानि च जज्ञिरे उत्पन्नाः । तस्मात्
यज्ञात् छन्दांसि गायत्र्यादीनि जज्ञिरे । Vतस्मात् यज्ञात् यजुः अपि अजायत ॥
 
६१८
 
तस्मा॒दश्वा॑ अजायन्त॒ ये के च॑ज॒याद॑तः ।
 
गावो॑ ह जज्ञिरे॒ तस्मा॒त् तस्मा॑ज्जा॒ता अ॑जा॒वय॑ः ॥ १० ॥
तस्मा॑त् । अश्वा॑ । अ॒जा॒य॒न्त॒ । ये । के । च॒ । उ॒भ॒याद॑तः ।
गावः॑ । ह । जज्ञिरे । तस्मा॑त् । तस्मा॑त् । जा॒ताः । अ॒जा॒वय॑ः ॥ १० ॥
 
Vतस्मात् पूर्वोक्ताद्यज्ञात् अश्वा अजायन्त उत्पन्नाः । तथा ये Vके vच अश्वव्यतिरिक्ता
गर्दभा अश्वतराश्च उभयादतः ऊर्ध्वाधोभागयोरुभयोः दन्तयुक्ताः सन्ति तेऽप्यजायन्त । तथा
Vतस्मात् यज्ञात् Vगावः च जज्ञिरे । किंच तस्मात् यज्ञात् अजावयः च जाताः ॥ ॥ १८ ॥
 
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
 
मुखं किम॑स्य॒ कौ बाहू का ऊरू पार्दा उच्येते ॥ ११ ॥
 
यत । पुरु॑पम् । वि । अद॑धुः । क॒ति॒धा । वि। अकल्पयन् ।
 

 
मुग्व॑म् । किम् । अस्य॒ । कौ । बाहू इति॑ । काँ। ऊरू इति॑ । पादौ । उ॒च्येते॒ इति॑ ॥ ११ ॥
 

 
प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुं ब्रह्मवादिनां प्रश्ना उच्यन्ते । प्रजापते: प्राणरूपा देवाः
Vयत् यदा पुरुष विराडूपं Vव्यदधुः संकल्पेनोत्पादितवन्तः तदानीं कतिधा कतिभिः प्रकारैः
Vव्यकल्पयन् विविधं कल्पितवन्तः । अस्य पुरुषस्य Vमुखं किम् आसीत् । को बाहू अभूताम्
Vका Vऊरू । कौ च पादावुच्येते । प्रथमं सामान्यरूपः प्रश्नः पश्चात् मुखं किमित्यादिना विशेष-
विषयाः प्रश्नाः ॥
 
ब्राह्मणो॑ऽस्य॒ मुर्खमासीहू रा॑ज॒न्य॑ः कृतः ।
 
ऊ॒रू तद॑स्य॒ यद्वैश्य॑ प॒द्भ्यां॑ शू॒द्रो अ॑जाय ॥ १२ ॥
ब्रह्म॒णः । अ॒स्य॒ । मुग्व॑म् । आ॒सीत् । ब॒हू इति॑ । राजन्य॑ः । कृ॒तः ।
 
ऊ॒रू इति॑ । तत् । अ॒स्य॒ । यत् । वैश्यः॑ः । प॒त्ऽभ्याम् । शुद्रः । अ॒यत ॥ १२ ॥
 
इदानीं पूर्वोक्तानां प्रश्नानामुत्तराणि दर्शयति । अस्य प्रजापतेः ब्राह्मणः ब्राह्मणत्वजातिविशिष्टः
पुरुषः मुखमासीत् मुखानुत्पन्न इत्यर्थः । योऽयं राजन्यः क्षत्रियध्वजातिमान् पुरुषः सः Vबाहू
vकृत: बाहुत्वेन निष्पादितः । बाहुभ्यामुत्पादित इत्यर्थः । तत् तदानीम् अस्य प्रजापतेः यत् यौ
Vऊरू तद्रूपः
Vवैश्य संपन्नः । ऊरुभ्यामुत्पन्न इत्यर्थः । तथास्य पद्धयां पादाभ्यां Vशूद्रः
जातिमान् पुरुषः अजायत । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजुःसंहितायां सप्तमकाण्डे
मुखतस्त्रिवृतं निरमिमीत ' ( तै. सं. ७. १. १. ४ ) इत्यादौ विस्पष्टमानाता । अतः प्रश्नोत्तरे उभे
अपि तत्परतयैव योजनीये ॥
 
:
 
शूद्रश्व-

 
१. त१.२.६.७ – तस्मादप्यजायत । २. त–कालेनोत्पादितवंतः । ३. त- 'किम्... मुखं' नास्ति ।
४. त-मु–क्षत्रियत्वजातिविशिष्टः । ५. ग-भ२ - तत्परेणैव; त१.३.४.५.६.८ - तत्परेनैव; त७-मु-तत्परत्वे-
नैव ।