2022-09-12 11:26:11 by ambuda-bot

This page has not been fully proofread.

म. १०. अ. ७. सू. ९०]
 
अष्टमोऽष्टकः
 
६१७
 
यत् यदा पूर्वोतक्रमेणैव शरीरेपूत्पन्नेषु सत्सु देवा: उत्तरसृष्टिसिद्धयर्थं बाह्यद्रव्यस्थानु-
त्पन्नध्वेन हविरन्तरासंभवात् पुरुषस्वरूपमेव मनसा हविष्वेन संकल्प्य Vपुरुषेण पुरुषाख्येन हविषा
मानसं यज्ञम् अतन्वत अन्वतिष्ठन् तदानीम् अस्य यज्ञस्य Vवसन्तः वसन्तर्तुरेव आज्यम्
Vआसीत् अभूत् । तमेवाज्यत्वेन संकल्पितवन्त इत्यर्थः । एवं ग्रीप्स इध्मः आसीत् । तमेवेध्मध्वेन
संकल्पितवन्त इत्यर्थः । तथा Vशरद्वविः आसीत् । तामेव पुरोडाशादिहविष्वन संकल्पितवन्त
इत्यर्थः । पूर्व पुरुषस्य हवि: सामान्य रूपत्वेन संकल्पः । अनन्तरं वसन्तादीनामाज्यादिविशेष-
रूपत्वेन संकल्प इति द्रष्टव्यम् ॥
 
तं य॒ज्ञं बर्हिषि प्रौक्षन् पुरु॑षं जा॒तम॑ग्रतः ।
 
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥ ७॥
तम् । य॒ज्ञम् । ब॒र्हिषि॑ । प्र । औक्षन् । पुरु॑षम् । जातम् । अग्रतः ।
तेन॑ । दे॒वाः । अ॒यजन्त॒ । स॒ध्याः । ऋष॑यः । च॒ । ये ॥ ७ ॥
 
V
 
यज्ञं यज्ञसाधनभूतं तं पुरुषं पशुत्वभावनया' यूपे बद्धं बर्हिषि मानसे यज्ञे प्रौक्षन्
प्रोक्षितवन्तः । कीदृशमियाह । अग्रत: सर्वसृष्टेः पूर्वं पुरुषं जातं पुरुषत्वेनोत्पन्नम् । एतच्च
प्रागेवोकं 'तस्माद्विराळजायत विराजो अधि पूरुषः इति । तेन पुरुपरूपेण पशुना देवा
अयजन्त । मानसयागं निष्पादितवन्त इत्यर्थः । के ते देवा इत्यवाह । साध्या: सृष्टिसाधनयोग्याः
प्रजापतिप्रभृतयः तदनुकूला: Vऋपयः मन्त्रद्रष्टारः च ये सन्ति । ते सर्वेऽप्ययजन्तेत्यर्थः ॥
 
तस्मा॑य॒ज्ञात् स॑र्व॒हुत॒ः संभृ॑तं पृषदा॒ज्यम् ।
 
प॒शून् ताँच॑क्रे वाय॒व्या॑नार॒ण्यान् ग्रा॒म्याश्च॒ ये ॥ ८ ॥
तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहु॒वः॑ । सम॒ऽभृ॑तम् । पृ॒प॒त्ऽआ॒ज्यम् ।
प॒शून् । तान्। चक्रे । वाय॒त्र्या॑न् । आ॒र॒ण्यान् । प्रा॒म्याः । च॒ ।
 
ये ॥ ८ ॥
 
सर्वहुतः । सर्वात्मकः पुरुषः यस्मिन् यज्ञे हूयते सोऽयं सर्वहुत् । तादृशात् तस्मात्
पूर्वोक्तात् मानसात् यज्ञात् पृपदाज्यं दधिमिश्रमाज्यं संभृतं संपादितम् । दधि चाज्यं चेत्येव-
मादिभोग्यजातं सर्व संपादिनमित्यर्थः । तथा Vवायव्यान् वायुदेवताकाल्लोकप्रसिद्वान् आरण्यान्
पशून चक्रे उत्पादितवान् । आरण्या हरिणादयः । तथा ये vच 'ग्राम्या: गवाश्वादयः तानपि
चक्रे । पशूनामन्त्ररिक्षद्वारा वायुदेवस्यत्वं यजुर्ब्राह्मणे समाम्नायते – 'वायवः स्थेत्याह वायुर्वा
अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान्परिददाति ' (तं. ब्रा.
३. २. १. ३ ) इति ॥
 
तस्मा॑य॒ज्ञात् स॑र्व॒हुत॒ ऋच॒ः सामा॑नि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मा॒द्यजुस्तस्मा॑दजायत ॥ ९ ॥
तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहुत॑ः । ऋच॑ः । सामा॑नि । जज्ञिरे ।
छन्दा॑सि । जज्ञिरे । तस्मा॑त् । यजुः । तस्मा॑त् । अजायत ॥ ९ ॥
 
१. त१.२.३.४.५.६. ७-भ८- क्रमेण देवशरीरे । २. त-भ-तमेव । ३. तमु एवं । ४. ग-
'माज्या दिरूप विशेषत्वेन । ५. तपशुत्वभावाय; भ७ - पशुत्वभावनाय ।