2022-09-12 11:26:11 by ambuda-bot
This page has not been fully proofread.
ऋग्वेदः
[ अ. ८. अ. ४. ब. १८
त्रि॒पादूर्ध्व उद॒त्पुरु॑ष॒ः पादो॑ऽस्ये॒हाभ॑व॒त् पुन॑ः ।
ततो॒ विष्व॒ङ् व्य॑क्रामत्साशनानश॒ने अ॒भि ॥ ४ ॥
त्रि॒ऽपात् । ऊर्ध्वः । उत् । ए॒त् । पुरु॑षः । पाद॑ः । अ॒स्य॒ । इ॒ह । अभवत् । पुन॒रति॑ ।
तत॑ः । विष्व॑ङ् । वि । अ॒क्रम॒त् । स॒शना॒न॒श॒ने॒ इति॑ । अ॒भि ॥ ४ ॥
६१६
योऽयं त्रिपात् पुरुषः संसाररहितो' ब्रह्मस्वरूपः सोऽयम् ऊर्ध्वं Vउदैत् अस्मादज्ञान-
कार्यात्संसाराद्वहिर्भूतोऽत्रस्यैर्गुण दोपरस्पृष्ट उत्कर्पेण स्थितवान् । तस्य अस्य सोऽयं Vवादः लेशः
सोऽयम् Vइह मायायां पुनः अभवत् सृष्टिसंहाराभ्यां पुनःपुनरागच्छति । अस्य सर्वस्य जगतः
परमात्मलेशत्वं भगवताप्युक्तं -' विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ' ( भ.गी. १०. ४२ )
इति । Vततः मायायामागस्थानन्तरं विष्वङ् देवमनुष्यतिर्यगादिरूपेण विविधः सन् Vव्यक्रामत्
व्याप्तवान् । किं कृत्वा । साशनानशने अभिलक्ष्य । साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणि-
जातम्' अनशनं तद्रहितमचेतनं गिरिनधादिकम् । तदुभयं यथा स्यात्तथा स्वयमेव विविधो
भूरवा व्याप्तवानित्यर्थः ॥
तस्मा॑द्वराळजायत वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ ५ ॥
तस्मा॑त् । वि॒ऽराट् । अ॒जाय । वि॒ऽराज॑ः । अधि॑ । पुरु॑षः ।
सः । जा॒तः । अति॑ । अ॒ष्यत । प॒श्चात् । भूमि॑म् । अथो॒ इति॑ । पुरः ॥ ५ ॥
।
विश्व व्यक्रामदिति यदुक्तं तदेवात्र प्रपञ्च्यते । तस्मात् आदिपुरुषात् विराट् ब्रह्माण्डदेहः
Vअजायत उत्पन्नः । विविधानि राजन्ते वस्तून्यत्रेति' विराट् । विराजोऽधि विराड्देहस्योपरि
तमेव देहमधिकरणं कृत्वा पुरुषः तदेहाभिमानी कश्चित् पुमान् अजायत । सोऽयं सर्ववेदान्तवेद्यः
परमात्मा स्वयमेव स्वकीयया मायया विराड्देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य
ब्रह्माण्डाभिमानी देवतात्मा जीवोऽभवत् । एतच्चाथर्वणिका उत्तरतापनीये विस्पष्टमामनन्ति - ' स वा
एप भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव '
( नृ. ता. २. १. ९ ) इति । स जात: विराट् पुरुषः अस्यरिच्यत अतिरिक्तोऽभूत् । विराड़-
व्यतिरिक्तो देवतिर्थङ्मनुष्यादिरूपोऽभूत् । पश्चात् देवादिजीवभावादूर्ध्वं भूमि ससर्जेति शेषः ।
Vअथो भूमिसृष्टेरनन्तरं तेषां जीवानां पुरः ससर्ज । पूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि ॥॥१७॥
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्धविः ॥ ६ ॥
यत् । पुरु॑षेण । ह॒विषा॑ । दे॒वाः । य॒ज्ञम् । अत॑न्वत ।
वस॒न्तः । अ॒स्य॒ । आ॒सी॑त् । आज्य॑म् । ग्री॒ष्मः । इ॒ध्मः । शरत् । ह॒विः ॥ ६ ॥
१. ग-ज-भ४-मु-संसारस्पर्शरहितो । २. ग-त१.२.३.६.७. ८-भ- बहुलस्वरूपः । ३. ग-तस्य
योर्यं; त-भ४.७–तस्य सोयं । ४. त-भ- देवतिर्यगादिरूपेण । ५. त-मु-प्राणिजातं लक्ष्यते । ६. ग
त४.५-भ-विविधं । ७. ६ - भ८ - वसून्यत्रेति । ८. त-भ- स एव ।