2022-09-12 11:26:11 by ambuda-bot
This page has not been fully proofread.
म. १०. अ. ७. सू. ९० ]
अष्टमोऽष्टकः
सहस्रंऽशीर्पा । पुरु॑षः । स॒हस्र॑ऽअ॒क्षः । स॒हस्र॑ऽपात् ।
सः । भूमि॑म् । वि॒श्वत॑ः । वृ॒त्वा । अति॑ । अ॒ति॑ष्ठ॒त् । दशऽअङ्गुलम् ॥ १ ॥
सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुष: ' सोऽयं सहस्रशीर्षा । सहस्रशब्द-
स्योपलक्षणस्वादनन्तैः शिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तदेहान्तःपा-
तित्वात्तदीयान्येवेति सहस्रशर्पित्वम् । एवं सहस्राक्षित्वं सहस्रपादत्वं च । सः पुरुषः भूमिं ब्रह्माण्ड-
गोलकरूपां विश्वतः सर्वतः Vवृत्वा परिवेष्टय दशाङ्गुलं दशाङ्गुलपरिमितं देशम् अत्यतिष्ठत्
अतिक्रम्य व्यवस्थितः । दशाङ्गुलमित्युपलक्षणम् । ब्रह्माण्डाद्वहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः ॥
पुरु॑ष ए॒वेदं सर्वे॒ यद्भुतं यच्च॒ भव्य॑म् ।
उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदने॑नाति॒रोह॑ति ॥ २ ॥
पुरु॑षः । ए॒व । इ॒दम् । सर्व॑म् । यत् । भू॒तम् । यत् । च॒ । भव्य॑म् ।
उ॒त । अ॒भृत॒ऽत्वस्य॑ । ईशा॑नः । यत् । अन्नैन । अ॒ति॒ऽरोह॑ति ॥ २ ॥
।
V
यत् इदं वर्तमानं जगत् तत् सर्व पुरुष एव । यत् च भूतम् अतीतं जगत् ण्यश्च
भव्यं भविष्यज्जगत् तदपि पुरुष एव । यथास्मिन् कल्पे वर्तमानाः प्राणिः सर्वेऽपि विराट्-
पुरुषस्यावयवाः तथैवातीतागामिनोरपि कल्पयोर्दष्टव्यमित्यभिप्रायः । Vउत अपि च अमृतत्वस्य
देवत्वस्य अयम् ईशानः स्वामी । यत् यस्मात्कारणात् अन्नेन प्राणिनां भोग्येनानेन निमित्त
भूतेन' अतिरोहति स्वकीयां कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति तस्मात्प्राणिनां
कर्मफलभोगाय जगदवस्थास्वीकारानेदं तस्य वस्तुस्वमित्यर्थः ॥
ए॒तावा॑नस्य महि॒मातो॒ ज्यायो॑श्च॒ पूरु॑षः ।
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ वि॒पाद॑स्या॒मृते॑ दि॒वि ॥ ३ ॥
ए॒तावा॑न्। अस्य॒। म॒हि॒मा । अत॑ः । ज्याया॑न् । च॒ । पुरु॑षः ।
६१५
पादः
: । अ॒स्य॒ । वि॑िश्वा॑ । भू॒तानि॑ । त्र॒ऽपात् । अ॒स्य॒ । अ॒मृत॑म् । दि॒वि ॥ ३ ॥
अतीतानात वर्तमानरूपं जगद्यावदस्ति Vएतावान् सर्वोऽपि अस्य पुरुषस्य महिमा
स्वकीयसामर्थ्यविशेषः । न तु तस्य वास्तवस्वरूपम् । वास्तवस्तु पुरुष: अतः महिन्नोऽपि ज्यायान्
अतिशयेनाधिकः । एतच्चोभयं स्पष्टीक्रियते । अस्य पुरुषस्य विश्वा सर्वाणि भूतानि कालत्रयवर्तीनि
प्राणिजातानि पाद: चतुर्थोऽशः । अस्य पुरुषस्य अवशिष्टं त्रिपात् स्वरूपम् अमृतं विनाशरहितं
सत् दिवि द्योतनात्मके स्वप्रकाशस्वरूपे व्यवतिष्ठत इति शेषः । यद्यपि 'सत्यं शाममनन्तं ब्रह्म
(तै. आ. ८.१; तै. उ. २.१ ) इत्याम्नातस्य परब्रह्मण इयत्ताभावात् पादचतुष्टयं निरूपयितुमशक्यं
तथापि जगदिदं ब्रह्मस्वरूपापेक्षयाल्पमिति विवक्षितत्वात् पादत्वोपन्यासः ॥
>
१. त१.२.३.६.७.८-भ- 'पुरुषः' नास्ति । २. त१.२.३-भ२.७.८ - प्राणिदेवाः । ३. त-भ-मु-
अनेन भोग्येन । ४. त१.२.३.६.७.८-भ-मु- निमित्तन । ५० गत - वस्तुतत्त्व मित्यर्थः । ६. त-भ- चतुर्थो-
शश्च । ७. गत४.५ मु- इयत्ताया अभावात्; त२.३.६.७.८ - भ४.८ - इयत्ता अभावात् ।