2022-09-12 11:26:11 by ambuda-bot
This page has not been fully proofread.
६१४
ऋग्वेदः
[ अ. ८. अ. ४. व. १७
पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्म॑णि॒ मन्द॑न् गृण॒तामृषी॒णाम् ।
इ॒मामा॒घोष॒नव॑सा॒ सह॑तं ति॒रो विश्वा॒ अच॑तो याहा॒र्वाङ् ॥ १६ ॥
पु॒रू॒णि॑। हि । त्वा॒ । सव॑ना । जना॑नाम् । ब्रह्म॑णि । मन्द॑न् । गृण॒ताम् । ऋषी॒णाम् ।
इ॒माम् । आ॒ऽघोष॑न् । अव॑सा । सऽहु॑तिम् । ति॒रः । विश्वा॑न् । अचे॑तः । या॒हि॒ । अ॒र्वाङ् ॥ १६ ॥
V
हे इन्द्र Vत्वा त्वां जनानां संबन्धीनि पुरूणि बहूनि सवना सवनानि ब्रह्माणि स्तोत्राणि
च मन्दन् स्तुवन्ति मोदयन्ति वा । गृणतां स्तुवताम्' ऋषीणाम् इमां सहूतिं स्तुतिं त्वम्
आघोषन् महती शोभना चेयं स्तुतिरिति वदन् अर्चतः स्तुवतोऽन्यान् विश्वान् सर्वानपि प्रतिरः
तिरस्कृत्य अवसा रक्षणेन सह अर्वाङ् अस्मदभिमुखं Vयाहि गच्छ' ॥
ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒ना॑ वि॒द्याम॑ सु॒मती॒नां नवा॑नाम् ।
वि॒द्याम॒ वस्तो॒रव॑सा गुणन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नूनम् ॥ १७ ॥
ए॒व। तॆ। त्र॒यम् । इ॒न्द्र् । भु॒ञ्जतीनाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् । नवा॑नाम् ।
वि॒द्याम॑ । वस्तो॑ । अत्र॑सा । गृ॒णन्त॑ः । वि॒श्वामि॑त्राः । उ॒त । ते॒ । इन्द्र॒ । नुनम् ॥ १७ ॥
।
हे Vइन्द्र Vते तवैव Vभुञ्जतीनां रक्षन्तीः प्रियाः Vवयं विश्वामित्रपुत्रा रेणवः विद्याम
लभेमहि । Vउत अपि च हे इन्द्र ते तव नवानां नूतनाः सुमतीनां सुमतीरनुग्रहबुद्धी: Vवस्तोः
अहनि अवसा रक्षणार्थं गृणन्तः नूनं त्वां स्तुवन्त एव विश्वामित्राः विश्वामित्रपुत्रा वयं
विद्याम लभेमहि ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन् भर॒ नृत॑म॒ वाज॑सातौ ।
शृ॒ण्वन्तं॑मु॒ग्रमूतये॑ स॒मत्सु मन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ १८ ॥
शु॒नम् । हु॒वेम॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरै । नृऽत॑म॒म् । वाज॑ऽसा॒तौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑। स॒मत्ऽसु॑ । नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजत॑म् । धना॑नाम् ॥१८॥
।
अस्मिन्भरे संग्रामे Vशुनं वृद्धं मघवानं धनवन्तं शृण्वन्तम् अस्मदीयस्थाह्वानस्थ श्रोतारम्
Vउग्रम् उद्दूर्ण समस्सु संग्रामेषु वृत्राणि शत्रून् नन्तं मारयन्तं धनानां, शत्रुधनानां संजितं
सम्यगेत्र जेतारन् इन्द्रं वाजसातौ अनस्य लाभाय ऊतये रक्षणाय च हुवेम आह्वयेम ॥ ॥ १६ ॥
सहस्रशीर्पा ' इति षोडशचं पष्ठं सूक्तम् । नारयणो नामर्पिरन्त्या त्रिष्टुप् शिष्टा अनुष्टुभः ।
अव्यक्तमहदादिविलक्षणश्चेतनो यः पुरुषः 'पुरुषान परं किंचित् ' ( क. उ. ११ ) इत्यादिश्रुतिषु
प्रसिद्धः स देवतां । तथा चानुक्रान्तं - सहस्रशीर्षा पोळश नारायणः पौरुषमानुष्टुभं त्रिष्टुबन्तं तु '
इति । गतो विनियोगः ॥
स॒हस्र॑शीषो॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
स भूमि॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गुलम् ॥ १ ॥
१, त१.२.३.६.७.८-भ- 'स्तुवतां' नास्ति । २. ग त४.५ - आगच्छ ।