This page has been fully proofread twice.

अथ कुमुदचन्द्रवादी स्वयं ज्यायान् किञ्चिद्व्यतिक्रान्तशैशवं श्रीहेमचन्द्रं प्रति 'पीतं तक्रं भवता ?' इत्यभिहिते श्रीहेमचन्द्रस्तं प्रति 'जरातरलितमतिः किमेवमसमञ्जसं ब्रूषे ? श्वेतं तक्रं पीता हरिद्रा' इति वाक्येनाधःकृतः 'युवयोः को वादी ?' इति पृच्छन्, श्रीदेवसूरिभिस्तत्तिरस्कारकरणाय 'अयं भवतः प्रतिवादी'त्यभिहिते कुमुदचन्द्रः प्राह -- 'मम वृद्धस्यानेन शिशुना सह को वादः ?' इति तदुक्तिमाकर्ण्य 'अहमेव ज्यायान् भवांस्तु शिशुः, योऽद्यापि कटीदवरकं निवसनं च नादत्से' इति । राज्ञा तयोर्वितण्डायां निषिद्धायामित्थं मिथः पणबन्धः समजनि -- 'पराजितैः श्वेताम्बरैर्दिगम्बरत्वमङ्गीकार्यम्, दिगम्बरैस्तु देशत्यागः' इति निर्णीतपणबन्धादनु स्वदेशकलङ्कभीरुभिर्देवाचार्यैः सर्वानुवादपरिहारपरैर्देशानुवादपरायणैः कुमुदचन्द्रं प्रति 'प्रथमं भवान् कक्षीकरोतु पक्षम्' इत्यभिहिते --
 
१५९. खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालयच्छायामाश्रयते शशी मशकतामायान्ति यत्राद्रयः ।
इत्थं वर्णयतो नमस्तव यशो जातं स्मृतेर्गोचरं तद्यस्मिन्भ्रमरायते नरपते ! वाचस्ततो मुद्रिताः ॥
 
इति नृपं प्रत्याशिषं ददौ । 'वाचस्ततो मुद्रिताः' इति तदीयापशब्देन सभ्यास्तं स्वहस्तबन्धनमिति विमृशन्तो मुमुदिरे । अथ देवाचार्याः --
 
१६०. नारीणां विदधाति निर्वृतिपदं श्वेताम्बरप्रोल्लसत्कीर्तिस्फातिमनोहरं नयपथप्रस्तारभृङ्गीगृहम् ।
यसिन्केवलिनो न निर्जितपरोत्सेकाः सदा दन्तिनो राज्यं तज्जिनशासनं च भवतश्चौलुक्य ! जीयाच्चिरम् ॥
 
नृपं प्रतीमामाशिषं ददौ । अथ वादी कुमुदचन्द्रः केवलिभुक्ति-स्त्रीमुक्ति-चीवरनिराकरणपक्षोपन्यासं पारापतविहङ्गोपमया स्खलितस्खलितया गिरा प्रारभमाणः सभ्यैरन्तर्विहसद्भिः प्रत्यक्षप्रशंसापरैः पुरस्क्रियमाणः कियदुपन्यासप्रान्ते उच्यतामिति तेनोक्तः श्रीदेवाचार्यः प्रलयकालोन्मीलितप्रचण्डपवनक्षुभिताम्भोधिनिचितवीचीसमीचीभिर्वाग्भिर्बृहदुत्तराध्ययनवृत्तेश्चतु-
रशीतिविकल्पजालोपन्यासप्रक्रमे भास्वत्प्रतिभासप्रसरपरिम्लानायमानकुमुदः कुमुदचन्द्रः
सम्भ्रमभ्रान्तचेतास्तद्वचनान्यवधारयितुमक्षमो भूयस्तमेवोपन्यासं समभ्यर्थितवान् । श्रीसिद्धराजसभ्येषु च निषेधपरेष्वपि अप्रमेयप्रमेयलहरीभिस्तं प्रमाणाम्भोधौ मज्जयितुं प्रारब्धे षोडशे दिने आकस्मिके देवाचार्यस्य कण्ठग्रहे मान्त्रिकैः श्रीयशोभद्रसूरिभिरतुल्यकुरुकुल्लादेवीप्रसादलब्धवरैस्तत्कण्ठपीठात्क्षणात्क्षपणककृतकार्मणा- नुभावाद् केशकन्दुकः बहिः पातयांचक्रे । तच्चित्रनिरीक्षणाच्चतुरैः स श्रीयशोभद्रसूरिः श्लाघ्यमानः कुमुदचन्द्रश्चामन्दं निन्द्यमानः प्रमोदविषादौ दधाते । अथ श्रीदेवसूरिभिरुपन्यासोपक्रमे कोटाकोटिरिति शब्दे प्रोच्यमाने तच्छब्दव्युत्पत्तिं कुमुदचन्द्रे पृच्छति कण्ठपीठे लुठिताष्टव्याकरणः पण्डितः काकलः शाकटायनव्याकरणोदितटाप्टीप्सूत्रनिष्पन्नं कोटाकोटिः कोटीकोटिः कोटिकोटिरिति सिद्धं शब्दत्रयनिर्णयं प्राह । अथ प्रथममेव 'वाचस्ततो मुद्रिता' इति स्वयं पठितत्वापशब्दप्रभावात्तदा प्रादुर्भूतमुखमुद्रः 'श्रीदेवाचार्येण निर्जितोऽहमि'ति स्वयमुच्चरन् श्रीसिद्धराजेन पराजितव्यवहारात्, अपद्वारेणोपसार्यमाणः सम्भवत्पराभवाविर्भावादूर्द्ध्वस्फोटं प्राप्य विपेदे ।