2023-12-06 06:37:03 by Bharadwajraki
This page has been fully proofread twice.
हेलोत्पाटिततुङ्गपर्वतशिरोग्रावत्रिनेत्राचलक्षेपक्षोभविवर्द्धमानसलिलं बध्नामि वा वारिधिम् ॥
इति तदुक्तिश्रवणात्सिद्धान्तकुशलतां तस्याल्पीयसीमवगम्य जितं जितमिति मन्यमानाभ्यां श्रीदेवाचार्य-श्रीहेमचन्द्राभ्यां प्रमुदितम् । अथ देवसूरिप्रभो रत्नप्रभाभिधानः प्रथमशिष्यः क्षपामुखे गुप्तवेषतया कुमुदचन्द्रस्य गुरूदरे गतः । तेन कस्त्वमित्यभिहिते -- अहं देवः । देवः कः ? । अहं । अहं कः ? । त्वं श्वा । श्वा कः ? । त्वं । त्वं कः ? । अहं देवः [ कुत आयातस्त्वं ? । स्वर्गात् । स्वर्गे का का वार्ता ? । कुमुदचन्द्रदिगम्बरशिरः पञ्चाशीति पलानि । तर्हि किं प्रमाणम् ? । छित्त्वा
तोल्यताम् । ] इति तयोरुक्तिप्रत्युक्तिबन्धे चक्रभ्रमं भ्रमति, आत्मानं देवं, दिगम्बरं श्वानं च संस्थाप्य यथागतं जगाम । तेन चक्रदोषप्रादुष्करणेन विषादनिषादसम्पर्कात् --
१५४. हंहो श्वेतपटाः किमेष विकटाटोपोक्तिसण्टङ्कितैः संसारावटकोटरेऽतिविकटे मुग्धो जनः पात्यते ।
तत्वातत्त्वविचारणासु यदि वो हेवाकलेशस्तदा सत्यं कौमुदचन्द्रमङ्घ्रियुगलं रात्रिंदिवं ध्यायत ॥
इमां तदुचितां कवितां निर्माय समायः कुमुदचन्द्ररः श्रीदेवसूरीन् प्रति प्राहिणोत् । तदनु
तच्चरणपरमपरमाणुर्बुद्धिवैभवावगणितचाणक्यः पण्डितमाणिक्यः --
१५५. कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यङ्घ्रिणा कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति ।
कः सन्नह्यति पन्नगेश्वरशिरोरत्नावतंसं श्रिये यः श्वेताम्बरशासनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥
अथ रत्नाकरपण्डितः --
१५६. नग्नैर्निरुद्धा युवतीजनस्य यन्मुक्तिरत्र प्रकटं हि तत्त्वम् ।
तत्किं वृथा कर्कशतर्ककेलौ तवाभिलाषोऽयमनर्थमूलः ॥
इति कुमुदचन्द्रं प्रति सोपहासं प्राहिणोत् ।
अथ श्रीमयणल्लदेवीं कुमुदचन्द्रपक्षपातिनीम्, अभ्याशवर्तिनः सभ्यांस्तज्जयाय नित्यमुपरोधयन्तीं श्रुत्वा श्रीहेमचन्द्राचार्येण 'वादस्थले दिगम्बराः स्त्रीकृतं सुकृतमप्रमाणीकरिष्यन्ति सिताम्बरास्तं स्थापयिष्यन्ती'ति तेषामेव पार्श्वात्तद्वृत्तान्ते निवेदिते राज्ञी व्यवहारबहिर्मुखे दिगम्बरे पक्षपातमुज्झां चकार ।
अथ भाषोत्तरलेखनाय सुखासनसमासीनः कुमुदचन्द्रः पण्डितरत्नप्रभश्चरणचारेणाऽक्षपटले समागतौ । तदधिकृतैः --
१५७. केवलिहूओ न भुञ्जइ चीवरसहियस्स नत्थि निव्वाणं । इत्थीभवे न सिज्झइ मयमेयं कुमुदचन्दस्स ॥
इति भाषां कुमुदचन्द्रो लेखयामास । अथ सिताम्बराणामुत्तरम् --
१५८. केवलिहूओ वि भुञ्जइ चीवरसहियस्स नत्थि निव्वाणं । इत्थीभवे वि सिज्झइ मयमेयं देवसूरीणं ॥
इति भाषोत्तरलेखनानन्तरं निर्ण्णीते वादस्थलवासरे श्रीसिद्धराजे समाजमागते, षड्दर्शनप्रमाणवेदिषु सभ्येषु समुपस्थितेषु कुमुदचन्द्रवादी पुरो वाद्यमानजयडिण्डिमो ध्रियमाणसितातपत्रः सुखासनसभासीनः पुरो वंशाग्रलम्बमानपत्रावलम्बः श्रीसिद्धराजसभायां नृपप्रसादीकृतसिंहासने निषसाद । प्रभुश्रीदेवसूरयश्च श्रीहेमचन्द्रमुनीन्द्रसहिताः सभासिंहासनमेकमेवालंचक्रुः ।
इति तदुक्तिश्रवणात्सिद्धान्तकुशलतां तस्याल्पीयसीमवगम्य जितं जितमिति मन्यमानाभ्यां श्रीदेवाचार्य-श्रीहेमचन्द्राभ्यां प्रमुदितम् । अथ देवसूरिप्रभो रत्नप्रभाभिधानः प्रथमशिष्यः क्षपामुखे गुप्तवेषतया कुमुदचन्द्रस्य गुरूदरे गतः । तेन कस्त्वमित्यभिहिते -- अहं देवः । देवः कः ? । अहं । अहं कः ? । त्वं श्वा । श्वा कः ? । त्वं । त्वं कः ? । अहं देवः [ कुत आयातस्त्वं ? । स्वर्गात् । स्वर्गे का का वार्ता ? । कुमुदचन्द्रदिगम्बरशिरः पञ्चाशीति पलानि । तर्हि किं प्रमाणम् ? । छित्त्वा
तोल्यताम् । ] इति तयोरुक्तिप्रत्युक्तिबन्धे चक्रभ्रमं भ्रमति, आत्मानं देवं, दिगम्बरं श्वानं च संस्थाप्य यथागतं जगाम । तेन चक्रदोषप्रादुष्करणेन विषादनिषादसम्पर्कात् --
१५४. हंहो श्वेतपटाः किमेष विकटाटोपोक्तिसण्टङ्कितैः संसारावटकोटरेऽतिविकटे मुग्धो जनः पात्यते ।
तत्वातत्त्वविचारणासु यदि वो हेवाकलेशस्तदा सत्यं कौमुदचन्द्रमङ्घ्रियुगलं रात्रिंदिवं ध्यायत ॥
इमां तदुचितां कवितां निर्माय समायः कुमुदचन्द्
तच्चरणपरमपरमाणुर्बुद्धिवैभवावगणितचाणक्यः पण्डितमाणिक्यः --
१५५. कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यङ्घ्रिणा कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति ।
कः सन्नह्यति पन्नगेश्वरशिरोरत्नावतंसं श्रिये यः श्वेताम्बरशासनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥
अथ रत्नाकरपण्डितः --
१५६. नग्नैर्निरुद्धा युवतीजनस्य यन्मुक्तिरत्र प्रकटं हि तत्त्वम् ।
तत्किं वृथा कर्कशतर्ककेलौ तवाभिलाषोऽयमनर्थमूलः ॥
इति कुमुदचन्द्रं प्रति सोपहासं प्राहिणोत् ।
अथ श्रीमयणल्लदेवीं कुमुदचन्द्रपक्षपातिनीम्, अभ्याशवर्तिनः सभ्यांस्तज्जयाय नित्यमुपरोधयन्तीं श्रुत्वा श्रीहेमचन्द्राचार्येण 'वादस्थले दिगम्बराः स्त्रीकृतं सुकृतमप्रमाणीकरिष्यन्ति सिताम्बरास्तं स्थापयिष्यन्ती'ति तेषामेव पार्श्वात्तद्वृत्तान्ते निवेदिते राज्ञी व्यवहारबहिर्मुखे दिगम्बरे पक्षपातमुज्झां