This page has been fully proofread twice.

ज्ञातस्वरूप एव गिरिमधिरुह्य गङ्गोदकेन श्रीयुगादिदेवं स्नपयन् पर्वतसमीपवर्त्तिग्रामद्वादशकशासनं श्रीदेवाय विश्राणयामास । तीर्थदर्शनाच्चोन्मुद्रितलोचन इवामृताभिषिक्त इव तस्थौ । 'अत्र पर्वते सल्लकीवनसरित्पूरसङ्कुले इहैव विन्ध्यवनं रचयिष्यामीत्यवन्ध्यप्रतिज्ञो हस्तियूथनिष्पत्तये विहस्तमनसं मनोरथेनापि तीर्थविध्वंसपातकिनं घिग्मामि'ति श्रीदेवपादानां पुरतो राजलोकविदितं स्वं निन्दन् सानन्दो गिरेरवततार ।
 
१०९) अथ श्रीदेवसूरिचरितं व्याख्यास्यामः -- तस्मिन्नवसरे कुमुदचन्द्रनामा दिगम्बरस्तेषु तेषु देशेषु चतुरशीतिवादैर्वादिनो निर्जित्य कर्णाटदेशाद्गुर्जरदेशं जेतुकामः कर्णावतीं प्राप । तत्र
भट्टारकश्रीदेवसूरीणां चतुर्मासके स्थितानां श्रीअरिष्टनेमिप्रासादे धर्मशास्त्रव्याख्याक्षणे वचनचातुरीमनुच्छिष्टामाकर्ण्य तत्पण्डितैस्तद्वृत्तान्ते निवेदिते कुमुदचन्द्रस्तेषामुपाश्रये सतृणमुदकं
प्रक्षेपितवान् । अथ तैर्महर्षिपण्डितैः खण्डनतर्कादिप्रमाणप्रवीणैस्तस्मिन्नर्थेऽनाकर्णितकयाऽवज्ञाते
सति श्रीदेवाचार्यजामिं तपोधनां शीलसुन्दरीं चेटकैरधिष्ठितां विधाय नृत्यजलानयनादिभिर्विविधाभिर्विडम्बनाभिर्विडम्ब्य तेषु चेटकेष्वपहृतेषु तां भृशं पराभवान्निर्भर्त्सनापरामपवार्य चिन्तापरोऽस्थात् ।
 
( अत्र P आदर्शे निम्नगतान्यन्यत्राप्राप्याणि पद्यानि प्राप्यन्ते -- )
 
[१०३] { हा कस्स पुरोहं पुक्करेमि असकण्णया महं पहुणो ।
नियसासणनिक्कारे जो अवयरइ सो वरं सुगओ ॥ -- साध्वीवाक्यम् ।
 
[१०४] आः कण्ठशोषपरिपोषफलं प्रमाणव्याख्याश्रमो मयि बभूव गुरोर्जनस्य ।
एवंविधान्यपि विडम्बनडम्बराणि यच्छासनस्य हहहा मसृणः शृणोमि ॥
 
[देवसूरिभिरुक्तं श्रुत्वा वर्ययाऽऽर्यया बभाण--]
 
[१०५] दुर्वादिगर्वगजनिर्दलनाङ्कुशश्रीः श्वेताम्बराभ्युदयमङ्गलबालदूर्वा ।
श्रीदेवसूरिसुगुरोर्भृकुटीललाटपट्टे स्थितिं वितनुत प्रथमावताराम् ॥ }
 
श्रीदेवसूरिभिरुक्तम् -- 'वादविद्याविनोदाय भवता पत्तने गन्तव्यम् । तत्र राजसभायां भवता सह वादं करिष्याम' इत्यादिष्टे स कृतकृत्यंमन्यमान आशावसनः श्रीपत्तनपरिसरं प्राप । श्री सिद्धराजेन मातामहगुरुरिति प्रत्युद्गमादिना सत्कृतस्तत्रावासान्दत्वा तस्थौ । श्रीसिद्धराजेन वादनिष्णाततां पृष्टाः श्रीहेमाचार्याः -- 'चतसृषु विद्यासु परं प्रावीण्यं बिभ्राणं जैनमुनिगजयूथाधिपं सिताम्बरशासनवज्रप्राकारं नृपसभाशृङ्गारहारं कर्णावतीस्थितं श्रीदेवाचार्यं वादविद्याविदं वादीभकण्ठीरवम्' प्राहुः । अथ राज्ञा तदाह्वानाय प्रेषितविज्ञप्तिकायां श्रीसंघलेखेन सममागतायां श्रीदेवसूरयः पत्तनं प्राप्य नृपोपरोधाद्वाग्देवीमाराधयामासुः । तया तु 'वादिवेतालीयश्रीशान्तिसूरिविरचितोत्तराध्ययनबृहद्वृत्तौ दिगम्बरवादस्थले चतुरशीतिविकल्पजालोपन्या भवद्भिः प्रतन्यमाने दिग्वाससो मुखे मुद्रा पतिष्यती'ति देव्यादेशानन्तरं गुप्तवृत्त्या कुमुदचन्द्रसन्निधौ पण्डितान् प्रस्थाप्य कस्मिन् शास्त्रे विशेषकौशलमिति ज्ञापिते --
 
१५३. देवादेशय किं करोमि सहसा लङ्कामिहैवानये जम्बूद्वीपमितो नयेयमथवा वारांनिधिं शोषये ।