This page has been fully proofread once and needs a second look.

६६
 
प्रबन्धचिन्तामणिः ।
 
ज्ञातस्वरूप एव गिरिमधिरुह्य गङ्गोदकेन श्रीयुगादिदेवं स्पयन् पर्वतसमीपवर्त्तिग्रामदाद्वादशक-
शासनं श्रीदेवाय' विश्राणयामास । तीर्थदर्शनाच्चोन्मुद्रितलोचन इवामृताभिषिक्त इव तस्थौ ।
'अत्र पर्वते सल्लकीवनसरित्पूरसङ्कुले इहैव विन्ध्यवनं' रचयिष्यामीत्यवन्ध्यप्रतिज्ञो हस्तियूथनि-
ष्पत्तये विहस्तमनसं मनोरथेनापि तीर्थविध्वंसपातकिनं घिग्मामि'ति श्रीदेवपादानां पुरतो राज-
5
लोकविदितं स्वं निन्दन् सानन्दो' गिरेरवततार ।
 

 
१०९) अथ श्रीदेवरिचरितं व्याख्यास्यामः -- तस्मिन्नवसरे कुमुदचन्द्रनामा दिगम्बरस्तेषु तेषु
देशेषु चतुरशीतिवादैर्वादिनो निर्जित्य कर्णाटदेशाद्दूगुर्जरदेशं जेतुकामः कर्णावर्तीतीं प्राप । तत्र

हाट्टारकश्रीदेवसूरीणां चतुर्मासके स्थितानां श्रीअरिष्टनेमिप्रासादे धर्मशास्त्र व्याख्याक्षणे वचन-
चातुरीमनुच्छिष्टामाकर्ण्य तत्पण्डितैस्तद्वृत्तान्ते निवेदिते कुमुदचन्द्रस्तेषामुपाश्रये सतृणमुदकं
10

प्रक्षेपितवान् । अथ तैर्महर्षिपण्डितैः खण्डनतर्कादिप्रमाणप्रवीणैस्तस्मिन्नर्थेऽनाकर्णितकयाsवज्ञाते

सति श्रीदेवाचार्यजामिं तपोधनां शीलसुन्दरीं चेटकैरधिष्ठितां विधाय नृत्यजलानयनादि-
भिर्विविधाभिर्विडम्बनाभिर्विडम्ब्य तेषु चेटकेष्वपहृतेषु तां भृशं पराभवान्निर्भर्त्सनापरामप
वार्य चिन्तापरोऽस्थात्"
 

 
( अत्र P आदर्शे निम्नगतान्यन्यत्राप्राप्याणि पद्यानि प्राप्यन्ते -- )

 
[१०३] { हा कस्स पुरोहं पुक्करेमि असकण्णया महं पहुणो ।
 

नियसासणनिक्कारे जो अवयरइ सो वरं सुगओ ॥ -- साध्वीवाक्यम् ।
 
[१०४]
 
नियसासणनिकारे जो अवयरइ सो वरं सुगओ ॥ - साध्वीवाक्यम् ।
आः कण्ठशोषपरिपोषफलं प्रमाणव्याख्याश्रमो मयि बभूव गुरोर्जनस्य ।

एवंविधान्यपि विडम्बनडम्बराणि यच्छासनस्य हहहा मसृणः शृणोमि ॥
[

 
[देवसूरिभिरुक्तं श्रुत्वा वर्ययाऽऽर्यया बभाण--]

 
[१०५] दुर्वादिगर्वगजनिर्दूलनाङ्कुशश्रीः श्वेताम्बरा भ्युदयमङ्गलबालदूर्वा ।
श्रीदेव

श्रीदेवसू
रिसुगुरोर्भृकुटीललाटपट्टे स्थितितिं वितनुत प्रथमावताराम् ॥ }

 
श्रीदेवसूरिभिरुक्तम्' -- 'वादविद्याविनोदाय भवता पत्तने गन्तव्यम् । तत्र राजसभायां भवता
सह वादं करिष्याम' इत्यादिष्टे स कृतकृत्यंमन्यमान आशावसनः श्रीपत्तनपरिसरं प्राप"
श्री सिद्धराजेन मातामहगुरुरिति प्रत्युद्गमादिना सत्कृतस्तत्रावासान्दत्वा तस्थौ । श्रीसिद्धराजेन
25
वादनिष्णाततां पृष्टाः श्रीहेमाचार्या:याः -- 'चतसृषु विद्यासु परं प्रावीण्यं बिभ्राणं जैनमुनिगजयूथा-
धिपं सिताम्बरशासनवज्रप्राकारं नृपसभाशृङ्गारहारं कर्णावतीस्थितं श्रीदेवाचार्यं वादविद्याविदं
वादीभकण्ठीरवम्' प्राहुः । अथ राज्ञा तदाहाह्वानाय प्रेषितविज्ञसिप्तिकायां श्रीसंघलेखेन सममाग-
तायां श्रीदेवसूरयः पत्तनं प्राप्य नृपोपरोधाद्वाग्देवीमाराधयामासुः । तया तु 'वादिवेतालीय-
श्री
श्रीशान्तिसूरिविरचितोत्तराध्ययनबृहद्वृत्तौ दिगम्बरवादस्थले चतुरशीतिविकल्पजालोपन्यासे
30
भवद्भिः प्रतन्यमाने दिग्वाससो मुखे मुद्रा पतिष्यती' ति देव्यादेशानन्तरं गुप्तवृत्त्या कुमुचन्द्रस-
न्निधौ पण्डितान् प्रस्थाप्य कस्मिन् शास्त्रे विशेषकौशलमिति ज्ञापिते -
-
 
१५३. देवादेशय किं करोमि सहसा लङ्कामिहैवानये जम्बूद्वीपमितो" नयेयमथवा वारांनिधिं शोषये ।
 
15
 
[ तृतीयः
 
20
 
1 D श्रीदेवाचार्ये (?)। 2 I) जातः; AB नास्ति । 3D ० विन्ध्यं करिष्यामि । 4D निनिन्द । 5 नास्तीदं पदं BP
6 AD महर्षिभिः । 7 P प्रतावेवेदं पदं लभ्यते । + इत आरभ्य 'सूरिभिरुक्तम्' इति पदं यावत् एका पंक्तिः B आदर्श पतिता ।
 
11 AD प्राप्तः ।
 
8 ID तान् ।
9 A अपवादे । 10 AD नास्त्येतत्पदम् । † A आदर्शे खण्डितप्राया इयं पंक्तिरत्र लब्धा ।
12 AD 'देवी' नास्ति । 1 13 A ●द्वीपमथानये किमथवा ।