This page has not been fully proofread.

६६
 
प्रबन्धचिन्तामणिः ।
 
ज्ञातस्वरूप एव गिरिमधिरुह्य गङ्गोदकेन श्रीयुगादिदेवं स्लपयन् पर्वतसमीपवर्त्तिग्रामदादशक-
शासनं श्रीदेवाय' विश्राणयामास । तीर्थदर्शनाचोन्मुद्रितलोचन इवामृताभिषिक्त इव तस्थौ ।
'अत्र पर्वते सल्लकीवनसरित्पूरसङ्कले इहैव विन्ध्यवनं' रचयिष्यामीत्यवन्ध्यप्रतिज्ञो हस्तियूथनि-
पत्तये विहस्तमनसं मनोरथेनापि तीर्थविध्वंसपातकिनं घिग्मामि'ति श्रीदेवपादानां पुरतो राज-
5 लोकविदितं स्वं निन्दन् सानन्दो' गिरेरवततार ।
 
१०९) अथ श्रीदेवरिचरितं व्याख्यास्यामः- तस्मिन्नवसरे कुमुदचन्द्रनामा दिगम्बरस्तेषु तेषु
देशेषु चतुरशीतिवादैर्वादिनो निर्जित्य कर्णाटदेशाद्दूर्जरदेशं जेतुकामः कर्णावर्ती प्राप । तत्र
भहारकश्रीदेवसूरीणां चतुर्मासके स्थितानां श्रीअरिष्टनेमिप्रासादे धर्मशास्त्र व्याख्याक्षणे वचन-
चातुरीमनुच्छिष्टामाकर्ण्य तत्पण्डितैस्तद्वृत्तान्ते निवेदिते कुमुदचन्द्रस्तेषामुपाश्रये सतृणमुदकं
10 प्रक्षेपितवान् । अथ तैर्महर्षिपण्डितैः खण्डनतर्कादिप्रमाणप्रवीणैस्तस्मिन्नर्थेऽनाकर्णितकयाsवज्ञाते
सति श्रीदेवाचार्यजामिं तपोधनां शीलसुन्दरीं चेटकैरधिष्ठितां विधाय नृत्यजलानयनादि-
भिर्विविधाभिर्विडम्बनाभिर्विडम्य तेषु चेटकेष्वपहृतेषु तां भृशं पराभवान्निर्भर्त्सनापरामप
वार्य चिन्तापरोऽस्थात्" ।
 
( अत्र P आदर्श निम्नगतान्यन्यत्राप्राप्याणि पद्यानि प्राप्यन्ते )
[१०३] { हा कस्स पुरोहं पुकरेमि असकण्णया महं पहुणो ।
 
[१०४]
 
नियसासणनिकारे जो अवयरइ सो वरं सुगओ ॥ - साध्वीवाक्यम् ।
आः कण्ठशोषपरिपोषफलं प्रमाणव्याख्याश्रमो मयि बभूव गुरोर्जनस्य ।
एवंविधान्यपि विडम्बनडम्बराणि यच्छासनस्य हहहा मसृणः शृणोमि ॥
[[देवसूरिभिरुक्तं श्रुत्वा वर्ययाऽऽर्यया बभाण-]
[१०५] दुर्वादिगर्वगजनिर्दूलनाङ्कुशश्रीः श्वेताम्बरा भ्युदयमङ्गलबालदूर्वा ।
श्रीदेवरिसुगुरोर्भृकुटीललाटपट्टे स्थिति वितनुत प्रथमावताराम् ॥ }
श्रीदेवसूरिभिरक्तम्'-'वादविद्याविनोदाय भवता पत्तने गन्तव्यम् । तत्र राजसभायां भवता
सह वादं करिष्याम' इत्यादिष्टे स कृतकृत्यंमन्यमान आशावसनः श्रीपत्तनपरिसरं प्राप" ।
श्री सिद्धराजेन मातामहगुरुरिति प्रत्युद्गमादिना सत्कृतस्तत्रावासान्दत्वा तस्थौ । श्रीसिद्धराजेन
25 वादनिष्णाततां पृष्टाः श्रीहेमाचार्या:-'चतसृषु विद्यासु परं प्रावीण्यं बिभ्राणं जैनमुनिगजयूथा-
धिपं सिताम्बरशासनवज्रप्राकारं नृपसभाशृङ्गारहारं कर्णावतीस्थितं श्रीदेवाचार्य वादविद्याविदं
वादीभकण्ठीरवम्' प्राहुः । अथ राज्ञा तदाहानाय प्रेषितविज्ञसिकायां श्रीसंघलेखेन सममाग-
तायां श्रीदेवसूरयः पत्तनं प्राप्य नृपोपरोधाद्वाग्देवीमाराधयामासुः । तया तु 'वादिवेतालीय-
श्री शान्तिसूरिविरचितोत्तराध्ययनबृहद्वृत्तौ दिगम्बरवादस्थले चतुरशीतिविकल्पजालोपन्यासे
30 भवद्भिः प्रतन्यमाने दिग्वाससो मुखे मुद्रा पतिष्यती' ति देव्यादेशानन्तरं गुप्तवृत्त्या कुमुचन्द्रस-
न्निधौ पण्डितान् प्रस्थाप्य कस्मिन् शास्त्रे विशेषकौशलमिति ज्ञापिते-
१५३. देवादेशय किं करोमि सहसा लङ्कामिहैवानये जम्बूद्वीपमितो" नयेयमथवा वारांनिधिं शोषये ।
 
15
 
[ तृतीयः
 
20
 
1 D श्रीदेवाचार्ये (?)। 2 I) जातः; AB नास्ति । 3D ० विन्ध्यं करिष्यामि । 4D निनिन्द । 5 नास्तीदं पदं BP
6 AD महर्षिभिः । 7 P प्रतावेवेदं पदं लभ्यते । + इत आरभ्य 'सूरिभिरुक्तम्' इति पदं यावत् एका पंक्तिः B आदर्श पतिता ।
 
11 AD प्राप्तः ।
 
8 ID तान् ।
9 A अपवादे । 10 AD नास्त्येतत्पदम् । † A आदर्शे खण्डितप्राया इयं पंक्तिरत्र लब्धा ।
12 AD 'देवी' नास्ति । 1 13 A ●द्वीपमथानये किमथवा ।