This page has been fully proofread twice.

गिनेयदत्ते सङ्केते सति वप्रपरावर्त्तकालेऽयं द्रव्यव्यापादित एव करणीयो नवघनो न पुनरस्त्रादिभिरिति परिग्रहृदत्तान्तरस्थः सः विशालाच्छालाद्बहिराकृष्य द्रव्यवासणैरेव ताडयित्वा
व्यापादितः । 'अयं द्रव्यव्यापादित एव कृत' इति वचनविज्ञापनात् परिग्रहो बोधितः ।
 
अथ तद्राज्ञ्याः [सूनलदेव्याः] शोकपतिताया वाक्यानि --
 
१४८. सइरू नहीं स राण न कु लाईउ न कु लाईइ । सउं षंगारिहिं प्राण कि न वइसानरि होमीइं ॥
 
१४९. राणा सव्वे वाणिया जेसलु वड्डउ सेठि । काहूं वणिजडु माण्डीयउं अम्मीणा गढहेठि ? ॥
 
१५० तइं गरुआ गिरनार काहूं मणि मत्सरु घरिउ । मारीतां षंगार एकू सिहरु न ढालियउं ॥
 
[१००] बलि गरूया गिरिनार दीहू बोलाविउ हुयउ । लहिसि न बीजी वार एहा सज्जण भारषम ॥
 
[१०९] अम्ह एतलइं संतोसु जउ प्रभु पाए पेलिया । न कु राणिमु न कु रोसु बे पंगारहं सिउं गिया ॥
 
[१०२] मन तंबोलु म मागि झंषि म ऊघाडइं मुहिहिं । देउलवाडउं सांगि पंगारिहिं सउं तं गियउं ।
 
१५१. जेसल मोडि म बांह वलिवलि विरूए भावियइ । नइ जिम नवा प्रवाह नवघण विणु आवइ नहीं ॥
 
१५२. वाढी तउं वढवाण वीसारतां न वीसरह । सूना समा पराण भोगावह तइं भोगव्या ॥
 
इत्यादीनि बहूनि वाक्यानि यथावसरं मन्तव्यानि ।
 
१०७) तदनन्तरं महं० जाम्बान्वयस्य सज्जनदण्डाधिपतेः श्रीसिद्धराजेन योग्यतया सुराष्ट्राविषयव्यापारो नियुक्तः । तेन स्वामिनमविज्ञाप्यैव वर्षत्रयोद्ग्राहितेन श्रीमदुज्जयन्ते श्रीनेमीश्वरस्य काष्ठमयं प्रासादमपनीय नूतनः शैलमयः प्रासादः कारितः । चतुर्थे वर्षे सामन्तचतुष्टयं प्रस्थाप्य सज्जनदण्डाधिपतिं श्रीपत्तने समानीय राज्ञा वर्षत्रयोद्ग्राहितद्रव्ये याच्यमाने सहसमानीततद्देशव्यवहारिणां पार्श्वात्तावति द्रव्ये उपढौक्यमाने 'स्वामी उज्जयन्तप्रासादजीर्णोद्धारपुण्यमुद्ग्राहितद्रव्यं वा द्वयोरेकमवधारयतु' तेनेति विज्ञप्तः श्रीसिद्धराज अतुलतद्बुद्धिकौशलेन चमत्कृतचित्तस्तीर्थोद्धारपुण्यमेवोररीचकार । स पुनस्तस्य देशस्याधिकारमधिगम्य शत्रुञ्जयोज्जयन्ततीर्थयोर्द्वादशयोजनायामं दुकूलमयं महाध्वजं ददौ ।
 
॥ इति रैवतकोद्धारप्रबन्धः ॥
 
१०८) अथ भूयः सोमेश्वरयात्रायाः प्रत्यावृत्तः श्रीसिद्धाधिपो रैवतोपत्यकायां दत्तावासस्तदैव स्वं कीर्त्तनं दिदृक्षुः मत्सरोत्सेकपरैर्द्विजन्मभिः 'सजलाधारलिङ्गाकारोऽयं गिरिरित्यत्र पादस्पर्शं
नार्हती'ति कृतकवचनैर्निषिद्धस्तत्र पूजां प्रस्थाप्य स्वयं शत्रुञ्जयमहातीर्थसन्निधौ स्कन्धावारं न्यधात् । तत्र पूर्वोक्तैर्द्विजातिपिशुनैः कृपाणिकापाणिभिरकृपैस्तीर्थमार्गे निरुद्वे सति श्रीसिद्धाधिपो रजनीमुखे कृतकार्पटिकवेषः स्कन्धे निहितविहङ्गिकोभयपक्षन्यस्तगङ्गोदकपात्रस्तन्मध्ये भूत्वाऽपरि-