This page has been fully proofread twice.

१०३) अथ श्रीपालकविना सहस्रलिङ्गसरोवरस्य रचितायां प्रशस्तौ पट्टिकायामुत्कीर्णायां तच्छोधनाय सर्वदर्शनेष्वाहूयमानेषु श्रीहेमचन्द्राचार्यैः 'सर्वविद्वज्जनानुमते प्रशस्तिकाव्ये भवता किमपि वैदग्ध्यं न प्रकाश्यमि'त्युक्त्वा पण्डितरामचन्द्रमनुशिष्य तत्र प्रहितः । ततः सर्वैर्विद्वद्भिः शोध्यमानायां प्रशस्तौ नृपोपरोधाच्छ्रीपालकवेर्दक्षदाक्षिण्याच्च सर्वेषु काव्येषु मन्यमानेषु --
 
१४५. कोशेनापि युतं दलैरुपचितं नोच्छेत्तुमेतत्क्षमं स्वस्यापि स्फुटकण्टकव्यतिकरं पुंस्त्वं च धत्ते नहि ।
एकोऽप्येष करोति कोशरहितो निष्कण्टकं भूतलं मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥
 
तैः सर्वैरपि अस्य काव्यस्य विशेषप्रशंसां कुर्वाणैः श्रीसिद्धराजेन पृष्टः श्रीरामचन्द्रश्चिन्त्यमेतदित्यवादीत् । अथ तैरेव सर्वैरनुयुक्तः -- 'एतस्मिन्काव्ये सैन्यवाचको दलशब्दः, कमलशब्दस्य नित्यक्लीबत्वं च इति दूषणद्वयं चिन्त्यम्' । ततः तान् सर्वानपि पण्डितानुपरुद्ध्य दलशब्दो राज्ञा सैन्यार्थे प्रमाणीकारितः, कमलशब्दस्य तु लिङ्गानुशासनसिद्धं नित्यक्लीबत्वं केनाप्रमाणीयत इति 'पुंस्त्वं च धत्ते न वे'त्यक्षरभेदः कारितः । तदा श्रीसिद्धराजस्य सञ्जातदृष्टिदोषेण पं० रामचन्द्रस्य वसतौ प्रविशत एव लोचनमेकं स्फुटितम् ।
 
१०४) अथ कदाचित् डाहलदेशीयनरपतेः --
 
१४६. आयुक्तः प्राणदो लोके वियुक्तो मुनिवल्लभः । संयुक्तः सर्वथाऽनिष्टः केवलः स्त्रीषु वल्लभः ॥
 
इति सान्धिविग्रहिकैरानीतयमलपत्रेषु श्लोकमेनं लिखितं निशम्य किमेतदिति पृष्टास्ते प्राहुः --
'भवज्जनपदे एकैकप्रधाना भूयांसो विद्वांसस्तत्पार्श्वाद्दुर्बोधोऽयं श्लोको व्याख्येयः' इति तद्वाचमाकर्ण्य सर्वैरपि विद्वद्भिरज्ञाततदर्थैर्विमृशद्भिर्नृपेण पृष्टा हेमाचार्या इत्थं व्याचख्युः -- 'अत्र अध्याहारी हारशब्दः । तस्य आ इत्युपसर्गे कृते आहार इति सर्वजीवप्राणप्रदः । वियुक्तो विहारः सन् उभयथा यतीनां प्रियः । संपूर्वः संहारः सन् सर्वथाऽनिष्टः । निरुपसर्गः स्त्रीणामेव वल्लभः हार इति' ।
 
१०५) अन्यदा सपादलक्षक्षितिपतिना --
 
१४७. ओ()ली ताव न अणुहरइ गोरीमुहकमलस्स ।
 
इति समस्यादोधकार्द्धमत्र प्रहितम् । तैस्तैः कविभिरपूर्यमाणे
 
अद्दिट्ठी किम ओ()मियइ पडिपयली चन्दस्स ॥
 
इति उत्तरार्द्धेन श्रीहेमचन्द्रो मुनीन्द्रस्तां पूरयामास ।
 
१०६) अथ श्रीसिद्धराजो नवघणाभिधानमाभीरराणकं निगृहीतुकामः पुरैकादशधा निजसैन्ये पराजिते सति श्रीवर्द्धमानादिषु पुरेषु प्राकारप्रकरं निर्माप्य स्वयमेव प्रयाणकमकरोत् । तद्भा-