This page has been fully proofread twice.

[९२] तमाहुर्वासुदेवांशं मोक्षधर्मविधित्सया । अवतीर्णं सुतशतं तस्यासीत् ब्रह्मपारगम् ॥
 
[९३] तेषां वै भरतो ज्येष्ठो नारायणपरायणः । विख्यातं वर्षमेतद्यन्नाम्ना भरतमद्भुतम् ॥
 
[९४] अर्हन् शिवो भवो विष्णुः सिद्धश्चैव तथा बुधः । परमात्मा परश्चैव शब्दा एकार्थवाचकाः ॥
 
[९५] जैनं बौद्धं तथा ब्राह्मं शैवं च कापिलं तथा । नास्तिकं दर्शनान्याहुः षडेव हि मनीषिणः ॥
 
[९६] तत्र -- कुलादिबीजं सर्वेषां प्रथमो विमलवाहनः । मरुदेवश्च नाभिश्च भरते कुलसत्तमाः ॥ }
 
इत्यादिपुराणोक्तान्युदीर्य विशेषप्रत्ययाय श्रीवृषभदेवप्रासादकोशाच्छ्रीभरतभूपनामाङ्कितं पञ्चजनवाह्यं कांस्यतालमानीय नृपाय दर्शयन्तो द्विजा जिनधर्मस्याद्यधर्मत्वं स्थापयामासुः । ततः प्रभृति स्वेखेदमेदुरमानसेन अवनीशेन हायनान्ते जैनप्रासादेषु ध्वजाधिरोपः कारितः ।
 
१०२) अथ श्रीपत्तने प्राप्तो नृपः प्रस्तावे सरोवरकर्मस्थायव्ययपदेषु वाच्यमानेषु सापराधव्यवहारिसुतदण्डपदाल्लक्षत्रयं कर्मस्थाये व्यवकलितमिति श्रुत्वा, तल्लक्षत्रयं तस्य गृहे प्रस्थापयामास । ततः स व्यवहारी, उपायनपाणिर्नृपोपान्तमुपेत्य किमेतदिति विज्ञपयन् कर्मस्थायव्यवहारिणे नृपः प्राह -- 'यः कोटिध्वजो व्यवहारी स कथं ताडङ्कचौरः ? त्वयाऽस्य धर्मस्थानस्य धर्मविभागः प्रार्थितोऽपि यन्न लब्धस्ततः प्रपञ्चचतुरेण मृगमुखव्याघ्रेणेवान्तःशठेन प्रत्यक्षसरलेन इदं कर्म भवता निर्ममे ।' [ इत्यादिवाक्यैर्भृशं खण्डितः । ]
 
१४३. यस्यान्तर्गिरिशागारदीपिकाः प्रतिबिम्बिताः ।
शोभन्ते निशि पातालव्यालमौलिमणिश्रियः ॥
 
९४४. न मानसे माद्यति मानसं मे पम्पा न सम्पादयति प्रमोदम् ।
अच्छोदमच्छोदकमप्यसारं सरोवरे राजति सिद्धभर्तुः ॥
 
( एकदा श्रीसिद्धेन रामचन्द्रः पृष्टः -- 'ग्रीष्मे दिवसाः कथं गुरुतराः ?' । रामचन्द्रः ग्प्राह --
 
[९७] देव श्रीगिरिदुर्गमल्ल भवतो दिग्जैत्रयात्रोत्सवे धावद्वीरतुरङ्गवल्गनखुरक्षुण्णक्षमामण्डली ।
वातोद्धूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थलीदूर्वाचुम्बनचञ्चुरा रविहयास्तेनैव वृद्धं दिनम् ॥
 
[९८] लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । तथापि तव सिद्धेन्द्र दातेत्युत्कन्धरं यशः ॥
 
अथ कदाचिद्राज्ञा ग्रथिलाचार्या जयमङ्गलसूरयः पुरवर्णनं पृष्टा ऊचुः --
 
[९९] एतस्यास्य पुरस्य पौरवनिताचातुर्यतानिर्जिता मन्ये हन्त सरस्वती जडतया नीरं वहन्ती स्थिता ।
कीर्तिस्तम्भमिषोच्चदण्डरुचिरामुत्सृज्य बाहोर्बलात्तन्त्रीकां गुरुसिद्धभूपतिसरस्तुम्बां निजां कच्छपीम् ॥ }