This page has been fully proofread once and needs a second look.

प्रकाश: ]
 
सिद्धराजादिप्रबन्धः ।
 
[९२] तमाहुर्वासुदेवांशं मोक्षधर्मविघिधित्सया । अवतीर्णं सुतशतं तस्यासीत् ब्रह्मपारगम् ॥
 

 

 
[९३] तेषां वै भरतो ज्येष्ठो नारायणपरायणः । विख्यातं वर्षमेतद्यन्नाम्ना भरतमद्भुतम् ॥

 
[९४] अर्हन् शिवो भवो विष्णुः सिद्धश्चैव तथा बुधः । परमात्मा परश्चैव शब्दा एकार्थवाचकाः ॥

 
[९५]
जैनं बौद्धं तथा ब्राह्मं शैवं च कापिलं तथा । नास्तिकं दर्शनान्याहुः षडेव हि मनीषिणः ॥

 
[९६] तत्र -- कुलादिवीबीजं सर्वेषां प्रथमो विमलवाहनः । मरुदेवश्च नामिभिश् भरते कुलसत्तमाः ॥ }
 
[९५]
 
-
 

 
इत्यादिपुराणोक्तान्युदीर्य विशेषप्रत्ययाय श्रीवृषभदेवप्रासादकोशाच्छ्री भरतभूपनामाङ्कितं
पञ्चजनवाहांह्यं कांस्यतालमानीय नृपाय' दर्शयन्तो द्विजा जिनधर्मस्थायाद्यधर्मत्वं स्थापयामासुः ।
:/
ततः प्रभृति' खे स्वे मेदुरमानसेन' अवनीशेन हायनान्ते जैनप्रासादेषु ध्वजाधिरोपः कारितः ।
 

 
१०२) अथ श्रीपत्तने प्राप्तो नृपः' प्रस्तावे' सरोवरकर्मस्थायव्ययपदेषु वाच्यमानेषु सापराधव्य-
वहारिसुतदण्डपदाल्लक्षत्रयं कर्मस्थाये व्यवकलितमिति श्रुत्वा, तल्लक्षत्रयं तस्य गृहे प्रस्थापया - 10
मास । ततः स व्यवहारी, उपायनपाणिर्नृपोपान्तमुपेत्य किमेतदिति विज्ञपयन् कर्मस्थायव्यवहा
रिणे" नृपः" प्राह -- 'यः कोटिध्वजो व्यवहारी स कथं ताडङ्कचौरः ? त्वयाऽस्य धर्मस्थानस्य धर्मवि
भाग:गः प्रार्थितोऽपि यन्न लब्धस्ततः प्रपञ्चचतुरेण मृगमुखव्याघेघ्रेणेवान्तः टेठेन प्रत्यक्षसरलेन इदं
कर्म भवता " निर्ममे ।' [ इत्यादिवाक्यैर्भृशं खण्डितः * ।]
 
13
 

 
१४३. यस्यान्तर्गिरिशागारदीपिकाः प्रतिविबिम्बिताः ।
 

शोभन्ते निशि पातालव्यालमौलिमणिश्रियः ॥
 

 
६३
 

 
९४४.
 
न मानसे माद्यति मानसं मे पम्पा न सम्पादयति प्रमोदम् ।

अच्छोदमच्छोदकमप्यसारं सरोवरे राजति सिद्धभर्तुः ॥
 

 
( एकदा श्रीसिद्धेन रामचन्द्र पृष्टः -- 'ग्रीष्मे दिवसाः कथं गुरुतरा:राः ?' । रामचन्द्रः ग्राह -
-
 
[९७] देव श्रीगिरिदुर्गमल्ल भवतो दिग्जैत्रयात्रोत्सवे धावद्वी रतुरङ्गवल्गन खुरक्षुण्णक्षमामण्डली ।

वातोद्धूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थली दूर्वा चुम्बनचञ्चुरा रविहया स्तेनैव वृद्धं दिनम् ॥

 
[९८] लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । तथापि तव सिद्धेन्द्र दातेत्युत्कन्धरं यशः ॥

 
अथ कदाचिद्राज्ञा ग्रथिलाचार्या जयमङ्गलसूरयः पुरवर्णनं पृष्टा ऊचु:चुः -
-
 
[९९] एतस्यास्य पुरस्य पौरवनिताचातुर्यतानिर्जिता मन्ये हन्त सरस्वती जडतया नीरं वहन्ती स्थिता ।
 

कीर्तिस्तम्भमिषोच्चदण्डरुचिरामुत्सृज्य बाहोर्बलात्तन्त्रीकां गुरुसिद्धभूपतिसरस्तुम्बां निजां कच्छपीम् ॥ } 25
 
15
 

 
20
 
1 एतत्पदस्थाने BP 'यथावस्थिततदाद्यत्वस्थापनाय' एतत्पदम् । 2 BP नृपनिपुरतः । 3AD नाम्ति । 4P चक्रुः;
B चक्रे । 5 नास्ति ADI 6AD ●मनसा राज्ञा । 7 BP नाम्नि । 8 D 'सरोवरपदेषु' इत्येव; A. सरोवरव्ययपदे ।
9 AD 'तत्' नास्ति । १-१ एतदकान्तर्गतपाठस्थाने BP '० त्रये तद्गृहे स्थापिते स उपा०' एप पाठः । 10 P प्रतावेव एतत्पदं
प्राप्यते । 11 'नृपः प्राह' स्थाने AD 'राज्ञादिष्टः' । 12 AD ●व्याघेणान्तः । 13 AD त्वयेदं कर्म निर्मितम् । # केवलं D पुस्तक
एवेदं वाक्यं दृश्यते । + B आदर्श नोपलब्धमिदं पद्यद्वयम् । D पुस्तके पुनः अस्य पद्यस्य पूर्वे निम्नगतं पथद्वयमधिकं लिखितं लभ्यते ।
परोक्षे कार्यहन्तारं प्रत्यक्षै प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विपकुम्भं पयोमुखम् ॥
सुखं पद्मदलाकारं वाचश्चन्दनशीतलाः । हृदयं कर्त्तरीभूतमेतद्धूर्त्तस्य लक्षणम् ॥
 
+ P प्रतौ इदं पद्यमन्त्र प्राप्यते । ६ एतत्कोष्ठकान्तर्गतं वर्णनं D पुस्तक एवात्रोपलभ्यते । एतच्च प्रक्षिप्तप्रायमसम्बद्धत्वात् ।