2023-11-11 06:38:18 by Bharadwajraki
This page has been fully proofread twice.
१००) अन्यदा सिद्धराजस्य मालवकमण्डलं प्रति यियासतः केनापि व्यवहारिणा सहस्रलिङ्गसरोवरकर्मस्थाये विभागे याच्यमाने तत्सर्वथाऽदत्त्वैव कृतप्रयाणस्य कतिपयदिनानन्तरं
कोशाभावात् कर्मस्थायं विलम्बितमवगम्य, तेन व्यवहारिणा सुतस्य पार्श्वात्कस्यापि धनाधिपस्य वध्वास्ताङङ्कमपहार्य तद्दण्डपदे द्रव्यलक्षत्रयं दत्तम्, तेन कर्मस्थायः सञ्जातः, इति वार्त्तां शृण्वतो मालवकमण्डले वर्षाकालं तस्थुषो राज्ञो वचनगोचरातीतः प्रमोदः सञ्जातः । अथ प्रावृषेण्यघनाघनप्रगल्भवृष्ट्या क्षोणीमेकार्णवां विदधाने वर्द्धापनिकाहेतोः प्रधानपुरुषैः प्रहितः कोऽपि मरुदेशवासी नृपतिपुरतः सविस्तरं वर्षास्वरूपं विज्ञपयत् । तदात्वागतेन केनापि गूर्जरधूर्त्तेण नरेण 'सहस्रलिङ्गसरो भृतमिति स्वामिन् ! वर्द्धाप्यसे' इति तद्वाक्यानन्तरमेव सिक्ककपतितमार्जारस्येव मरुवृद्धस्य पश्यतः सर्वाङ्गलग्नमाभरणं नृपतिर्गूर्जराय ददौ ।
१०१) अथ वर्षानन्तरमेव ततः प्रत्यावृत्तः क्षितिपतिः श्रीनगरमहास्थाने दत्तावासो मञ्चरचनायां कृतसर्वावसरस्तत्र नगरप्रासादेषु ध्वजव्रजमालोक्य 'क एते प्रासादाः ?' इति ब्राह्मणान् पप्रच्छ । तैर्जिनब्रह्मादीनां प्रासादस्वरूपे निवेदिते सामर्षो राजा 'मया गूर्जरमण्डले जैनप्रासादानां पताकासु निषिद्धासु किं भवतामिह नगरे पताकावज्जिनायतनम् ?' इत्यादिशंस्तैर्विज्ञपयांचक्रे -- 'अवधार्यताम्, श्रीमन्महादेवेन कृतयुगप्रारम्भे महास्थानमिदं स्थापयता श्रीऋषभनाथश्रीब्रह्मप्रासादौ स्वयं स्थापितौ प्रदत्तध्वजौ च । तदनयोः प्रासादयोः सुकृतिभिरुद्ध्रियमाणयोश्चत्वारोगुयुगा व्यतीताः । अन्यच्च श्रीशत्रुञ्जयमहागिरेः पुरा नगरमेतदुपत्यकाभूमिः । यतो नगरपुराणेऽप्युक्तम् --
१४०. पञ्चाशदादौ किल मूलभूमेर्दशोर्ध्वभूमेरपि विस्तरोऽस्य ।
उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वराद्रेः ॥
इति । कृतयुगे आदिदेवः श्रीऋषभस्तत्सूनुर्भरतस्तन्नाम्ना भरतखण्डमिदं प्रतीतम् ।
१४९. नाभेरथो स वृषभो मरुदेविसूनुर्यो वै चचार समदृग् मुनियो गचर्याम् ।
तस्यार्हतत्वमृषयः पदमामनन्ति स्वच्छः प्रशान्तकरणः समदृक् सुधीश्च ॥
१४२. अष्टमो मरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन्वर्त्म धीराणां सर्वाश्रमनमस्कृतः ॥
( अत्र P प्रतौ निम्नगता अधिकाः श्लोकाः प्राप्यन्ते -- )
[९१] { प्रियव्रतो नाम सुतो मनोः स्वायम्भुवश्च यः । तस्याग्नीन्द्रस्ततो नाभिः ऋषभस्तत्सुतस्तथा ॥
कोशाभावात् कर्मस्थायं विलम्बितमवगम्य, तेन व्यवहारिणा सुतस्य पार्श्वात्कस्यापि धनाधिपस्य वध्वास्ताङङ्कमपहार्य तद्दण्डपदे द्रव्यलक्षत्रयं दत्तम्, तेन कर्मस्थायः सञ्जातः, इति वार्त्तां शृण्वतो मालवकमण्डले वर्षाकालं तस्थुषो राज्ञो वचनगोचरातीतः प्रमोदः सञ्जातः । अथ प्रावृषेण्यघनाघनप्रगल्भवृष्ट्या क्षोणीमेकार्णवां विदधाने वर्द्धापनिकाहेतोः प्रधानपुरुषैः प्रहितः कोऽपि मरुदेशवासी नृपतिपुरतः सविस्तरं वर्षास्वरूपं विज्ञपयत् । तदात्वागतेन केनापि गूर्जरधूर्त्तेण नरेण 'सहस्रलिङ्गसरो भृतमिति स्वामिन् ! वर्द्धाप्यसे' इति तद्वाक्यानन्तरमेव सिक्ककपतितमार्जारस्येव मरुवृद्धस्य पश्यतः सर्वाङ्गलग्नमाभरणं नृपतिर्गूर्जराय ददौ ।
१०१) अथ वर्षानन्तरमेव ततः प्रत्यावृत्तः क्षितिपतिः श्रीनगरमहास्थाने दत्तावासो मञ्चरचनायां कृतसर्वावसरस्तत्र नगरप्रासादेषु ध्वजव्रजमालोक्य 'क एते प्रासादाः ?' इति ब्राह्मणान् पप्रच्छ । तैर्जिनब्रह्मादीनां प्रासादस्वरूपे निवेदिते सामर्षो राजा 'मया गूर्जरमण्डले जैनप्रासादानां पताकासु निषिद्धासु किं भवतामिह नगरे पताकावज्जिनायतनम् ?' इत्यादिशंस्तैर्विज्ञपयांचक्रे -- 'अवधार्यताम्, श्रीमन्महादेवेन कृतयुगप्रारम्भे महास्थानमिदं स्थापयता श्रीऋषभनाथश्रीब्रह्मप्रासादौ स्वयं स्थापितौ प्रदत्तध्वजौ च । तदनयोः प्रासादयोः सुकृतिभिरुद्ध्रियमाणयोश्चत्वारो
१४०. पञ्चाशदादौ किल मूलभूमेर्दशोर्ध्वभूमेरपि विस्तरोऽस्य ।
उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वराद्रेः ॥
इति । कृतयुगे आदिदेवः श्रीऋषभस्तत्सूनुर्भरतस्तन्नाम्ना भरतखण्डमिदं प्रतीतम् ।
१४९. नाभेरथो स वृषभो मरुदेविसूनुर्यो वै चचार समदृग् मुनियो