This page has been fully proofread twice.

पुरा श्रीजिनेन श्रीमन्महावीरेणेन्द्रस्य पुरतः शैशवे यद्व्याख्यातं तज्जैनेन्द्रव्याकरणमधीयामहे वयमि'ति वाक्यानन्तरम्, 'इमां पुराणवार्त्तामपहायास्माकमेव सन्निहितं कमपि व्याकरणकर्त्तारं ब्रूत' इति तत्पिशुनवाक्यादनु नृपं प्राहुः -- 'यदि श्रीसिद्धराजः सहायीभवति तदा कतिपयैरेव दिनैः पञ्चाङ्गमपि नूतनं व्याकरणं रचयामः ।' अथ नृपेण 'प्रतिपन्नमिदं निर्वहणीयमि'त्यभिधाय तद्विसृष्टाः सूरयः स्वं स्थानं ययुः । नृपेण तु 'यशोवर्मराज्ञः करे निःप्रतीकारां क्षुरीं समर्प्य तदग्रासने वयं गजाधिरूढाः पुरमध्ये प्रवेशं करिष्यामः ।' इति राज्ञः प्रतिश्रवमाकर्ण्य मुञ्जालनाम्ना मन्त्रिणा प्रधानवृत्तिं मुञ्चता किमिति राज्ञा निर्बन्धपृष्टेन --
 
१३७. मा स्म सन्धिं विजानन्तु मा स्म जानन्तु विग्रहम् । आख्यातं यदि शृण्वन्ति भूपास्तेनैव पण्डिताः ॥
 
इति नीतिशास्त्रोपदेशात्स्वबुद्ध्यैव स्वामिना प्रतिज्ञातोऽयमर्थः । सर्वथाऽऽयतौ न हित' इत्युक्तम् । नृपस्तुं प्रतिज्ञाभङ्गभीरुः 'वरमसून् परिहरामि न तु विश्वविदितं प्रतिश्रुतमि'ति नृपेणोक्ते मन्त्री दारुमयीं क्षुरिकां विधाय पाण्डुवर्णसर्जरसेन तां पिहितां पृष्ठासनस्थस्य यशोवर्मणः करे समर्प्य तदग्रासनस्थो नृपतिः श्री सिद्धराजः परमोत्सवेन श्रीमदणहिल्लपुरं प्रविवेश । प्रावेशिकमङ्गलव्याकुलतानन्तरं नृपेण स्मारिते व्याकरणकरणवृत्तान्ते, बहुभ्यो देशेभ्यस्तत्तद्वेदिभिः पण्डितैः समं सर्वाणि व्याकरणानि पत्तने समानीय श्रीहेमचन्द्राचार्यैः श्रीसिद्धहेमाभिधानं अभिनवं
पञ्चाङ्गमपि व्याकरणं सपादलक्षग्रन्थप्रमाणं संवत्सरेण रचयांचक्रे । राजवाह्यकुम्भिकुम्भे तत्पु-