2023-02-21 15:33:23 by ambuda-bot
This page has not been fully proofread.
६०
प्रबन्धचिन्तामणिः ।
[ तृतीयः
ईपुरा श्रीजिनेन श्रीमन्महावीरेणेन्द्रस्य पुरतः शैशवे यव्याख्यातं तज्जैनेन्द्रव्याकरणमधीयामहे
घयमिति वाक्यानन्तरम्, 'इमां पुराणवार्त्तामपहायास्माकमेव सन्निहितं' कमपि व्याकरण-
कर्त्तारं ब्रूत' इति तत्पिशुनवाक्यादनु नृपं प्राहुः' - 'यदि श्रीसिद्धराजः सहायीभवति तदा कति-
पयैरेव दिनैः पञ्चाङ्गमपि नूतनं व्याकरणं रचयामः ।' अथ नृपेण 'प्रतिपन्नमिदं निर्वहणीयमित्य-
5 भिधाय तद्विसृष्टाः सूरयः स्वं स्थानं ययुः । नृपेण' तु 'यशोवर्मराज्ञः करे निःप्रतीकारां क्षुरीं
समर्प्य तदग्रासने वयं गजाधिरूढाः पुरमध्ये प्रवेशं करिष्यामः । इति राज्ञः प्रतिश्रमाकर्ण्य
मुञ्जालनाम्ना" मन्त्रिणा प्रधानवृत्तिं मुञ्चता किमिति राज्ञा निर्बन्धपृष्टेन-
१३७. मा स्म सन्धि विजानन्तु मा स जानन्तु विग्रहम् । आख्यातं " यदि शृण्वन्ति भूपास्तेनैव पण्डिताः ॥
13
इति नीतिशास्त्रोपदेशात्त्रबुद्ध्यैव खामिना प्रतिज्ञातोऽयमर्थः । सर्वथाऽऽयतौ न हित' इत्युक्तम् ।
10 नृपस्तुं प्रतिज्ञा भङ्गभीरुः " 'वरमसून परिहरामि न तु विश्वविदितं प्रतिश्रुर्तमिति नृपेणोक्ते" मन्त्री
दारुमयीं क्षुरिकां विधायें पाण्डुवर्णसर्जरसेन ता" पिहितां पृष्ठासनस्थस्य यशोवर्मणः करे समर्प्य
तदग्रासनस्थो नृपतिः श्री सिद्धराजः परमोत्सवेन श्रीमदणहिल्लपुरं" प्रविवेश । प्रावेशिकमङ्गल-
व्याकुलतानन्तरं नृपेण स्मारिते व्याकरणकरणवृत्तान्ते, बहुभ्यो देशेभ्यस्तत्तद्वेदिभिः पण्डितैः
समं सर्वाणि व्याकरणानि पैंत्तने समानीय श्रीहेमचन्द्राचार्यैः श्रीसिद्धहेमाभिधानं अॅभिनवं
15 पञ्चाङ्गमपि व्याकरणं सपादलक्षग्रन्थंप्रमाणं संवत्सरेण रचयांचत्रे । राजवाह्यकुम्भिकुम्भे तत्पु-
$ अत्र Dd आदर्श निम्नलिखितः समधिकः पाठ उपलभ्यते – 'कैश्चिदसहिष्णुभिर्न मेने । हेमचन्द्रनामा शिष्यः कदाचिन्नवलुश्चित-
शिरा जलविहरणाय वजन् गजभयारसौधभित्तिस्थितो गवाक्षस्थेनालिगपुरोहितेन सारिणा पराभूतः । गुरवो विज्ञप्ताः । तैरुक्तो 'मिथ्या दुःकृतं
देहि' । तद्दुःखेन निःसृतोऽन्यगच्छीयदेवचन्द्रपद्माकराभ्यां सह श्रीकाश्मीरं प्रति । मार्गे नाडोल ग्रामे सप्तमोपवासे श्रीसरस्वती प्रसन्ना
जाता । निजमूर्तिदर्शिता । मित्रयोर्निवेदिते श्लोकसतशत्या ग्रामो वर्णितः । मित्रद्वयस्य कार्यसिद्धि हेतोः स्तम्भतीर्थे प्रविशतः केनापि देशा-
न्तरिणाकार्य विद्या समर्पिता । इत्युक्तं च मम मरणसमये मम शबोपरि त्रिभिर्नाभिमण्डले मन्त्रः स्मरणीयः । शबो वरं दास्यति । एवं
कृते इमशाने मध्यरात्रौ शबेनोत्थाय वरो दत्तः । श्रीहेमचन्द्रेण राजप्रबोधो याचितः । देवचन्द्रेण हस्तसिद्धेराकृष्टिविद्या । पद्माकरेण
पाण्डित्यं । अत्रान्तरे कृतकृत्यो हेमचन्द्रो वलितः । कालभैरवीयमध्ये चण्डिकाप्रासादे विश्रान्तस्तत्र लघुभैरवानन्दः शिष्यपञ्चशतीवृतः समेत्य,
'रे रे चण्डे प्रचण्डे मह्यं मोदकान देही' ति भणित्वा सुवर्णमयकर्परमप्रे मुक्तं । देण्या मोदकैर्ऋतं । तेन सर्वेषां तेऽर्पिताः । हेमचन्द्र-
स्यापि 'हे शिष्य त्वमपि गृहाणे'त्युक्ते तेन तस्यापि करौ स्तम्भयित्वोक्तं 'यद्यस्ति सवं तदा त्वं भक्षयेथाः' एवमुक्ते चरणयोः पतितः ।
ततः पत्तने आयातं श्रीजयसिंहदेवः सन्मुखमेत्य समानीय हेमचन्द्रं गजाधिरूढं प्रवेश्य च पुरोहिततिरस्कृतं सूरिं, राज्ञा गुरव उपरोध्य
हेमचन्द्रस्य पदस्थापना कारिता । श्रीहेमचन्द्रसूरयोऽष्टम्यां चतुर्दश्यां च श्रीजयदेवभवनं प्रयान्ति । पौषधागारे श्रीस्थूलिभद्रचरितं वाच -
यन्तः पुरोहितेन राज्ञोऽये उपहसिताः- 'महाराज ! कोयमसरप्रलापः ? सर्वरसभोजने पूर्वपरिचित वेश्यागृहे कामनिग्रहः । परं किं क्रियते
भवद्द्वल्लभाः ।' राज्ञोक्तं–'आचार्या अत्र समेष्यन्ति तदा वक्तव्यं परोक्षे न ।' सूरिष्वागतेषु राज्ञोक्तं- 'किं किं वाचयन्तो वर्तध्वे यूयं ?"
सूरिभिः समग्रमपि संक्षेपतः स्थूलिभद्रश्चरितं कथितं । आलिगेनोक्तं- 'महाराज !
विश्वामित्र पराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृद्वैव मोहं गताः ।
आहारं सघृतं पयोदषियुतं भुञ्जन्ति ये मानवास्तेषा मिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥
गुरुभिरुक्तं- 'सिंहो बलीयो द्विरद' इत्यादि । आलिगेनोक्तं- 'अस्माकमेव शास्त्राणि पठित्वास्माकमेव पतयः संजाताः ।' गुरुभिरुक्तं-
'जैनेन्द्रग्याकरणं किं भवदीयं यरपुरा श्रीजिनेन...'
6AD
11 A अख्यातं ।
1 AD • जैनव्या० । 2 AD सद्दाक्या० 3 ID सन्निहितं नृपं । 4 D ते प्राहुः । 5P पदं प्रापुः ।
3A प्रस्ताव० । 10 'नाना' नास्ति AD
14-15 एतत्पद्वयस्थाने AD 'ततो' इत्येव । 16 D प्रतिश्रव० ।
19 P सर्वर०; B गूर्जर० । 20 AD नास्ति । 21 BP• पत्तनं ।
24 AD तद्वेदि० । 25 AD सह । 26 AD नास्ति । 27 AD
ततो यशो० । 7 BP नास्ति । 8 BP नास्ति ।
12 BP ● देशेन स्वामिना । 13 BP नास्तीदं पदं ।
17 BP नृपवचनात् । 18 B निर्माय; AD नास्ति ।
22 'व्याकुलता' नास्ति AD। 23 D 'करण' नास्ति ।
हेमाचा० । 28 AD नास्ति । 29 B निर्बन्ध; P नास्ति ।