This page has been fully proofread twice.

ताऽस्ति । तस्याः सुकृतं याचनीयं त्वया' इत्थमादिश्य तिरोहिते तस्मिन् राजपुरुषैर्विलोक्य
समानीता । तस्मिन्पुण्ये याचितेऽप्यददाना कथमपि 'यात्रायां किं व्ययीकृतमि'ति पृष्टा सती सा प्राह -- 'अहं भिक्षावृत्त्या योजनशतं देशान्तरमतिक्रम्य ह्यस्तने दिवसे कृततीर्थोपवासा पारणकदिने कस्यापि सुकृतिनः अकृतपुण्या पिण्याकमासाद्य, तत्खण्डेन श्रीसोमेश्वरमभ्यर्च्य, तदंशमतिथये दत्त्वा स्वयं पारणकमकार्षम् । भवती पुण्यवती, यस्याः पितृभ्रातरौ पतिसुतौ च राजानः, या त्वं बाहुलोडकरं द्वासप्ततिलक्षान् मोचयित्वा सपादकोटिमूल्यया पूजया अगण्यपुण्यमर्ज्जयन्ती मदीयपुण्ये कृशेऽपि कथं लुब्धासि ? । यदि न कुप्यसि तदा किञ्चिद्वच्मि । तत्त्वतस्तव पुण्यान्मदीयं पुण्यं महीतले महीयः । यतः --
 
१३२. सम्पत्तौ नियमः शक्तौ सहनं यौवने व्रतम् । दारिद्र्ये दानमत्यल्पमपि लाभाय भूयसे ॥
 
इति युक्तियुक्तेन वाक्येन तैस्या गर्वं निराचकार ।
 
९५) सिद्धराजस्तु समुद्रोपकण्ठवर्ती एकेन चारणेन --
 
१३३. को जाणइ तुह नाह चीतु तुहालउं चक्कवइ । लहु लंकह लेवाह मग्गु निहालइ करणउत्तु ॥
 
इति स्तूयमाने, द्वितीयेन चारणेनोक्तम् --
 
१३४. धाई धौअइ पाय जेसल जलनिहि ताहिला । तई जीती सवि राय एकु विभिषणु मिल्हि महु ॥
 
९६) एवं तत्र यात्रायां व्यापृते राज्ञि, छलान्वेषिणा यशोवर्मणा मालवकभूपेन गूर्जरदेशे उपद्रूयमाणे सान्तूसचिवेन 'त्वं कथं निवर्त्तसे?' इति प्रोक्तः, स राजा -- 'यदि त्वं स्वस्वामिनः सोमेश्वरदेवयात्रायाः पुण्यं ददासी'त्युदीरितस्तच्चरणौ प्रक्षालय तत्करतले तत्पुण्यदाननिदानं जलचुलुकं निक्षिप्य तं राजानं निवर्त्तयामास । श्रीसिद्धराजः पत्तनमुपेत्य सान्तूमालविकनृपयोस्तं वृत्तान्तमवबुध्य क्रुद्धं नृपं मन्त्री एवमवादीत् -- 'स्वामिन् ! यदि मया दत्तं तव सुकृतं याति, तदा तस्य सुकृतमन्येषामपि पुण्यवतां सुकृतं मया भवते प्रदत्तमेव । अथापरं येन केनाप्युपायेन परचक्रं स्वदेशे प्रविशद्रक्षणीयमेवे'ति एवं वदता तेन नृपतिरनुनीतः । ततस्तेनैवामर्षेण मालवमण्डलं प्रति प्रतिष्ठासुः सचिवान् शिल्पिनश्च सहस्रलिङ्गधर्मस्थानकर्मस्थाये नियोज्य, त्वरितगत्या तस्मिन्निष्पद्यमाने नृपतिः प्रयाणकमकरोत् । तत्र जयकारपूर्वकं द्वादशवार्षिके विग्रहे सञ्जायमाने सति कथंचित् धारादुर्गभङ्गं कर्तुमप्रभूष्णुः 'अद्य मया धाराभङ्गानन्तरं भोक्तव्यमि'ति