This page has been fully proofread twice.

९३) अथान्यस्मिन्नवसरे सान्तूनामा महामात्यः करेणुस्कन्धाधिरूढो राजपाटिकायां व्रजन्
व्यावृत्तः स्वयं कारितसान्तूसहिकायां देवनमश्चिकीर्षया तत्र प्रविशन् वारवेश्यास्कन्धन्यस्तहस्तं कमपि चैत्यवासिनं सितवसनं ददर्श । ततो गजादवरुह्य कृतोत्तरासङ्गः पञ्चाङ्गप्रणामेन तं गौतममिव नमश्चक्रे । तत्र क्षणं स्थित्वा भूयस्तं प्रणम्य प्रतस्थे । ततः स लज्जयाऽधोवदनः पातालं प्रविविक्षुरिव तत्कालं सर्वमेव परिहृत्य मलधारिश्रीहेमसूरीणां समीपे उपसम्पदमादाय
संवेगरसपरिपूर्णः श्रीशत्रुञ्जये गत्वा द्वादशवर्षाणि तपस्तेपे । कदाचित्स मन्त्री श्रीशत्रुञ्जये देवपादानां नमस्करणायोपगतोऽदृष्टपूर्वमिव तं मुनिं प्रणम्य तच्चरित्रविचित्रितमनास्तद्गुरुकुलादि पप्रच्छ । 'तत्त्वतो भवानेव गुरुरि'ति तेनोक्ते कर्णौ पाणिभ्यां पिधाय मैवं मादिशेत्यज्ञातवृत्यैवं विज्ञपयंस्तेन प्रोचे --
 
१३१. जो जेण मुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ ॥
 
इति तस्मै मूलवृत्तान्तं निवेद्य तस्य दृढधर्मतां निर्ममे ।
 
॥ इति मन्त्रिसान्तू-दृढधर्मताप्रबन्धः ॥
 
९४) अथानन्तरं श्रीमयणल्लदेव्या जातिस्मरणात्पूर्वभववृत्तान्ते श्री सिद्धराजस्य निवेदिते
श्रीमयणल्लदेवी श्रीसोमनाथयोग्यां सपादकोटिमूल्यां हेममयीं पूजां सहादाय यात्रायां प्रस्थिता
बाहुलोडनगरं सम्प्राप्ता । पञ्चकुलेन कदर्थ्यमानेषु कार्पटिकेषु राजदेयविभागस्याप्रात्या सबाष्पं
पश्चान्निवर्त्यमानेषु मयणल्लदेवी हृदयादर्शसंक्रान्ततद्बाधा स्वयमेव पश्चाद्व्याघुटन्ती अन्तराऽन्तरीभूतेन श्रीसिद्धराजेन विज्ञप्ता -- 'स्वामिनि ! अलममुना सम्भ्रमेण । कुतो हेतोः पश्चान्निवर्त्यते ?' इति राज्ञोक्ते 'यदैव सर्वथाऽयं करमोक्षो भवति तदैवाहं श्रीसोमेश्वरं प्रणमामि नान्यथेति । किं चातःपरमशननीरयोर्नियमश्च' । इति श्रुत्वा राजा पञ्चकुलमाकार्य तत्पट्टस्याङ्के द्वासप्ततिलक्षानुत्पद्यमानान् विमृश्य तं पट्टकं विदार्य मातुः श्रेयसे तं करं मुक्त्वा करे जलचुलुकं मुञ्चति स्म । ततः श्रीसोमेश्वरं गत्वा तया सुवर्णपूजया देवमभ्यर्च्य तुलापुरुषगजदानादीनि महादानानि दत्त्वा -- 'मत्सदृशी कापि नाभून्न भविते'ति दर्पाध्माता निशि निर्भरं प्रसुप्ता । तपस्विवेषधारिणा तेनैव देवेन जगदे -- 'इहैव मदीयदेवकुलमध्ये काचित्कार्पटिकनितम्बिनी यात्रायै आया-