2023-11-10 05:42:29 by Bharadwajraki
This page has been fully proofread twice.
मानायास्तस्या आधानं समजनि । तदा च तथा सङ्केतज्ञापनाय नृपकरान्नामाङ्कितमङ्गुलीयकं
निजाङ्गुल्यां न्यधायि । अथ प्रातस्तद्दुर्विलसितात् तद्वृत्तान्तमनवबुध्यमानाय प्राणपरित्यागोद्यताय नृपतये स्मार्तैस्तप्तताम्रमयपुत्तलिकालिङ्गनमिति निवेदिते प्रायश्चित्ताय तथैव चिकीर्षवे स मन्त्री यथावद् अवदत् ।
( अत्र P प्रतौ निम्नलिखिताः श्लोका विद्यन्ते -- )
[८५] गुरुणा विक्रमेणायं बभूव पितृसन्निभः । आकारेण तु रम्येण भूपोऽभूदात्मभूसदृक् ॥
[८६] विना कर्णेन तेन स्त्रीनेत्राणां न रतिः क्वचित् । इतीव जज्ञिरे तेषामनुकर्णं प्रवृत्तयः ॥
[८७] तत्कर्णार्जुनयोर्वैरं पूर्वं कर्णः स्मरन्निव । अर्जुनं गमयामास यशो देशान्तराणि यः ॥
[८८] अभिरामगुणग्रामो रामो दशरथादिव । सूनुः श्रीजयसिंहोऽस्माज्जायते स्म जगज्जयी ॥
८५) सुलग्ने तस्य जातस्य सूनोर्नृपतिर्जयसिंह इति नाम निर्ममे । स बालस्त्रिवार्षिकः सवयोभिः कुमारै रममाणः सिंहासनमलंचक्रे । तद् व्यवहारविरुद्धं विमृशता नृपेण पृष्टैः
नैमित्तिकैस्तस्मिन्नेवाभ्युदयिके लग्ने निवेदिते राजा तैदैव तस्य सूनो राज्याभिषेकं चकार ।
८६) सं० १९५० वर्षे पौषवद ३ शनौ श्रवणनक्षत्रे वृषलग्ने श्रीसिद्धराजस्य पट्टाभिषेकः ।
८७) स्वयं तु, आशापल्लीनिवासिनमाशाभिधानं भिल्लमभिषेणयन् भैरवदेव्याः शकुने जाते तत्र कोछरबाभिधानदेव्याः प्रासादं कारयित्वा, खड्गलक्षाधिपं भिल्लं विजित्य तत्र जयन्तीं देवीं प्रासादे स्थापयित्वा कर्णेश्वरदेवतायतनं तथा कर्णसागरतडागालंकृतां कर्णावतीपुरं निवेश्य स्वयं तत्र राज्यं चकार । श्रीपत्तने तेन राज्ञा श्रीकर्णमेरुः प्रासादः कारितः ।
सं० ११२० चैत्रसुदि ७ प्रारभ्य सं० ११५० पौषवदि २ यावत् वर्ष २९, मास ८, दिन २१ अनेन राज्ञा राज्यं कृतम् ।
८८) अथ दिवं गते श्रीकर्णे श्रीमदुदयमतिदेव्या भ्राता मदनपालोऽसमञ्जसवृत्त्या वर्तते । तेन
लीलाभिधानो राजवैद्यो दैवतवरलब्धप्रसादः सकलनागरिकलोकैस्तत्कलाहृतहृदयैः काञ्चनदानपूजयाऽभ्यर्च्यमानः कदाचित्तेन निजसौधे समानीय कृतके शरीरामये नाडीदर्शनात्पथ्यसज्जतां निवेदयन्निदमूचे ( तेन मदनपालेन बभाषे ) 'तदेव नास्तीति । ततस्त्वं मया रोगप्रतीकाराय नाकारितः, किं तु पथ्यदानेन बुभुक्षाप्रतीकारार्थमेव । ततो द्वात्रिंशत्सहस्राण्युपनये'त्युक्त्वा तेन बन्दीकृतस्तत्तथेति निर्मायेत्यभिग्रहमग्रहीत् -- 'यदतः परं प्रतीकारनिमित्तं नृपतेः सौधमपहाय नान्यत्र गन्तव्यमि'ति । ततः परमातुराणां प्रश्रवणावलोकनान्निदानचिकित्सितं कुर्वाणः केनापि मायाविना कृतकामयचिकित्सितकौशलं वुभुत्सुना वृषभप्रश्रवणे दर्शिते सम्यक् तदवगम्य शिरोधूननपूर्वकं 'वृषभः स बहुखादनेन मोडित इत्यस्मै सत्वरमेव तैलनाली दीय-