This page has been fully proofread twice.

[८. सिद्धराजादिप्रबन्धः । ]
 
७९) अथ कदाचिद्गूर्जरदेशे अवग्रहनिगृहीते वर्षणे विशोपकदण्डाहिदेशग्रामकुटुम्बिकेषु राजदेयविभागनिर्वाहाक्षमेषु तन्नियुक्तैर्व्यापारिभिः सकलोऽपि सजातवित्तो देशलोकः श्रीपत्तने समानीय भीमभूपाय न्यवेद्यत । ततः कदाचिदहर्मुखे श्रीमूलराजकुमारस्तत्र चङ्क्रममाणो
नृपपत्तिभिः सस्यनिदानीभूतदानीसम्बन्धे व्याकुलीक्रियमाणं सकललोकमालोक्य पारिपार्श्विकेभ्योऽधिगतवृत्तान्तः कृपया किञ्चिदश्रुमिश्रलोचनो वाहवाहाल्यां तदतुलया कलया नृपं
परितोष्य 'वरं वृणीष्वे'ति नृपादेशमासाद्य 'भाण्डागार एव वरोऽयमस्तु' इति विज्ञापयामास । राज्ञा -- 'किमिति अधुना न याचसे ?' इत्युक्तः 'प्राप्तिप्रमाणाभावाद्' -- इत्युदीरयन् भृशं निर्बन्धपराद् धराधिपात्तेषां कुटुम्बिनां दानीमोचनवरं ययाचे । ततो हर्षबाष्पाविललोचनेन राज्ञा तत्तथेति प्रतिपद्य भूयोऽप्यभ्यर्थयस्वेत्यभिहितः ।
 
१२८. क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।
दुःपूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो जीमूतस्तु निदाघसम्भृतजगत्सन्तापविच्छित्तये ॥
 
इति काव्यर्थबलेन निगृहीतप्रभूतलोभस्ततो भूयः किमप्यप्रार्थयमानो मानोन्नततया स्वसौधमध्यमध्यास्य बन्धनविमोचितैस्तैर्लोकैः स दैवतवदुपास्यमानः स्वस्थानस्थितैश्च स्तूयमानस्तृतीयेऽहनि तदीयसन्तोषदृशा श्रीमूलराजः स्वर्लोकं जगाम । तच्छोकाम्बुधौ सराजलोको राजा, स च पूर्वमोचितलोकश्च निमग्नश्चिरेण चतुरैर्विविधबोधबलादपकृष्टशोकशङ्कुश्चक्रे ।
 
अथ द्वितीये वर्षे वर्षाबलाद् हर्षिभिः कर्षुकलोकैर्निष्पन्नेषु समस्तसस्येषु व्यतीततद्वर्षयो राजदेविभागे प्रदिश्यमाने राज्ञि चानाददाने सति तैरुत्तरसभा मेलिता । तत्र सभ्यानां लक्षणमेवम् --
 
१२९. न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यत्र न चास्ति सत्यं सत्यं न तद्यत्कृतकानुविद्धम् ॥
 
इति निर्णयात् सभ्यैर्गतवर्षतद्वर्षयोर्दानी राज्ञीं ग्राहिता । ततस्तेन द्रव्येण कोशद्रव्येण च श्रीमूलराज कुमारश्रेयसे नव्यस्त्रिपुरुषप्रासादः श्रीभीमेन कारितः ।
 
८०) अनेन श्रीपत्तने श्रीभीमेश्वरदेव-भट्टारिकाभीरुआणीप्रासादौ कारितौ । सं० १०७७