This page has been fully proofread once and needs a second look.

भ्याहंपूर्विकया कार्यमाणयोः पञ्चाशद्धस्तप्रमाणयोः प्रासादयोः यस्मिन्प्रासादे प्रथमं कलशध्वजाधिरोपो भवति तस्मिन्नुत्सवेऽपरेण नरेन्द्रेण त्यक्तच्छत्रचामरेण करेणुमधिरुह्य समागन्तव्यम् । इत्थं भोजस्य यथारुच्याऽङ्गीकारे कर्णगोचरंगते श्रीकर्णस्तेषु सामर्षोऽपि तेनापि प्रकारेण भोजमधिश्चिकीर्षुरेकस्मिन्नेव लग्ने पृथक् पृथक् प्रारब्धयोरुभययोः प्रासादयोः सर्वाभिसारेण निजप्रासादं निर्मापयन् सूत्रभृतं पप्रच्छ -- 'एकस्मिन्नहन्युदयास्तयोरन्तरे कियान् कर्मस्थायो भवतीति निवेद्यताम्' । अथ तैश्चतुर्दश्यनध्याये तत्र सप्तहस्तप्रमाणा एकादश प्रासादा दिनोदये प्रारभ्य दिनान्ते कलशपर्यन्ताः कारयित्वा नृपाय दर्शिताः । तया समग्रसामग्र्या नृपः प्रमुदितचित्तो भोजप्रासादकपालबन्धे जायमाने निजप्रासादेऽनलसः कलशमधिरोग्य निर्णीते ध्वजाधिरोपलग्ने तया प्रतिज्ञया श्रीभोजं दूतमुखेन निमन्त्रयामास । ततः स्वप्रतिज्ञाभङ्गभीरुर्मालवमण्डलप्रभुस्तथा प्रयातुमप्रभूष्णुस्तूष्णीमासीत् । अथ प्रासादध्वजाधिरोपानन्तरम्, अवतीर्णपुराणकर्ण इव श्रीकर्णस्तावद्भिरेव नृपैः समं प्रस्थितः श्रीभोजमभ्यषेणयत् । तस्मिन्नवसरे श्रीभोजराज्यार्द्धं प्रतिश्रुत्य मालवकमण्डलपार्ष्णिघाताय निस्सीमतदीयसीमनगरे श्रीकर्णः श्रीभीममजूहवत् । अथ ताभ्यां
नरेन्द्राभ्यां मन्त्रेणाक्रान्तो व्याल इव भोजभूपालो विगलितदर्पविषो बभूव । तदा चाकस्मिके सञ्जाते भोजवपुरपाटवेऽपन्हूयमाने सर्वेष्वपि घाटमार्गेषु निजनियुक्तमानुषैः सर्वथा निषिद्ध्यमानेऽपरपुरुषप्रवेशे श्री भीमः कर्णाभ्यर्णवर्त्तिनं निजसान्धिविग्रहिकं दामरं भोजवृत्तान्तज्ञानाय स्वपुरुषेण पप्रच्छ । तेनापि स पुरुषो गाथामध्याप्य प्रहितः श्री भीमसभामुपागतः --
 
१२३. अम्बयफलं सुपक्कं विण्टं सिढिलं समुब्भडो पवणो । साहा मल्हणसीला न याणिमो कञ्जपरिणामो ॥
 
अनया गाथया श्रीभीमे तथास्थिते श्रीभोजः सन्निहितपरलोकपथप्रयाणः कृततदुचितधर्मकृत्यः, राज्यस्यानुशास्तिं समस्तराजलोकस्य वितीर्य 'मम पञ्चत्वानन्तरं मत्करौ विमानाद्बहिर्विधेयावि'त्यादिश्य दिवं गतः ।
 
[८४] { कसु करु रे पुत्त कलत्त धी कसु करु रे करसणवाडी । एकला आइवो एकला जाइवो हाथपग बेहु झाडी ॥
 
इति भोजवाक्यं वेश्यया कथितं लोकानां प्रति । }
 
20
 
७८) [ अथ तस्मिन् श्रीभोजे दिवमुपेयुषि ] तद्वृत्तान्तविदा कर्णेन तद्दुर्गमदुर्गभङ्गादनु समग्रायां श्रीभोजलक्ष्म्यामुपात्तायां श्रीभीमेन दामर आदिष्टः -- 'यच्छ्रीकर्णात्त्वया मत्परिकल्पितं राज्यार्द्धं निजं शिरो वोपनेतव्यम्' । इति राजादेशं विधित्सुर्द्वात्रिंशता पत्तिभिः समं गुरूदरे प्रविश्य मध्याह्नकाले प्रसुप्तं श्रीकर्णं बान्द्ये जग्राह । अथ तेन राज्ञा एकस्मिन् विभागे नीलकण्ठचिन्तामणिगणाधिपप्रमुखदेवतावसरे निर्णीतेऽपरस्मिन्नुत्तरार्द्धे समस्तराज्यवस्तूनि 'स्वेच्छयैकमर्द्धमाद-