This page has been fully proofread once and needs a second look.

भोज - भीमप्रेबन्धः ।
 
1
 
प्रकाशः ]
 
भ्याहंपूर्विकया कार्यमाणयोः पञ्चाशद्धस्तप्रमाणयोः प्रासादयोः यस्मिन्प्रासादे प्रथमं कलशध्व-
जाघिधिरोपो भवति तस्मिन्नुत्सवेऽपरेण नरेन्द्रेण त्यक्तच्छत्रचामरेण करेणुमधिरुह्य समागन्तव्यम् ।
इत्थं भोजस्य यथारुच्यांयाऽङ्गीकारे कर्णगोचरंगते श्रीकर्णस्तेषु सामर्षोऽपि तेनापि प्रकारेण भोजम-
धिश्चिकीर्षुरेकस्मिन्नेव लग्ने पृथक् पृथक् प्रारब्धयोरुभययोः प्रासादयोः सर्वाभिसारेण निजप्रासादं
निर्मापयन्' सूत्रभृतं पप्रच्छ -- 'एकस्मिन्नहन्युदयास्तयोरन्तरे कियान् कर्मस्थायो' भवतीति निवे- 5
द्यताम्' । अथ तैश्चतुर्दश्यनध्याये तत्र सप्तहस्तप्रमाणा एकादश प्रासादा दिनोदये प्रारभ्य दिनान्ते
कलशपर्यन्तीःताः कारयित्वा नृपाय दर्शिताः । तया समग्रसामग्र्या नृपः प्रमुदितचित्तो भोजप्रासा-
दकपालबन्धे जायमाने निजप्रासादेऽनलसः कलशमधिरोग्य निर्णीते ध्वजाधिरोपलग्ने तथाया प्रति-
ज्ञया श्रीभोजं दूतमुखेन निमन्त्रयामास । ततः स्वप्रतिज्ञा भङ्ग भीरुर्मालवमण्डलप्रभुस्तथा प्रयातु-
मप्रभूष्णुस्तूष्णीमासीत् । अथ प्रासादध्वजाधिरोपानन्तरम्, अवतीर्णपुराणकर्ण इव श्रीकर्णस्ताव - 10
द्भिरेव नृपैः समं प्रस्थितः श्रीभोजमभ्यषेणयत् । तस्मि॑िमिन्नवसरे श्री भोजराज्यार्द्धं प्रतिश्रुत्य माल-
वकमण्डलपार्ष्णिघाताय निस्सीमतदीयसीमनगरे" श्रीकर्णः श्री भीममजूहवत् । अथ ताभ्यां

नरेन्द्राभ्यां मन्त्रेणाक्रान्तो व्याल इव भोजभूपालो विगलितदर्पविषो बभूव । तदा चाकस्मिके
सञ्जाते भोजवपुरपाटवेऽन्पन्हूयमाने सर्वेष्वपि घाटमार्गेषु निजनियुक्तमानुषैः सर्वथा निषिद्ध्यमा-
नेऽपरपुरुषप्रवेशे श्री भीमः कर्णाभ्यर्णवर्त्तिनं निजसान्धिविग्रहिकं दामरं भोजवृत्तान्तज्ञानाय 15
स्वपुरुषेण पप्रच्छ । तेनापि स " पुरुषो गाथामध्याप्य प्रहितः श्री भीमसभामुपागतः -
 
,
 
20
 
-
 
१२३. अम्बयफलं सुपक्कं बिविण्टं सिढिलं समुब्भडो पवणो । साहा मल्हॅणसीला न याणिमो कञ्जपरिणामो ॥

 
अनया गाथया श्री भीमे तथास्थिते श्रीभोजः सन्निहितपरलोकपथप्रयाणः कृततदुचितधर्म-
कृत्यः, "राज्यस्यानुशास्तिं समस्तराजलोकस्य वितीर्य 'मम पञ्चत्वानन्तरं मत्करौ विमानाद्बहिर्विधे-
यावि' त्यादिश्य दिवं गतः ।
 

 
[८४] [[{ कसु करु रे पुत्त कलत्त धी कसु करु रे करसणवाडी । एकला आइवो एकला जाइवो हाथपग बेहु झाडी ॥

 
इति भोजवाक्यं वेश्यया कथितं लोकानां प्रति । }
 

 
20
 

 
७८) [* अथ तस्मिन् श्रीभोजे दिवमुपेयुषि ] तद्वृत्तान्तविदा कर्णेन तद्दुर्गमदुर्गभङ्गादनु" समग्रा-
20
 
याँ
यां श्रीभोजलक्ष्म्यामुपात्तायां श्री भीमेन दामर आदिष्ट:टः -- 'यच्छ्रीकर्णात्त्वया मत्परिकल्पितं रा-
ज्यार्द्ध"धं निजं शिरो वोपनेतंव्यम्' । इति राजादेशं विधित्सुर्द्वात्रिंशता पत्तिभिः समं गुरूदरे प्र- 25
विश्य मध्याह्नकाले प्रसुप्तं श्री कर्ण "कर्णं बान्द्ये जग्राह । अथ तेन राज्ञा एकस्मिन् विभागे नीलकण्ठचिन्ता-
मणिगणाधिपप्रमुखदेवतावसरे निर्णीतेऽपरस्मिन्नुत्तरार्द्धे समस्तराज्यवस्तूनि 'स्वेच्छयैकमर्द्धमाद-
80
 
1 एतद्विपदस्थाने BPPa 'तयोः' इत्येव । 2 Pa यस्य । 3 Pa यथांगीकारे । 4 'तेपु सामर्थोऽपि' नास्ति AD।
5 D निर्मापयतोस्तत्र कर्णः सूत्र० । 6D कर्मोच्छ्रायो । 7 AD तेन चतु० ।

8AD कलशारोपपर्यन्ताः । 9 AD
●कलाप० । 10 AD संजाय० । 11 D० प्रभुश्च श्रीभोजस्तूष्णी० । 12 BPPa ध्वजारोपणादनन्तरं । 13 BP
अवतीर्ण: पु० । 14 AD •मभिषेणयितुं । 15 AD तदा च । 16 BP ० राज्यार्द्धप्रदानमूरीकृत्य । 17 AD नाम्तीदं पदं ।
18 BPP & तस्मिन् नृपस्य वपुरपाटवे । 19 B निजमुक्तमानसैः । 20 B तं पुरुषं । 21D मिल्हण० । 22 एतद्वाक्यं
नास्ति AD 23 B इत्यादिदेश । 24P दिवमुपेयुषि; Pa • भुपेयिवान्; B नास्तीदं । + कोष्ठकान्तर्गतः पाठो नास्ति BPP &
आदर्शेषु । * B आदर्शे एव केवलमिदं वाक्यमुपलभ्यते । 25 AD दुर्गभङ्ग पूर्व । 26 BP समग्रभोजल० । 27 D नास्ति ।
28 BPP & वोपनेयं । 29 AD सह । 30 A नान्यं; D छान्यं ।