This page has not been fully proofread.

भोज - भीमप्रेबन्धः ।
 
1
 
प्रकाशः ]
 
भ्याहंपूर्विकया कार्यमाणयोः पञ्चाशद्धस्तप्रमाणयोः प्रासादयोः यस्मिन्प्रासादे प्रथमं कलशध्व-
जाघिरोपो भवति तस्मिनुत्सवेऽपरेण नरेन्द्रेण त्यक्तच्छत्रचामरेण करेणुमधिरुप समागन्तव्यम् ।
इत्थं भोजस्य यथारुच्यांङ्गीकारे कर्णगोचरंगते श्रीकर्णस्तेषु सामर्षोऽपि तेनापि प्रकारेण भोजम-
चिकीर्षुरेकस्मिन्नेव लग्ने पृथक् पृथक् प्रारब्धयोरुभययोः प्रासादयोः सर्वाभिसारेण निजप्रासादं
निर्मापयन्' सूत्रभृतं पप्रच्छ- 'एकस्मिन्नहन्युदयास्तयोरन्तरे कियान् कर्मस्थायो' भवतीति निवे- 5
यताम्' । अथ तैश्चतुर्दश्यनध्याये तत्र सतहस्तप्रमाणा एकादश प्रासादा दिनोदये प्रारभ्य दिनान्ते
कलशपर्यन्तीः कारयित्वा नृपाय दर्शिताः । तया समग्रसामग्र्या नृपः प्रमुदितचित्तो भोजप्रासा-
दकपालबन्धे जायमाने निजप्रासादेऽनलसः कलशमधिरोग्य निर्णीते ध्वजाधिरोपलग्ने तथा प्रति-
ज्ञया श्रीभोजं दूतमुखेन निमन्त्रयामास । ततः खप्रतिज्ञा भङ्ग भीरुर्मालवमण्डलप्रभुस्तथा प्रयातु-
मप्रभूष्णुस्तूष्णीमासीत् । अथ प्रासादध्वजाधिरोपानन्तरम्, अवतीर्णपुराणकर्ण इव श्रीकर्णस्ताव - 10
द्भिरेव नृपैः समं प्रस्थितः श्रीभोजमभ्यषेणयत् । तस्मि॑िन्नवसरे श्री भोजराज्या प्रतिश्रुत्य माल-
वकमण्डलपाणिघाताय निस्सीमतदीयसीमनगरे" श्रीकर्णः श्री भीममजूहवत् । अथ ताभ्यां
नरेन्द्राभ्यां मत्रेणाक्रान्तो व्याल इव भोजभूपालो विगलितदर्पविषो बभूव । तदा चाकस्मिके
सञ्जाते भोजवपुरपाटवेऽन्यमाने सर्वेष्वपि घाटमार्गेषु निजनियुक्तमानुषैः सर्वथा निषिद्ध्यमा-
नेऽपरपुरुषप्रवेशे श्री भीमः कर्णाभ्यर्णवर्त्तिनं निजसान्धिविग्रहिकं दामरं भोजवृत्तान्तज्ञानाय 15
खपुरुषेण पप्रच्छ । तेनापि स " पुरुषो गाथामध्याप्य प्रहितः श्री भीमसभामुपागतः -
 
,
 
20
 
१२३. अम्बयफलं सुपकं बिण्टं सिढिलं समुब्भडो पवणो । साहा मल्हॅणसीला न याणिमो कञ्जपरिणामो ॥
अनया गाथया श्री भीमे तथास्थिते श्रीभोजः सन्निहितपरलोकपथप्रयाणः कृततदुचितधर्म-
कृत्यः, "राज्यस्यानुशास्तिं समस्तराजलोकस्य वितीर्य 'मम पञ्चत्वानन्तरं मत्करौ विमानाइहिर्विधे-
यावि' त्यादिश्य दिवं गतः ।
 
[८४] [[कसु करु रे पुत्त कलत्त धी कसु करु रे करसणवाडी । एकला आइवो एकला जाइवो हाथपग बेहु झाडी ॥
इति भोजवाक्यं वेश्यया कथितं लोकानां प्रति । }
 
20
 
७८) [*अथ तस्मिन् श्रीभोजे दिवमुपेयुषि] तद्वृत्तान्तविदा कर्णेन तदुर्गमदुर्गभङ्गादनु" समग्रा-
20
 
याँ श्रीभोजलक्ष्म्यामुपात्तायां श्री भीमेन दामर आदिष्ट:-'यच्छ्रीकर्णात्त्वया मत्परिकल्पितं रा-
ज्यार्द्ध" निजं शिरो वोपनेतंव्यम्' । इति राजादेशं विधित्सुत्रिंशता पत्तिभिः समं गुरूदरे प्र- 25
विश्य मध्याहकाले प्रसुप्तं श्री कर्ण " बान्द्ये जग्राह । अथ तेन राज्ञा एकस्मिन् विभागे नीलकण्ठचिन्ता-
मणिगणाधिपप्रमुखदेवतावसरे निर्णीतेऽपरस्मिनुत्तरार्द्धे समस्तराज्यवस्तूनि 'स्वेच्छयैकमईमाद-
80
 
1 एतद्विपदस्थाने BPPa 'तयोः' इत्येव । 2 Pa यस्य । 3 Pa यथांगीकारे । 4 'तेपु सामर्थोऽपि' नास्ति AD।
5 D निर्मापयतोस्तत्र कर्णः सूत्र० । 6D कर्मोच्छ्रायो । 7 AD तेन चतु० ।

8AD कलशारोपपर्यन्ताः । 9 AD
●कलाप० । 10 AD संजाय० । 11 D० प्रभुश्च श्रीभोजस्तूष्णी० । 12 BPPa ध्वजारोपणादनन्तरं । 13 BP
अवतीर्ण: पु० । 14 AD •मभिषेणयितुं । 15 AD तदा च । 16 BP ० राज्यार्द्धप्रदानमूरीकृत्य । 17 AD नाम्तीदं पदं ।
18 BPP & तस्मिन् नृपस्य वपुरपाटवे । 19 B निजमुक्तमानसैः । 20 B तं पुरुषं । 21D मिल्हण० । 22 एतद्वाक्यं
नास्ति AD 23 B इत्यादिदेश । 24P दिवमुपेयुषि; Pa • भुपेयिवान्; B नास्तीदं । + कोष्ठकान्तर्गतः पाठो नास्ति BPP &
आदर्शेषु । * B आदर्शे एव केवलमिदं वाक्यमुपलभ्यते । 25 AD दुर्गभङ्ग पूर्व । 26 BP समग्रभोजल० । 27 D नास्ति ।
28 BPP & वोपनेयं । 29 AD सह । 30 A नान्यं; D छान्यं ।