This page has been fully proofread twice.

सुलग्नजातत्वात्पराक्रमाक्रान्तदिक्चक्रः षड्त्रिंशदधिकेन राज्ञां शतेन भृङ्गविभ्रमकारिणा कुन्तलकलापेन सेव्यमानविमलक्रमकमलयुगलश्चतसृषु राजविद्यासु परं प्रावीण्यमावहन् विद्यापतिप्रमुखैर्महाकविभिः स्तूयतेऽसौ । यथा -- [ एकदा कर्पूरकविः ]
 
१२२. मुखे हारावाप्तिर्नयनयुगले कङ्कणभरो नितम्बे पत्राली सतिलकमभूत्पाणियुगलम् ।
अरण्ये श्रीकर्ण ! त्वदरियुवतीनां विधिवशादपूर्वोऽयं भूषाविधिरहह जातः किमधुना ॥
 
{ इत्युक्ते चतुरचक्रवर्ती राजाह -- 'यदि विधिवशादेवं भवति तदा वर्ण्यनृपतिः किं दैवाद् यन्न चिन्त्यते तदपि स्याद्' अतोऽचमत्कृतेन राज्ञा किश्चिन्न दत्वा विसर्जितः । गृहं गतो भार्यया पृष्टम् -- 'किं दत्तं राज्ञा ?' स आह -- 'वृत्तस्वरूपम्' । साह -- 'यदि विधिस्थाने तव वशादिति उक्तमभविष्यत् तदा तव सर्वं अदाप्यत्' । ततो नाचिराजकविः कर्णनृपमस्तवीत् । यथा --
 
[८१] गोपीपीनपयोधराहतमुरः सन्त्यज्य लक्ष्मीपतेः शङ्के पङ्कजशङ्कया नयनयोर्विश्राम्यति श्रीस्तव ।
श्रीमत्कर्णनरेन्द्र ! यत्र वलति भ्रूवल्लरीपल्लवस्तत्र त्रुट्यति भीतिभङ्गुरतया दारिद्र्यमुद्रा यतः ॥
 
ततोऽतितुष्टेन नृपेण हस्तशृङ्खलकपूर्वं उचितदानेन प्रसादीकृतेन मार्गे आगच्छन्तं ज्ञात्वा, भार्यायां कर्पूरः प्राह --
 
'यद्राज्ञा अस्मै दत्तं समस्ति, इदानीं तदहं स्वगृहे आनयामी'त्युक्त्वा गतस्तत्सम्मुखम् ।
 
[८२] कन्ये कासि न वेत्सि मामपि कवे कर्पूर किं भारती सत्यं किं विधुरासि वत्स मुषिता केनांब दुर्वेधसा ।
किं नीतं तव मुञ्ज-भोज-नयनद्वन्द्वं कथं वर्तसे दीर्घायुर्भजतेऽन्धयष्टिपदवीं श्रीनाचिराजः कविः ॥
 
अनेन काव्येन तुष्टः सन् कर्णराजात् प्राप्तं स्वर्णदुकूलादि तत्कर्पूरकवयेऽदात् नाचिराजकविः । एतत्कर्णनरेन्द्रेण ज्ञात्वा कर्पूर आकारितः पृष्टं च -- 'हे कवे ! मुञ्ज-भोज इति पदं कस्मादुदाहृतं भोजे विद्यमाने ?' स आह -- 'देव ! राभस्येन हर्ष-मुञ्जनयनद्वन्द्वस्थाने 'मुञ्ज-भोज' इत्यूचानं ।' ततो राज्ञा ज्ञातं एतद् भोजस्यामङ्गलसूचकम् । }
 
[८३] दुदूर्वाः श्यामलयन्ति सन्ततशिखाश्चिं...... प्राङ्गणं शून्ये कल्पतरोस्तले खगमृगाः खेलन्ति निर्भीतयः ।
श्रीमत्कर्णनरेन्द्रमानविभवैः पूर्णेषु सर्वार्थिषु स्कन्दोपान्तनिवेशितालसमुखी निद्राति रे... कामधुक् ॥
 
७७) 'इत्थं महाकविभिः स्तूयमाननानावदातः [ स कर्णनृपः कदाचित् ] श्रीभोजं प्रति प्रधानान्
प्राहिणोत्' -- 'भवदीयनगर्यां भवत्कारिताश्चतुरुत्तरं शतं प्रासादाः, एतावन्त एव गीतप्रबन्धा भवदीयाः, एतावन्ति च बिरुदानि । अतश्चतुरङ्गयुद्धेन द्वन्द्वयुद्धेन वा चतसृषु विद्यासु वादच्छलेन त्यागेन वा मां निर्जित्य पञ्चोत्तरशतबिरुदानां भाजनं भूयाः । नो वाहं त्वां विजित्य सप्तत्रिंशताधिकस्य राज्ञां शतस्य नाथो भवामि' -- इति तत्प्रभावाविर्भावात् ईषत्
रिम्लानमुखाम्भोजः श्रीभोजः सर्वेष्वपि प्रकारेषु जितकाशिनं काशिपुराधीशं विमृशन् स्वं पराजितं मन्यमानस्तानुपरोधपूर्वमभ्यर्थैवमङ्गीकारयामास । यत् -- मयावन्त्यां श्रीकर्णेन वाणारस्यामेकस्मिन् लग्ने गर्तापूरपूर्वमार-