This page has been fully proofread twice.

( इतोऽग्रे Pb प्रतौ निम्नगतः प्रबन्ध उपलभ्यते -- )
 
{ अथान्यदा रात्रौ जागृतो भोजः स्वऋद्धिविस्तारं हृदये चिन्तयन् हृष्टः सन् इदं काव्यपादत्रयमाह --
 
[८०] चेतोहरा युवतयः स्वजनोऽनुकूलः सद्बान्धवाः प्रणयगर्भगिरश्च भृत्याः ।
गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गा.....
 
इति पुनः पुनः कथयति सति नृपे चतुर्थपादार्थमक्षरावलीं विलोकयति सति च तावत्कश्चिद्विद्वान् वेश्याव्यसनी तद्वचनाद्राज्ञीकुण्डलयुग्मकृते तद्वेश्म चौर्याय प्रविष्टः, तत्पादत्रयमशृणोत् । ततस्तेनाचिन्ति यद्भाव्यं तद्भवतु, परमुत्पन्नं चतुर्थं पादं कथं स्थापयितुं शक्तः । ततः प्राह --
 
सम्मीलने नयनयोर्नहि किञ्चिदस्ति ॥
 
राजा तुष्टः कुण्डलसहितं तद्वाञ्छितं ददौ । }
 
७४) अथान्यदा स एव राजोजा राजपाटिकायाः प्रत्यावृत्तः पुरगोपुरे मुखमुक्तेन तुरगेण प्रविशन् व्याकुलीभूतेषु इतस्ततः पलायमानेषु जनेषु कामपि तक्रविक्रयकारिणीणीं जनसंमर्देन मौलिकम्पाद्भूतलपतितभग्नभाण्डामपि गोरसे सरित्प्रवाह इव प्रसरति विकसितमुखाम्भोजा श्रीभोजः प्राह -- 'तव विषादेऽपि किं हर्षकारणं ?' इति नृपेण पृष्टे सा प्राह --
 
१२०. हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशाद्गणिकाऽस्मि जाता ।
पुत्रं भुजङ्गमधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ॥
 
[ एवमवादीत् । तस्मात्प्रदेशान् 'मही'ति महीयसी नदी प्रादुरास । ]
 
॥ इति गोपगृहिणीप्रबन्धः ॥
 
७५) अन्यदा प्रातः श्रीभोज उपशिलामेकां लक्षीकृत्य धनुर्वेदमनिर्वेदमभ्यसंस्तत्कालदर्शनार्थमागतेन सिताम्बरवेषधारिणा श्रीचन्दनाचार्येण प्रत्युत्पन्नप्रतिभाभिरामतयौचित्यमभिदधे --
 
१२१. विद्धा विद्धा शिलेयं भवतु परमतः कार्मुकक्रीडितेन राजन् ! पापाषाणवेधव्यसनरसिकतां मुञ्च देव प्रसीद ।
क्रीडेयं चेत्प्रवृद्धा कुलशिखरिकुलं केलिलक्षं करोषि ध्वस्ताधारा धरित्री नृपतिलक तदा याति पातालमूलम् ॥
 
इति तत्कवितातिशयचमत्कृतोऽपि किञ्चिद्विचिन्त्य नृपतिरित्युवाच -- 'भवता सर्वशास्त्रपारंगतेनापि ध्वस्ताधारेति यत्पदमपाठि ततः कमप्युत्पातं सूचयति' ।
 
७६) इतश्च -- डाहलदेशीयराज्ञो राज्ञी देमतिनाम्नी महायोगिनी । सा कदाचिदासन्नप्रसवा सदैव दैवज्ञानिति पप्रच्छ -- 'कस्मिन्सुलग्ने जातः सुतः सार्वभौमो भवती'ति । अथ तैः सम्यगवगम्योच्चराशिषु केन्द्रस्थेषु सौम्यग्रहेषु त्रिषडायगेषु क्रूरेषु चामुकलग्ने जातः सुतः सार्वभौमो
भवतीत्युक्तम् । तन्निशम्य निश्चितप्रसवदिनादूर्ध्वं षोडशप्रहरान् यावद्योगयुक्त्या गर्भस्तम्भं कृत्वा नैमित्तिकनिर्णीते लग्ने कर्णनामानं सुतमसूत । तद्गर्भधारणदोषादष्टमे यामे सा विपन्ना ।