This page has been fully proofread once and needs a second look.

प्रकाशः ]
 
भोज-भीमप्रबन्धः ।
 
( इतोऽsग्रे Pb प्रतौ निम्नगतः प्रबन्ध उपलभ्यते -- )
 

 
{ अथान्यदा रात्रौ जागृतो भोजः स्वऋद्धिविस्तारं हृदये चिन्तयन् हृष्टः सन् इदं काव्यपादत्रयमाह -
-
 
[८०] चेतोहरा युवतयः स्वजनोऽनुकूलः सद्बान्धवाः प्रणयगर्भगिरश्च भृत्याः ।

गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गा.....
 

 
इति पुनः पुनः कथयति सति नृपे चतुर्थपादार्थमक्षरावलीं विलोकयति सति च तावत्कश्चिद्विद्वान् वेश्याव्यसनी 5
तद्वचनाद्राज्ञीकुण्डलयुग्मकृते तद्वेश्म चौर्याय प्रविष्टः, तत्पादत्रयमशृणोत् । ततस्तेनाचिन्ति यद्भाव्यं तद्भवतु,
परत्
परमुत्पन्नं चतुर्थं पादं कथं स्थापयितुं शक्तः । ततः प्राह -
 
-
 
सम्मीलने नयनयोर्नहि किञ्चिदस्ति ॥
 

 
राजा तुष्टः कुण्डलसहितं तद्वाञ्छितं ददौ । }
 

 
७४) अथान्यदा स एव राजो राजपाटिकायाः प्रत्यावृत्तः पुरगोपुरे मुखमुक्तेन तुरगेण प्रवि- 10
शन् व्याकुलीभूतेषु' इतस्ततः पलायमानेषु जनेषु कामपि तक्रविक्रयकारिणी' जनसंमदैर्देन मौलि
कम्पाद्भूतलपतितं भग्नभाण्डामपि गोरसे सरित्प्रवाह इव प्रसरति विकसितमुखाम्भोजांजा श्रीभोजः
प्राह -- 'तव विषादेऽपि किं हर्षकारणं ?"' इति नृपेण 'पृष्टे सा
 
प्राह --
 
१२०. हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशाद्गणिकाऽसिस्मि जाता ।

पुत्रं भुजङ्गमधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ॥
 

 
[ *एवमवादीत् । तस्मात्प्रदेशान् 'मही'ति महीयसी नदी प्रादुरास" ]

 
॥ इति गोपगृहिणीप्रबन्धः ॥
 
15
 

 
७५) अन्यदा प्रातः श्रीभोज उपशिलामेकां लक्षीकृत्य धनुर्वेदमनिर्वेदमभ्य संस्तत्कालदर्शना-
र्थमागतेन सिताम्बरवेषधारिणा श्रीचन्दनाचार्येण प्रत्युत्पन्नप्रतिभाभिरामतयौचित्यमभिदधे-
--
 
१२१. विद्धा विद्धा शिलेयं भवतु परमतः कार्मुकक्रीडितेन राजन् ! पापाणवेधव्यसनरसिकतां मुञ्च देव प्रसीद 120

क्रीडेयं चेत्प्रवृद्धा कुलशिखरिकुलं केलिलक्षं करोपिषि ध्वस्ताधारा धरित्री नृपतिलक तदा याति पातालमूलम् ॥

 
इति तत्कवितातिशयचमत्कृतोऽपि किञ्चिद्विचिन्त्य नृपतिरित्युवाच -- 'भवता" सर्वशास्त्रपारंगते-
नापि ध्वस्ताधारेति यत्पदमपाठि" ततः कमप्युत्पातं सूचयति' ।
 

 
७६) इतश्च"- -- डाहलदेशीयराज्ञो राज्ञी देमतिनाम्नी महायोगिनी । सौसा कदाचिदासन्नप्रसवा
सदैव दैवज्ञानिति पप्रच्छ -- 'कस्मिन्सुलग्ने जातः सुतः सार्वभौमो भवती'ति । अथ तैः सम्यग - 25
वगम्योच्चराशिषु केन्द्रस्थेषु सौम्यग्रहेषु त्रिषडायगेषु क्रूरेषु चामुकलग्ने जातः सुतः सार्वभौमो

भवतीत्युक्तम् । तन्निशम्य निश्चितप्रसवदिनादूर्ध्वं षोडशप्रहरान् यावद्योगयुक्त्या गर्भस्तम्भं
कृत्वा नैमित्तिकनिर्णीते लग्ने कर्णनामानं सुतम सूत । तद्गर्भधारणदोषादष्टमे यामे सा" विपन्ना ।
1 B भूपतिः । 2 BP जातभयेषु; Po कृतभयेषु । 3 BP लोकेषु इत० । 4 AD ● विक्रयिर्णी ।
स्पेन भूपतनात्; P० कम्पेन भन्नभाण्डा० । 6 AD • मुखां तां प्राह । 7 D विषादे किं कारणं । 8 BP नृपेणाभिहिता ।
 
24
 
5 B मौलिक-
-
 
9 D नास्ति । 10 D 'प्रदेशात् महीनदी' इत्येव । 11 Pa प्रादुरासीत् एवम-
* एषा पंक्ति: A नोपलभ्यते प्रक्षिप्तप्राया चेयम् ।
बादीच्य; Pb प्रादुरासीदिति कथा लोकप्रसिद्धा । + एवं प्रबन्धः BPP& आदर्शेषु नोपलभ्यतेऽत्र । 12 प्रीतः; Pb प्रातः-
समये । 13 Pb सिताम्बरेण । 14 A भवतः । 15 A ० पारंगतस्य । 16 A पपात । 17 BPP& नास्तीदं पदं ।
18 BP अथ डाहकदेशे देमतनानी राशी; Pa डाइलीदेशेऽथ देमतराज़ी नानी । 19 AD नास्ति । 20 BPa केन्द्र भाजिषु ।
21 BP 'इत्युक्तं' नास्ति । 22 BP कुत्या । 23 D प्रासून ।
24 BPPa सापि संग्रमिनीं पुरी जगाम ।
 
7