This page has been fully proofread twice.

पृष्टः -- 'अस्मिन् जीवलोके राजन् ! लोभ एवैको न भव्यः' । राज्ञा कथमिति भूयोऽपि पृष्टः -- 'यद्ब्राह्मणः श्वानं स्कन्धदेशेनास्पृश्यमपि वहति तल्लोभस्यैव विजृम्भितमतो लोभ एव न भव्यः ।
 
॥ इति 'एको न भव्यः' प्रबन्धः ॥
 
७२) अथान्यदा मित्रमात्रसहायो नृपतिर्निशि परिभ्रमन् पिपासाकुलतया पणरमणीगृहं गत्वा मित्रमुखेन जलं याचितवान् । ततोऽतुच्छवात्सल्याच्छम्भल्या दास्या कालविलम्बेनेक्षुरसपूर्णः करकः सखेदमुपानीयत । मित्रेण खेदकारणे पृष्टे -- 'एकस्यामिक्षुलतायां शूलेन भिद्यमानायां पुरा रससम्पूर्णः सवाहटिको घट आसीत्; साम्प्रतं तु प्रजासु विरुद्धमानसे नृपे चिरकालेन केवला वाहटिकैव भृतेति खेदकारणम्' । नृपस्तत्खेदकारणमाकर्ण्य केनापि वणिजा शिवायतने महति नाटके कार्यमाणे तल्लुण्ठनचित्तमात्मानं विमृश्य तद्वचस्तथ्यमेवेति मेने । ततो व्यावृत्य स्वस्थानमासाद्य निद्रां सिषेवे । अपरेद्युः प्रजासु सञ्जातकृपो नृपः पण्याङ्गनागृहं गतः । तदा च तयाऽद्य प्रजासु वत्सलो नृपतिः, प्रचुरेक्षुरससङ्केतादिति व्याहरन्त्या राजा तोषितः ।
 
॥ इतीक्षुरसप्रबन्धः ॥
 
७३) अथान्यस्मिन्नवसरे धारानगर्याः शाखापुरे प्रासादस्थिताया गोत्रदेव्या नमश्चिकीर्षया नित्यमागच्छन् किदाचिद्वेलाव्यतिक्रमे सञ्जाते सति प्रत्यक्षीभूतया तया देवतया द्वारप्रदेशमागतया मितपरिच्छदं द्वारप्रदेशमागतमकस्मान्नृपमालोक्य ससम्भ्रमान्निषेदुषी निजासनमतिचक्राम । नृपः प्रणामपूर्वकं तं वृत्तान्तं पृच्छन्, सन्निहितं परबलमागतं विचिन्त्य 'शीघ्रं व्रजे'ति विसृष्टो देवतया क्षणात् गूर्जरसैन्यैर्वेष्टितं स्वमपश्यत् । जवाधिकेन वाजिना व्रजन् धारानगरगोपुरे प्रविशन्,
आलूया-कोलूयाभिधानाभ्यां गूर्जराश्ववाराभ्यां तत्कण्ठे धनुषी प्रक्षिप्य, एतावता व्यापादितोसीति वदद्भ्यां त्यक्तः ।
 
१९९. असौ गुणीति मत्वेव भोजः कण्ठमुपेयुषा । धनुषा गुणिना यस्य नश्यन्नश्वान्न पातितः ॥
 
॥ इति अश्ववारप्रबन्धः ॥