This page has been fully proofread twice.

त्रापि नास्ति ४ । इति विदुषामपि सन्दिग्धेऽर्थे अणहिल्लपुरे पटहे वाद्यमाने कयापि गणिकया
पटहस्पर्शपूर्वकं विज्ञपयांचत्क्रे -- 'गणिका १ तपस्वि २ दानेश्वर ३ द्यूतकार ४ रूपं वस्तुचतुष्टयं
प्रहीयताम् ॥ इति तयोक्ते नृपो दूताय तत्समर्प्पयत् । दूतेनेत्थमेवाभिधाय वस्तुचतुष्टयमादाय
यथागतं जग्मे ।
 
॥ इति वस्तुचतुष्टयप्रबन्धः ॥
 
७०) अन्यदा भोजनृपो वीरचर्यया परिभ्रमन्निशि कयापि दुर्विर्धवध्वा --
 
११६. माणुसडाँ दस दस दसा सुणियइ लोयपसिद्ध । मह कन्तह इक्क ज दसा अवरि ते चोरहिं लिद्ध ॥
 
इदं पठ्यमानमाकर्ण्य तस्या दुःस्थाऽवस्थया सञ्जातकृपो नृपः प्रातस्तत्पतिं सदस्यानीय तस्य किमप्यायतिहितं विमृश्य बीजपूरकद्वये प्रत्येकं लक्षमूल्यं रत्नद्वयं प्रच्छन्नं तस्मै प्रसादीकृतवान् । तेनापि तद्वृत्तान्तमजानता मूल्येन पत्रशाकापणे तद् विक्रीतम् । तेनाप्यविदिततत्स्वरूपेणोपायनाय तन्मातुलिङ्गद्वयं कस्यापि समर्पितं सत् श्रीभोजस्यैवं तेन ढौकितम् ।
 
११७. वेलामहल्लकल्लोलपिल्लियं जइ वि गिरिनईपत्तं । अणुसरइ मग्गलग्गं पुणोवि रयणायरे रयणं
 
इत्यनुभवाद्भाग्यमेव नृपस्तथ्यं मेने । यतः --
 
११८. ६ प्रीणिताशेषविश्वासु वर्षास्वपि पयोलवम् । नाप्नुयाञ्चातको नूनमलभ्यं लभ्यते कुतः ॥
 
॥ इति बीजपूरकप्रबन्धः ॥
 
७१) अथान्यदा कस्यामपि निशि नृपः 'एको न भव्यः' इति प्रच्छन्नं क्रीडाशुकं पाठयित्वा प्रातः 'त्वया पण्डितसभायां वाक्यमिदमुच्चारणीय'मिति संशिक्षितवान् । अथ तेनं तथाभिधीयमाने नृपेण पृष्टाः पण्डिता निर्णयमजानन्तः षाण्मासीमवधिं याचितवन्तः । ततस्तन्मुख्यो वररुचिस्तन्निर्णयाय देशान्तरं परिभ्रमन् केनापि पशुपालेन 'अहमेवामुं निर्णयं भवत्स्वामिने निवेदयिष्यामि । परमहममुं स्वं श्वानशावं वृद्धतया नोद्वोढुं वत्सलतया न मोक्तुं च शक्नोमि' -- इति तेनाभिहिते तज्जिघृक्षया वररुचिस्तं वस्त्रान्तरितं निजस्कन्धे समधिरोप्य तं पशुपालं सह नीत्वा नृपसभामुपागत उत्तरकारिणं निवेदयामास । अथ स पशुपालो नृपेण तदेव वचनं