2023-11-03 08:23:26 by Bharadwajraki
This page has been fully proofread twice.
त्रिरुक्तोऽपि यदा न ददाति तदा तं प्रकाशं प्राह -- 'देशसात्म्यात्प्रकृतिकार्पण्याच्च लक्षत्रयमस्यै दाप्यते; औदार्यात्तु प्राज्यं साम्राज्यमपि दीयमानमल्पतरमेव स्यादित्यादिष्टे समस्तसमाजलोकैः प्रेर्यमाणः स तयोर्वचनयोरन्वयं पृच्छन् इत्यभिदधे' -- 'कर्णान्तविश्रान्तमपाङ्गाञ्जनरेखायुगं युगपदस्या निरूप्य मयेह किमित्यभिहितम् । अनया तु "द्विवचनस्य बहुवचनमि"ति प्राकृतसूत्रलक्षणात् पुच्छन्तीति दृशौ, कर्णाभ्यर्णेऽञ्जनरेखामिषात्, यो भवद्भ्यां श्रुतपूर्वः स एवायं
श्रीभोज इति निर्णेतुं गते इत्याशंक्योत्तरं दत्तवती । प्रज्ञावज्ञातवाक्पतीनामपि पण्डितानां योऽर्थोऽविषयस्तं सहसैवोद्गिरन्ती प्रत्यक्षरूपा भारतीयम् । तदस्याः पारितोषिके लक्षत्रयं कियदिति । ततो लक्षत्रयस्य त्रिर्व्याहारान्नवलक्षान् प्रत्यक्षांस्तस्यै दापयामास । [ ततो ज्ञातगूर्जरजनचातुर्यविशेषः श्रीभोज इत्युवाच -- 'विवेको गूर्जरे देशे' । ततो राजा 'मालवीयः पण्डितो गूर्जरो गोपालः समौ' इति वृद्धजनगिरं सत्यां मन्यमानस्तौ विससर्ज । ]
॥ इति पणस्त्री-गोपयोः प्रबन्धः ॥
६८) अथाबाल्यादेव स नृपः --
११९. मस्तकस्थायिनं मृत्युं यदि पश्येदयं जनः । आहारोऽपि न रोचेत किमुताकृत्यकारिता ॥
इति विज्ञाततत्त्वतया धर्मेऽप्रमत्तोऽभूत् । कदाचिन्निद्राभङ्गानन्तरं 'कश्चिद्विपश्चित्समेत्य वेगवति
तुरगेऽधिरूढस्त्वां प्रति प्रेतपतिरुपैतीत्यनुसारेण धर्मकर्मणि सज्जीभवितव्यमि'ति वचनाधिकारिणे
पण्डिताय प्रत्यहमुचितदानं ददानः कदाऽपराह्णे सभासिंहासने उपविष्टः स्थगिकावित्तसमर्पितवीटकात्प्रागेव मुखे पत्रं क्षिप्वाऽभ्यवहरन् व्यवहारवेदिभिस्तत्कारणं पृष्ट इत्यवदत् -- 'कृतान्तदन्तान्तरवर्त्तिनां मनुष्याणां यद्दत्तं यच्च भुक्तं तदेवात्मीयं परस्य तु संशयः । तथा च --
११२. उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । आयुषः खण्डमादाय रविरस्तं प्रयास्यति ॥ १
११३. लोकः पृच्छति मे वार्त्तां शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥ २
११४. श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् । मृत्युर्न हि परीक्षेत कृतं वास्य न वा कृतम् ॥ ३
११५. मृतो मृत्युर्जरा जीर्णा विपन्नाः किं विपत्तयः । व्याधयो व्याधिताः किं नु दृप्यन्ति यदमी जनाः ॥ ४
॥ इत्यनित्यताश्लोकचतुष्टयप्रबन्धः ॥
६९) अथान्यदा श्रीभोजः श्री भीमभूपतेः पार्श्वाद् दूतमुखेन वस्तुचतुष्टयमयाचिष्ट । एकं वस्तु इहास्ति परत्र नास्ति १; द्वितीयं परत्रास्ति, अत्र नास्ति २; तृतीयमुभयत्रास्ति ३; चतुर्थमुभय-