This page has not been fully proofread.

प्रबन्धचिन्तामणिः ।
 
[ द्वितीयः
 
त्रिरुक्तोऽपि यदा न ददाति तदा तं' प्रकाशं 'प्राह - 'देशसात्म्यात्प्रकृतिकार्पण्याच लक्ष-
त्रयम॑स्यै दाप्यते; औदार्यात्तु प्राज्यं साम्राज्यमपि दीयमानमल्पतरमेव स्यादि'त्यादिष्टे समस्त
समाजलोकैः प्रेर्यमाणः स तयोर्वचनयोरन्वयं पृच्छन् इत्यभिधे' - 'कर्णान्तविश्रान्तमपाङ्गाञ्जन-
रेखायुगं युगपदस्या निरूप्य मयेह किमित्यभिहितम् । अनया तु "द्विवचनस्य बहुवचनमि" ति
5 प्राकृत सूत्रलक्षणात् पुच्छन्तीति* दृशौ, कर्णाभ्यर्णेऽञ्जनरेखामिषात्, यो भवद्भ्यां श्रुतपूर्वः स एवायं
श्रीभोज इति निर्णेतुं गते 'इत्याशंक्योत्तरं दत्तवती । प्रज्ञावज्ञातवाक्पतीनामपि पण्डितानां योऽ-
र्थो विषयस्तं सहसैवोद्गिरन्ती प्रत्यक्षरूपा भारतीयम् । तदस्याः पारितोषिके लक्षत्रयं किय-
दिति । ततो लक्षत्रयस्य त्रिर्व्याहारान्नवलक्षान् प्रत्यक्षांस्तस्यै दापयामास । [ततो ज्ञातगूर्जरजन-
चातुर्यविशेष: श्रीभोज इत्युवाच - 'विवेको गूर्जरे देशे' । ततो राजा 'मालवीयः पण्डितो गूर्जरो
10 गोपालः समौ' इति वृद्धजनगिरं सत्यां मन्यमानस्तौ विससर्ज ]
 
-
 
॥ इति पणस्त्री-गोपयोः प्रबन्धः ॥
 
६८) अथाबाल्यादेव स नृपः-
११९. मस्तकस्थायिनं मृत्युं यदि पश्येदयं जनः । आहारोऽपि न रोचेत किमुताकृत्यैकारिता ॥
 
इति विज्ञाततत्त्वतयाँ धर्मेऽप्रमत्तोऽभूत् । कदाचिन्निद्राभङ्गानन्तरं 'कश्चिद्विपश्चित्समेत्य वेगवति
15 तुरगेऽधिरूढस्त्वां प्रति प्रेतपतिरुपैतीत्यनुसारेण धर्मकर्मणि सज्जी भवितव्यमिति वचनाधिकारिणे
पण्डिताय प्रत्यहमुचितदानं ददानः कदाऽपराहे सभासिंहासने उपविष्टः स्थगिकावित्तसमर्पित-
बीटकात्प्रागेव मुखे पत्रं क्षिप्वाऽभ्यवहरन् व्यवहारवेदिभिस्तत्कारणं पृष्ट इत्यवदत् - 'कृतान्तद-
न्तान्तरवर्त्तिनां मनुष्याणां यद्दत्तं यच्च भुक्तं तदेवात्मीयं परस्य तु संशयः । तथा च
 
20
 

 
११२. उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । आयुषः खण्डमादाय रविरस्तं प्रयास्यति ॥ १
११३. लोकः पृच्छति मे वार्त्ता शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥ २
११४. श्वः कार्यमय कुर्वीत पूर्वाहे चापराह्निकम् । मृत्युर्न हि परीक्षेत कृतं वास्य न वा कृतम् ॥ ३
११५. मृतो मृत्युर्जरा जीर्णा विपन्नाः किं विपत्तयः । व्याधयो व्याधितः किं नु हप्यन्ति यदमी जनाः ॥ ४
॥ इत्यनित्यताश्लोकचतुष्टयप्रवन्धः ॥
 
६९) अथान्यदा श्रीभोजः श्री भीमभूपतेः पार्थ्याद् दूतमुखेन वस्तुचतुष्टयमयाचिष्ट । एकं वस्तु
25 इहास्ति परत्र नास्ति १; द्वितीयं परंत्रास्ति, अत्र नास्ति २, तृतीयमुभयत्रास्ति" ३; चतुर्थमुभय-
1AD osपि कोशाधिपः । 2 B तं प्रति प्र० 1 3AD प्रकाशमाह । 4 BP कार्पण्यनैपुण्याच्च । 5A • मस्यैव ।
6 AD 'प्रायं' नास्ति । 7 BPP a 'स्याद्' नास्ति ।
8 D पृष्टः । 9 Pb ●दधे विशांपतिः । 10 D 'सूत्र' नास्ति ।
* PU आदर्श 'पुच्छन्ति इति उक्तम् । अञ्जनरेखे पृच्छतः कर्णा०' । 11 D 'दृशौ' नास्ति । 12 Pa नास्ति । एतचिह्नान्तर्गतपाठ-
स्थाने AD आदर्श 'इत्युत्तरं प्रतिपादितं, तदियं प्रत्यक्षरूपा भारती' इत्येव पाठः । 13 AD 'प्रत्यक्षान्' नास्ति । § एष कोष्ठकान्तर्गतः
पाठः केवलं Pb प्रतौ प्राध्यते । । AD नास्त्येतरसमाप्तिवाक्यम् । 14 AD ० ताकार्यका० । 15 D • तत्वो । 16 BP ० भङ्गादनु ।
 
$ एतचिह्नान्तर्गतानां पीनां स्थाने BPP । आदर्शपु भिनपाठीया एतादृश्यः पयः प्राप्यन्ते– 'सज्जीभवितव्यमिति एतस्मै
उचितदानं ददानः प्रतिप्रातः, कस्मिन्नध्यपराह्नावसरे सभासिंहासने समलङ्कृते सति नृपः स्थगिकावित्तसमर्पितबीटकात् प्रागेष मुखपत्रं
बीटकयाभ्यवहरन व्यवहारवेदिभिर्विज्ञस इति जगाद' ।
 
17 AD बाधिताः । 18 AD तु । 19 D हृष्यन्ति । 20 AD चतुष्क० । ↑ एष प्रबन्ध: Pb प्रतौ इतः पूर्वमेव
लिखितो लभ्यते । 21 Pa इह नास्ति परत्रास्ति । 22 Pa तृतीयं वस्तु उभयन्नाप्यस्ति । 23 BP तुरीयं नोभयत्रास्ति ।