2023-11-03 07:33:52 by Bharadwajraki
This page has been fully proofread twice.
यन्तु' -- इति राज्ञा भणिताः प्राहुः -- 'मुक्तानामस्मद्देवतानामत्र कोऽतिशयः सम्भवति, तथापि
तत्किङ्कराणां सुराणां प्रभावाविर्भावः कोऽपि विश्वचमत्कारकारी दर्शयत' इत्यभिधाय चतुश्चत्वारिंशता निगडैर्निजमङ्गं नियमितं कारयित्वा तन्नगरवर्त्तिनः श्रीयुगादिदेवस्य प्रासादपाश्चात्यभागे स्थितो मन्त्रगर्भं 'भक्तामरे'ति नवं स्तवं कुर्वन् प्रतिकाव्यं भग्नैकैकनिगडः शृङ्खलासंख्यैः काव्यैः पर्याप्तस्तवोऽभिमुखीकृतप्रासादः शासनं प्रभावयामास ।
॥ इति श्रीमानतुङ्गाचार्यप्रबन्धः ॥
६७) अथ कैस्मिन्नप्यवसरे नृपः स्वदेशपण्डितानां पाण्डित्यं श्लाघमानो गूर्जरदेशमविदग्धतया निन्दन् स्थानपुरुषेणाभिदधे -- 'अस्मद्देशीयाबला-गोपालयोरपि भवदीयोऽग्रणीः पण्डितः कोऽपि न तुलामधिरोहती'ति विज्ञप्ते नृपस्तं मृषाभाषिणं चिकीर्षुराकारसंवृत्त्या कियन्तमपि कालं विलम्बमानः स्थानपुरुषेण तद्वृत्तान्तं ज्ञापितः श्री भीमः स्वदेशसीमान्तनगरे विदग्धाः कश्चित्पणस्त्रियः कांश्च गोपवेषधारिणः पण्डितान् मुक्तवान् । अन्यदा श्रीराजदौवारिकेण तत्रागत्य, कश्चित्तद्विधो गोपः प्रतापदेवीनाम्नीं पणस्त्रियं सह गृहीत्वा विदग्धलोकसुधासारां धारामारादवाप्य, तां क्वापि सज्जताकृते विमुच्य, प्रत्यूषमुखे भूपाय गोपे निवेदिते श्रीभोजेन किमपि वदेत्यादिष्टे --
११०. भोयएव गलि कण्ठलउ मूं भल्लउ पडिहाइ । उरि लच्छिहि मुहि सरसतिहि सीम विहंची कांइ ॥
इति तदुक्तिमाकर्ण्य विस्मयस्मेरमानसः सभायामलङ्कृतायां पणहरिणदृशं तथ्यनेपथ्यधारिणीं पुरो विलोक्य तां प्रति 'इह किं' इत्याकस्मिकं वचः श्रीभोजः समादिक्षत् । अथ वैजातिपक्षपातादिव सरस्वत्याः प्रसादपात्रं शेमुषीनिधिः सा सुमुखी शरीरिणी प्रतिभेव गम्भीरमपि तद्वचनतत्त्वमवगम्य 'पुच्छन्ती'ति नृपं प्रति प्रतिवचः प्रथितवती । इत्युचिततद्वचसा विकसितवदनाम्भोजेन भोजेन कोशाधिपात् लक्षत्रये दाप्यमानेऽज्ञाततत्त्वतया तस्मिन् स्तब्धतां भजमाने
तत्किङ्कराणां सुराणां प्रभावाविर्भावः कोऽपि विश्वचमत्कारकारी दर्शयत' इत्यभिधाय चतुश्चत्वारिंशता निगडैर्निजमङ्गं नियमितं कारयित्वा तन्नगरवर्त्तिनः श्रीयुगादिदेवस्य प्रासादपाश्चात्यभागे स्थितो मन्त्रगर्भं 'भक्तामरे'ति नवं स्तवं कुर्वन् प्रतिकाव्यं भग्नैकैकनिगडः शृङ्खलासंख्यैः काव्यैः पर्याप्तस्तवोऽभिमुखीकृतप्रासादः शासनं प्रभावयामास ।
॥ इति श्रीमानतुङ्गाचार्यप्रबन्धः ॥
६७) अथ कैस्मिन्नप्यवसरे नृपः स्वदेशपण्डितानां पाण्डित्यं श्लाघमानो गूर्जरदेशमविदग्धतया निन्दन् स्थानपुरुषेणाभिदधे -- 'अस्मद्देशीयाबला-गोपालयोरपि भवदीयोऽग्रणीः पण्डितः कोऽपि न तुलामधिरोहती'ति विज्ञप्ते नृपस्तं मृषाभाषिणं चिकीर्षुराकारसंवृत्त्या कियन्तमपि कालं विलम्बमानः स्थानपुरुषेण तद्वृत्तान्तं ज्ञापितः श्री