2023-11-01 10:53:34 by Bharadwajraki
This page has been fully proofread twice.
६५) अथ मयूर-बाणाभिधानौ भावुकशालकौ पण्डितौ निजविद्वत्तया मिथः स्पर्द्धमानौ नृपसदसि लब्धप्रतिष्ठावभूताम् । कदाचिद्बाणपण्डितो जामिमिलनाय तद्गृहं गतो निशि द्वारप्रसुप्तो
भावुकेनानुनीयमानां समानां जामिं निशम्य तत्र दत्तावधान इत्यशृणोत् --
१०९. गतप्राया रात्रिः कृशतनु शशी ! शीर्यत इव
प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव ।
प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो
-- इति भूयो भूयस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य,
कुचप्रत्यासत्या हृदयमपि ते चण्डि ! कठिनम् ॥
इति भ्रातृमुखात्तुर्यं पदमाकर्ण्य क्रुद्धा सा सत्रपा च 'कुष्ठी भवे'ति तं भ्रातरं शशाप । इति पतिव्रताव्रतप्रभावात्तदात्वप्रभूतप्रसृतरोगः प्रातः शीतरक्षापिहिततनुर्नृपसभायामायातो मयूरेण मयूरेणेव कोमलगिरा 'वरकोढी' इति तं प्रति प्राकृतशब्दे प्रोक्ते चतुरचक्रवर्ती नृपो बाणं सविस्मयं
प्रेक्ष्यमाणस्तेनं प्रस्तावान्तरे देवताराधनोपायश्चेतस्यवतारयांचक्रे । बाणस्तु सत्रपस्तत उत्थाय
नगरसीमनि स्तम्भमारोप्य स्वादिराङ्गारपूर्णमधःकुण्डं विधाय स्तम्भाग्रवर्तिनि सिक्कके स्वयमधिरूढः सूर्यस्तुतौ प्रतिकाव्यप्रान्ते सिक्ककपदं क्षुरिकया छिन्दन् पञ्चभिः काव्यैस्तेन पञ्चसु पदेषु छिन्नेषु सिक्ककाग्रविलग्नः षष्ठेन काव्येन प्रत्यक्षीकृतभानुस्तत्प्रसादात्सद्यः सञ्जातजात्यकाञ्चनकायकान्तिः, अन्यस्मिन्नहनि सुवर्णचन्दनावलिप्ताङ्गः संवीतसितदिव्यवसनः समाजगाम । तद्वपुःपाटवं पश्यता नृपेण सूर्यवरप्रसादं मयूरे विज्ञपयति सति बाणो बाणनिभया गिरा तं मर्मणि विव्याध । 'यदि देवताद्याराधनं सुकरं तदा त्वमपि किमपीदृक् चित्रमाविःकुरु' इत्यभिहिते तेन मयूरेण तं प्रति प्रतिवचः सन्दधे । 'निरामयस्य किमायुर्वेदविदा; तथापि तव वचः सत्यापयितुं निजपाणी पादौ च छुर्या विदार्य, त्वया षष्टे काव्ये सूर्यः परितोषितः, अहं तु पूर्वस्य काव्यस्य षष्टेऽक्षरे भवानीं परितोषयामी'ति प्रतिश्रुत्य सुखासनसमासीनश्चण्डिकाप्रासादपश्चाद्भागे
निविष्टो 'मा भाङ्क्षीर्विभ्रम'मिति षष्ठेऽक्षरे प्रत्यक्षीकृतचण्डिकाप्रसादात्प्रत्यग्रप्रथमानवपुःपल्लवः
स्वसम्मुखं च तत्प्रासादमालोक्याभिमुखागतैर्नृपतिप्रमुखराजलोकैः कृतजयजयारवो महता
महेन पुरं प्राविक्षत् ।
६६) एतस्मिन्नवसरे मिथ्यादृशां शासने विजयिनि सम्यग्दर्शनद्वेषिभिः कैश्चित्प्रधानपुरुषैर्नृपोऽभिदधे -- 'यदि जैनमते कश्चिदीदृक्प्रभावः प्रभवति तदा सिताम्बराः स्वदेशे स्थाप्यन्ते नो
चेज्जवान्निर्वास्यन्ते' इति तद्वचनादनु श्रीमानतुङ्गाचार्यांस्तत्राकार्य 'निजदेवतातिशयं कमपि दर्श-