This page has not been fully proofread.

४४
 
प्रबन्धचिन्तामणिः ।
 
[द्वितीयः
 
६५) *अथ मयूर-बाणाभिधानौ भावुकशालको पण्डितौ निजविद्वत्तया मिथ: स्पर्द्धमानौ नृप-
सदसि लब्धप्रतिष्ठावभूताम् । कदाचिद्वाणपण्डितो जामिमिलनाय तद्गृहं गतो निशि बारमसुप्तो
भावुकेनानुनीयमानां समानां जामिं निशम्य तत्र दत्तावधान इत्यशृणोत्-*
 
१०९ गतप्राया रात्रिः कृशतनु शशी! शीर्यत इव
प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव ।
प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो
 
- इति भूयो भूयस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य,
कुचप्रत्यासत्या हृदयमपि ते चण्डि ! कठिनम् ॥
 
इति भ्रातृमुखात्तुर्य पदमाकर्ण्य क्रुद्धा सा सत्रपा च 'कुष्ठी भवे'ति तं भ्रातरं शशाप । इति पतिव्र
10 ताव्रतप्रभावात्तदात्वप्रभूतप्रसृतरोगंः प्रातः शीतरक्षापिहिततनुर्नृपसभायामायातो मयूरेण मयू-
रेणेव कोमलगिरा 'वरकोढी" इति तं प्रति" प्राकृतशब्द प्रोक्ते चतुरचक्रवर्ती नृपो बाणं सविस्मयं
प्रेक्ष्यमाणस्तेनं प्रस्तावान्तरे देवताराधनोपार्य॑श्चेतस्य॒वतारयांचक्रे । बाणस्तु सपस्तत उत्थाय
नगरसीमनि स्तम्भमारोप्य खादिराङ्गारपूर्णमधः कुण्डं विधाय स्तम्भाग्रवर्तिनि सिक्कके स्वयम-
धिरूढः सूर्यस्तुतौ प्रतिकाव्यप्रान्ते सिक्ककपदं क्षुरिकर्यां छिन्दन् पञ्चभिः काव्यैस्तेन पञ्चसु पदेषु
15 छिन्नेषु सिक्ककाग्र विलग्नः षष्ठेन काव्येन प्रत्यक्षीकृतभानुस्तत्प्रसादात्सद्यः सञ्जातजात्यकाञ्चनका-
यकान्तिः, अन्यस्मिन्नहनि सुवर्णचन्दनावलिप्साङ्गः संवीत सितेंदिव्यवसनः समाजगाम । तद्वपुः-
पाटवं पश्यता नृपेण सूर्यवरप्रसादं मयूरे विज्ञपयति संति बाणो बाणनिभया गिरा तं मर्मणि
विव्याध । 'यदि देवताद्याराधनं सुकरं तदा त्वमपि किमपीक चित्रमाविः कुरु' इत्यभिहिते तेन
मयूरेण तं प्रति प्रतिवच: सन्दधे । 'निरामयस्य किमायुर्वेदविदा; तथापि तव वचः सत्यापयितुं
20 निजपाणी पादौ च छुर्या विदार्य, त्वया षष्टे काव्ये सूर्यः परितोषितः, अहं तु पूर्वस्य काव्यस्य
षष्टेऽक्षरे भवानीं परितोषयामीति प्रतिश्रुत्य सुखासनसमासीनश्चण्डिकाप्रासादपञ्चाद्भागे
निविष्टो 'मा भाङ्क्षीर्विभ्रम'मिति षष्ठेऽक्षरे प्रत्यक्षीकृतचण्डिकाप्रसादात्प्रत्यग्रप्रथमानवपुःपल्लवः
स्वसम्मुखं च तत्प्रासादमालोक्याभिमुखागतैर्नृपतिप्रमुखराजलोकैः कृतजयजयारवो महता
महेन पुरं प्राविक्षत् ।
 
,
 
20
 
5
 
25 ६६) एतस्मिन्नवसरे मिथ्यादृशां शासने विजयिनि सम्यग्दर्शनद्वेषिभिः कैश्चित्प्रधानपुरुषैर्नृ-
पोऽभिदधे- 'यदि जैनमते कश्चिदीदृक्प्रभावः प्रभवति तदा सिताम्बराः स्वदेशे स्थाप्यन्ते नो
चेज्जवान्निर्वास्यन्ते' इति तद्वचनादनु' श्रीमानतुङ्गाचार्यास्तत्राकार्य 'निजदेवतातिशयं कमपि दर्श-
3 BP क्रुध-
* एतचिह्नान्तर्गत कथनस्थाने Pb आदर्श 'अथ मयूरवाणी पण्डितौ स्तः । मिथ: स्पर्द्धमानौ राजमान्यौ कदाचिद् बाणो यामिगृहे
मिलनाय गतः । बहिस्थोऽशृणोत्' एवरूपं संक्षिप्तं कथनं लभ्यते । 1 P समयुं; AD नास्ति । 2 P नास्ति ।
मिमां ।
4 P उच्चार्यमाणामालोक्य; Pa आदर्शे एतद्वाक्यं किञ्चिदू भिन्न प्रकारेण लिखितं लभ्यते, यथा- 'पदत्रयीमाद्यां भूयो भूय
उदीर्यमाणामाकर्ण्य तुयं पदं पपाठ' । 5 P& तद्भ्रातृ० । 6 P सापनपा क्रुद्धा कुष्ठी भवेति; Pb कुधा शशाप कुष्ठी भवेति ।
7 B प्रसूतरोगः; D तदात्मप्रभृतिरोगोऽभूत् । 8 P सभामागतो। 9 D वरकोडी । 10 D 'प्रति' नास्ति । 11 Pa प्राकृ-
तगिरा । 12 Pa ततः; BP नास्ति । 13 Pa • पायें । 14 Pa चिन्तयामास । + B आदर्श इदं वाक्यमेतादृशं - 'प्रेक्षमाणः
सभासमक्षं विनष्टवपुपं ज्ञापयांचकार । 15 ABD सापत्रपः । 16 DP छुरिकया । 17 D 'कान्ति' नास्ति । 18 B • स्वच्छ-
दिव्य० ।
19 ABD 'सति' नास्ति । 20 BPa नास्ति । 21 A ●राधनाचं; D देवताराधनं । 22 PPa 'किमपि '
नास्ति ।
23 AD निजपादौ च पाणी ।
24 PP& नो वा जबा० । 25 AD तह चनानन्तरं ।
 
-