This page has been fully proofread twice.

६४) अथ तन्नगरनिवासिनी शीताभिधाना रन्धनी कमपि विदेशवासिनं कार्पटिकं पाकायाशनमुपनीयं सूर्यपर्वणि जलाश्रये कङ्गुणीतैलमासाद्य गृहमुपेत्य तद्वमनाद्विपन्नमालोक्य सद्रव्यमिति उत्पद्यमानकलङ्कशङ्काकुलतया पञ्चत्वाय तदशनमेव बुभुजे । तस्मिन्स्थिरे प्रादुर्भूतप्रभूत प्रातिभवैभवा विद्यात्रयीं ईषत्समभ्यस्य नवयौवनया विजयाभिधानया विदुष्या स्वसुतया सार्द्धं श्रीभोजस्य सदः शृङ्गारयन्ती श्रीभोजं प्रति प्राह --
 
१०३. शौर्यं शत्रुकुलक्षयावधि यशो ब्रह्माण्डभाण्डावधि त्यागस्तर्कुकवाञ्छितावधिरियं क्षोणी समुद्रावधिः ।
श्रद्धा पर्वतपुत्रिकापतिपदद्वन्द्वप्रणामावधिः श्रीमद्भोजमहीपतेर्निरवधिः शेषो गुणानां गणः ॥
 
अथ विनोदप्रियेण राज्ञा कुचवर्णनायानुयुक्ता विजया प्राह --
 
१०७. उन्नाहश्चिबुकावधिर्भुजलता मूलावधिः सम्भवो विस्तारो हृदयावधिः कमलिनीसूत्रावधिः संहतिः ।
वर्णः स्वर्णकषावधिः कठिनता वज्राकरक्ष्मावधिस्तन्वङ्ग्याः स्तनमण्डले यदि परं लावण्यमस्तावधिः ॥
 
इति तद्वर्णनाकर्णनात्तेनार्द्धकविना राज्ञा --
 
[७५] { किं वर्ण्यते कुचद्वन्द्वमस्याः कमलचक्षुषः ।

तयोक्तम् -- सप्तद्वीपकरग्राही भवान् यत्र करप्रदः ॥
 
राज्ञा -- [७६] प्रहतमुरजमन्द्रध्वानवद्भिः पयोदैः कथमलिकुलनीलैः सैव दिग् सम्प्ररुद्धा ।

तयोक्तम् -- प्रथमविरहखेदम्लायिनी यत्र बाला वसति नयनवान्तैरश्रुभिर्धौतवक्त्रा ॥ }
 
१०८. सुरताय नमस्तस्मै जगदानन्ददायिने । -- इति राज्ञा प्रोक्ते,
 
आनुषङ्गि फलं यस्य भोजराज ! भवादृशाः ॥
 
-- इति विजयवाक्ये विजयोक्ते राजा सत्रपमधोमुखं तस्थौ ।
 
{ ततो राजा तां भोगिनीं चक्रे । अन्यदा तया जालान्तरे चन्द्रकरस्पर्शेऽपाठि --
 
[७७] अलं कलङ्कशृङ्गार ! करस्पर्शनलीलया । चन्द्र ! चण्डीशनिर्माल्यमसि न स्पर्शमर्हसि ॥ }
 
[७८] क्षणं क्षीणास्तारा नृपतय इवानुद्यमपरा असच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।
अभूत् पिङ्गा प्राची रसपतिरिव प्राश्य कनकं न शोभन्ते दीपा द्रविणरहितानामिव गुणाः ॥
 
[७९] विरलविरलीभूतास्ताराः कलौ स्वजना इव मन इव मुनेः सर्वत्रापि प्रसन्नमभून्नभः ।
अपसरति च ध्वान्तं चित्तात् सतामिव दुर्जनो व्रजति च निशा क्षिप्रं लक्ष्मीर्निरुद्यमिनामिव ॥
 
इत्यत्र बहु वक्तव्यं परंपरया तत्तु ज्ञातव्यम् ।
 
॥ इति शीतापण्डिताप्रबन्धः ॥