This page has not been fully proofread.

प्रकाशः ]
 
भोज-भीमप्रबन्धः ।
 
४३
 
६४) अथ तन्नगरनिवासिनी शीताभिधाना रन्धनी कमपि विदेशवासिनं कार्पटिकं पाकाया-
शनमुपनीयं *सूर्यपर्वणि जलाश्रये कङ्गुणीतैलमासाथ गृहमुपेत्य तद्वमनाद्विपन्नमालोक्य सद्रव्य-
मिति उत्पद्यमानकलङ्कशङ्काकुलतया पञ्चत्वाय तर्दशनमेव बुभुजे * । तस्मिन्स्थिरे प्रादुर्भूतप्रभूत-
प्रातिभवैभवा विद्यावयीं ईषत्समभ्यस्य नवयौवनया विजयाभिधानया विदुष्या खमुतया साईं
श्रीभोजस्य सर्दः शृङ्गारयन्ती श्रीभोजं प्रति प्राह-
१०३. शौर्य शत्रुकुलक्षयावधि यशो ब्रह्माण्डभाण्डावधि त्यागस्त कुंकवाञ्छितावधिरियं क्षोणी समुद्रावधिः ।
श्रद्धा पर्वतपुत्रिकापतिपदद्वन्द्वप्रणामावधिः श्रीमद्भोजमहीपतेर्निरवधिः शेषो गुणानां गणः ॥
 
अथ विनोदप्रियेण राज्ञा कुचवर्णनायानुयुक्ता' विजया प्राह -
 
१०७. उन्नाहश्चिबुकाव घिर्भुजलता मूलावधिः सम्भवो विस्तारो हृदयावधिः कमलिनीसूत्रावधिः संहतिः ।
वर्णः स्वर्णकपावधिः कठिनता वज्राकरक्ष्मावधिस्तन्वक्त्याः स्तनमण्डले यँदि परं लावण्यमस्तावधिः ॥ 10
इति तद्वर्णनाकर्णनात्तेनार्द्धकविना राज्ञा-
[७५] {' किं वर्ण्यते कुचद्वन्द्वमस्या: कमलचक्षुषः ।
तयोक्तम् - सप्तद्वीपकरग्राही भवान् यत्र करप्रदः ॥
 
राज्ञा-[७६] प्रहतमुरजमन्द्रध्वानवद्भिः पयोदैः कथमलिकुलनीलै: सैव दिग् सम्प्ररुद्धा ।
तयोक्तम्- प्रथमविरहखेदम्लायिनी यत्र बाला वसति नयनवान्तैरथुभिर्धीतवक्त्रा ॥ }
१०८. सुरताय नमस्तस्मै जगदानन्ददायिने । - इति राज्ञां प्रोक्ते,
आनुषङ्गि फलं यस्य भोजराज ! भवादृशाः ॥
 
- इति विजयवाक्ये विजयोक्ते" राजा सत्रपमधोमुग्वं तस्थौ ।
 
15
 
{ तितो राजा तां भोगिनीं चक्रे । अन्यदा तया जालान्तरे चन्द्रकर
स्पर्शेऽपाठि-
[७७] अलं कलङ्कशृङ्गार ! करस्पर्शनलीलया । चन्द्र ! चण्डीशनिर्माल्यमसि न स्पर्शमर्हसि ॥ }
[७८] "क्षणं क्षीणास्तारा नृपतय इवानुद्यमपरा असच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।
 
अभूत् पिङ्गा प्राची रसपतिरिव प्राश्य कनकं न शोभन्ते दीपा द्रविणरहितानामिव गुणाः ॥
[७९] "विरलविरलीभूतास्ताराः कलौ खजना इव मन इव मुनेः सर्वत्रापि प्रसन्नमभून्नभः ।
अपसरति च ध्वान्तं चित्तात् सतामिव दुर्जनो व्रजति च निशा क्षिप्रं लक्ष्मीर्निरुद्यमिनामिव ॥
इत्यत्र बहु वक्तव्यं परंपरया तत्तु ज्ञातव्यम् । 25
॥ इति शीतापण्डिताप्रबन्धः ॥
 
20
 
1P वैदेशिकं । 2P), पुरुषं । 3 ID पुस्तके एतद्वाक्यं नास्ति । * एतद्वितारकान्तर्गतपाठस्थाने Pb आदर्श एतादृशः
पाठः- 'कणतैलमिश्रां खिचडिकामास्वाद्य विपन्नमालोक्य सदस्योऽयमनथा निपातित इत्युत्पधमानकलङ्कशङ्कया राजविडम्बना भयाकुलतया
पञ्चत्वाय तदनं सापि बुभुजे'; Db आदर्श पुन: - 'कार्पटिकं पाकाय तस्या गृहेऽचं कारयित्वा निशि घृतकूपिकव्यत्ययेन कांगुणीतलं
परिवेषितं तं विपनं विलोक्य तदशममेव बुभुजे' एतादृशः पाठः प्राध्यते । 4 B तद्वमनमेव ।
1
नास्ति ।
7 Doत्रयीं रघुबास्स्यायनकामशास्त्रचाणाक्यनीतिशास्त्रं ईपत्० । 8 Pa शिरः ।
वधिः । 11 Pa कुच० । 12 D यदपरं । 13 D 'कर्णना' नास्ति । + एतत् कोष्ठकान्तर्गताः पंक्तयः केवलं D पुस्तके एव लभ्यन्ते ।
14 D 'राज्ञा' नास्ति । 15 DP नास्ति । 16 AB विजयोदिते । 1 एतत्कोष्ठकान्तर्गतं कथनं केवलं D पुस्तके लभ्यते ।
इदं पद्यद्वयं केवलं P आदर्शे भ्यम् । 17PP& नास्ति; B तत् ।
 
5P) स्थिरी भूते । 6D 'प्रभूत'
9 D नियुक्ता । 10 DPa कथा-