This page has been fully proofread twice.

[७०] शैलैर्बन्धयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिं व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते ।
वस्तु प्रस्तुतमेव किंचन वयं ब्रूमस्तथाप्युच्चकैर्लोकोऽयं हसति प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः ॥
 
एकदा, राजन् ! महाभारती कथा श्रूयतामित्युक्ते पण्डितं प्रति परमार्हतेन तेन प्रत्युक्तम् --
 
[७१] कानीनस्य मुनेः स्वबान्धववधूवैधव्यविध्वंसिनो नेतारः किल पश्ञ्च गोलकसुताः कुण्डाः स्वयं पाण्डवाः ।
तेमी पश्ञ्च समानजातय इति ख्यातास्तदुत्कीर्त्तनं पुण्यं स्वस्त्ययनं भवेद्यदि नृणां पापस्य काऽन्या गतिः ॥ }
 
६१) शोभनमुनेस्तु शोभनचतुर्विंशतिकास्तुतिः प्रतीतैव ।
 
{ 'अधुना किमपि प्रबन्धादिक्रियमाणमास्ते ?' नृपेणेत्युक्ते धनपालः प्राह --
 
[७२] आरनालगलदाहशङ्कया मन्मुखादपगता सरस्वती । तेन वैरिकमलाकचग्रहव्यग्रहस्त न कवित्वमस्ति मे ॥
 
नृपेण गोशतं दापितम् । नृपेण 'गावो लब्धाः ?' इत्युक्ते --
 
[७३] नेव सयं तं पुञ्जइ नेव सयं तं पि गोरुयं इक्कं । नरवर वीसंताओ वीसं ताओ गिहं इन्ति ॥
 
इति धनपालोक्तिः }
 
[७४] वचनं धनपालस्य चन्दनं मलयस्य च । सरसं हृदि विन्यस्य कोऽभून्नाम न निर्वृतः ॥
 
[ इतश्च शोभनः स्तुतिकरणध्यानादेकस्या गृहे त्रिर्गमनात्तस्या एव दृष्टिदोषान्मृतः, प्रान्ते निजभ्रातुः पार्श्वात् ९६ स्तुतीनां वृत्तिं कारयित्वाऽनशनात्सौधर्मे गतः । ]
 
॥ इति धनपालपण्डित-प्रबन्धः ॥
 
६२) अथ तन्नगरनिवासी कोऽपि द्विजः केवलभिक्षामात्रवृत्तिः कस्मिन्नपि पर्वणि स्नानव्याकुले सकलेऽपि नगरलोकेऽलब्धभिक्षया रिक्तताम्रपात्र एवायातः -- इति ब्राह्मण्या निर्भर्त्स्यमानः
सञ्जायमानकलहे तां प्रति प्रदत्तप्रहारः आरक्षपुरुषैः संयम्य राजमन्दिरे नीयमानो राज्ञा पृष्टः सन् --
 
१०३. अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।
अहमपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥
 
इमं श्लोकं पपाठ । तदर्थं पण्डितेष्वनवबुध्यमानेषु राज्ञा स्वमनीषिकया तदभिप्रायं समुपलभ्य, तस्मै लक्षत्रये दापिते सति श्लोकार्थं कलहमूलं दारिद्र्यमेव नृपो व्याचख्यौ ।
 
६३) अथान्यदा सर्वाण्यपि दर्शनानि एकत्राहूय मुक्तिमार्गे पृष्टे ते स्वस्वदर्शनपक्षपातं ब्रुवाणाः
सत्यमार्गजिज्ञासयैकीक्रियमाणाः षण्मासीमवधीकृत्य श्रीशारदाराधनतत्पराः कस्या अपि निशः शेषे जागर्षीति व्याहृतिपूर्वमुत्थाप्य सा नृपं --
 
१०४. श्रोतव्यः सौगतो धर्मः, कर्त्तव्यः पुनरार्हतः । वैदिको व्यवहर्त्तव्यो, ध्यातव्यः परमः शिवः ॥
 
( अथवा - ध्यातव्यं पदमक्षयम् ) श्लोकमिमं राज्ञे दर्शनेभ्यश्च समादिश्य श्रीभारती तिरोदधे ।
 
१०५. अहिंसालक्षणो धर्मो मान्या देवी च भारती । ध्यानेन मुक्तिमाप्नोति सर्वदर्शनिनां मतम् ॥
 
-- इति युग्मश्लोकं निर्माय नृपाय निरपायनिर्णयं ते प्राहुः ।