2023-11-01 06:46:05 by Bharadwajraki
This page has been fully proofread twice.
इदमेवोत्तरार्द्धं संवदतीति नृपेणोक्ते सति स पण्डितः प्रोवाच -- 'यदि गुम्फार्थाभ्यां श्रीरामेश्वरप्रासादप्रशस्तिभित्ताविदं न भवति तदाऽतःपरमाजीवितान्तं कवित्वस्य सन्न्यास एवेति' । तत्प्रतिश्रवसमकालमेव यानपात्रे निर्यामकान्निक्षेप्यावगाह्यमाने नीरधौ षड्भिर्मासैस्तं प्रासादमासाद्य
पुनर्मदनपट्टिकायां न्यस्तायामिदमेवोत्तरार्द्धमागतमालोक्य तस्मै तदुचितं पारितोषिकं प्रसादीचकार । इति खण्डप्रशस्तेर्यथाश्रुतानि बहूनि काव्यानि मन्तव्यानि ।
६०) कदाचिद्राज्ञा सेवाश्लथतां पृष्टः पण्डितः स्वं तिलकमञ्जरीगुम्फवैयग्र्यं जगौ । शिशिरयामिन्याश्चरमे यामे निर्विनोदत्वात्तां प्रथमादर्शप्रतिमानीय पण्डितेन व्याख्यायमानां तिलकमञ्जरीकथां वाचयंस्तद्रसनिपातभीरुः पुस्तकस्याधः कच्चोलकयुतसुवर्णस्थालस्थापनापूर्वं तां समाप्य तच्चित्रकविताचित्रीयमाणचित्तो नृपः पण्डितं प्राह -- 'मामत्र कथानायकं कुर्वन्, विनीतायाः पदेऽवन्तीमारोपयन्, शक्रावतारतीर्थस्य पदे महाकालमालपन् यद्याचसे तत्तुभ्यं ददामी'त्यभिदधाने नृपे खद्योत-प्रद्योतनयोः सर्षप-कनकाचलयोः काच-काञ्चनयोः धत्तूर-कल्पपादपयोरिव तव तेषां
महदन्तरमित्युच्चरन् --
१०२. दोमुह निरक्खर लोहमईय नाराय तुज्झ किं भणिमो । गुञ्जाहि समं कणयं तुलन्तु न गओसि पायालं ॥
इत्याक्रोशपरे तस्मिन् जाज्वल्यमानेऽग्नौ तां मूलप्रतिमिन्धनीचकार । अथ स द्विधा निर्वेदभाग्
द्विधाऽवाङ्मुखो निजसौधपश्चाद्भागे जीर्णमञ्चाधिरूढो निःश्वसन् भृशं सुष्वाप । बालपण्डितया तत्सुतया सभक्तिकमुत्थाप्य स्नानपानभोजननिर्मापणानन्तरं तिलकमञ्जरीप्रथमादर्शलेखनात्संस्मृत्य ग्रन्थस्यार्द्धं लेखयांचक्रे । तदुत्तरार्द्धं नूतनीकृत्य ग्रन्थः समर्थितः ।
( इतोऽग्रे Pb आदर्शे निम्नलिखितमधिकं कथनमुपलभ्यते -- )
{ -- ग्रन्थः समर्थितः पण्डितेन । रुष्टो नाणाग्रामे गतः । कदाचिद् धर्मनाम्नि वादिनि समागते भोजसभायां स कोऽपि तादृग् [ विद्वान्नास्ति ] यस्तं प्रतिवादायोत्सहते । ततो भोजेन सबहुमानं धनपाल आकारितः । तमागच्छन्तं ज्ञात्वा नष्टो वादी । लोकैः 'धर्मस्य त्वरिता गतिः' इति हसितः । राज्ञा सम्मानितः... पृष्टं च समाधानयोगगक्षेमादिस्वरूपं नृपेण । पण्डितः प्राह --
[६८] पृथुकार्त्तस्वरपात्रं भूपितनिःशेषपरिजनं देव । विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥ }
( अत्रैव D पुस्तके निम्नगता विशेषाः पंक्तयः प्राप्यन्ते -- )
{ अन्यदा भोजसभायां काव्यमिदमुक्तं तेन --
[६९] धाराधीश धरामहीशगणने कौतूहली यानयं वेधास्त्वद्गणनां चकार खटिकाखण्डेन रेखां दिवि ।
सैवेयं त्रिदशापगा समभवत्वत्तुल्यभूमीधवाभावात्तत्यजति स्म सोऽयमवनीपीठे तुषाराचलः ॥
अपरपण्डितैरस्मिन् काव्ये उपहसिते धनपालेनोक्तम् --

[६९] धाराधीश धरामहीशगणने कौतूहली