2023-11-01 06:05:35 by Bharadwajraki
This page has been fully proofread twice.
५९) अथ धनपालो ऋषभपञ्चाशिकास्तुतिं निर्माय, सरस्वतीकण्ठाभरणप्रासादे स्वनिर्मितप्रशस्तिपट्टिकायां कदाचिन्नृपः --
९५. अभ्युद्धृता वसुमती दलितं रिपूरः क्रोडीकृता बलवता बलिराज्यलक्ष्मीः ।
एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत्पुरुषः पुराणः ॥
काव्यमिदं निर्वर्ण्य पारितोषिके तस्याः पट्टिकायाः काञ्चनकलशं ददौ । तस्मात्प्रासादादपसरंस्तदीयद्वारस्वत्तके रत्या सह हस्ततालदानपरं स्मरं मूर्तिमन्तमालोक्य नृपेण हासहेतुं पृष्टः पण्डितः प्राह --
९६. स एष भुवनत्रयप्रथितसंयमः शङ्करो बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥
( अत्र D पुस्तके 'अन्नदिणे सिवभवणे०'; 'दिग्वासा यदि तत्किमस्य धनुषा०'; 'अमेध्यमश्नाति०'; 'पयःप्रदानसामर्थ्याद्०'; 'असत्युत्तमांगे०' इत्यादीनि पद्यानि समुपलभ्यन्ते परमत्राप्रासङ्गिकत्वात्, Pb आदर्शानुसारेणेतःपूर्वमेवोल्लिखितत्वाच्च पुनर्नोद्धृतानि । )
९७. पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति । अङ्कुरित इव मनोभूर्यस्मिन्भस्मावशेषोऽपि ॥
इत्यादिभिः प्रसिद्धसिद्धसारस्वतोद्गारैर्नृपं रञ्जयन् यावदास्ते तावत्कोऽपि सांयात्रिको द्वाःस्थनिवेदितः सभां प्रविश्य नृपं नत्वा मदनमयपट्टिकायां प्रशस्तिकाव्यानि दर्शयामास । नृपेण तल्लाभस्थानके पृष्टे स एवमवादीत् -- 'नीरधावकस्मादेव मम वाहने स्खलिते निर्यामकैः शोध्यमाने समुद्रे तन्मग्नं शिवायतनं परितः परिस्फुरज्जलमप्यन्तःसलिलविकलमवलोक्य कस्यामपि भित्तौ वर्णान्निर्वर्ण्य च तज्जिज्ञासया मदनपट्टिकां तत्र प्रस्थाप्य तत्संक्रान्ताक्षरमयी पट्टिकेयमि'ति नृपतिर्निशम्य तदुपरि मृण्मयीं पट्टिकां नियोज्य तत्र पतितान् विपरीतान् वर्णान् पण्डितैर्वाचयामास ।
९८. आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेरस्मन्सङ्कथयैव पार्थिवसुतः सम्प्रत्यसौ लज्जते ।
इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बोऽऽम्बुधेर्यातस्तीरतपोवनानि तपसे वृद्धो गुणानां गणः ॥
९९. देवे दिग्विजयोद्यते धृतधनुःप्रत्यर्थिसीमन्तिनीवैधव्यव्रतदायिनि प्रतिदिशं क्रुद्धे परिभ्राम्यति ।
आस्तामन्यनितम्बिनी रतिरपि त्रासान्न पौष्पं करे भर्तुर्द्धर्तुमदान्मदान्धमधुपी नीलीनिचोलं धनुः ॥
१००. चिन्तागम्भीरकूपादनवरतचलद्भूरिशोकारघट्टव्याकृष्टं निःश्वसन्त्यः पृथुनयनघटीयन्त्रमुक्ताश्रुधारम् ।
नासावंशप्रणालीविषमपथपतद्बाष्पपानीयमेतद् देव त्वद्वैरिनार्यः स्तनकलशयुगेनाविरामं वहन्ति ।
इति सम्पूर्णेषु काव्येषु वाच्यमानेषु,
१०१. अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।
अस्य काव्यस्योत्तरार्द्धं छित्तपादिभिः परःशतैरपि पण्डितैः परिपूर्यमाणमपि विसंवदतीति राज्ञा धनपालपण्डितः पृष्टः --
हरशिरसि शिरांसि यानि रेजुर्हरिहरि तानि लुठन्ति गृध्रपादैः ॥