This page has been fully proofread once and needs a second look.

10
 
४०
 
प्रबन्धचिन्तामणिः ।
 
५९) अथ धनपालो ऋषभपञ्चाशिकास्तुतिं निर्माय, सरस्वतीकण्ठाभरणप्रासादे
स्वनिर्मितप्रशस्तिपट्टिकायां कदाचिन्नृपः -
-
 
९५. अभ्युद्धृता वसुमती दलितं रिपूर:रः क्रोडीकृता बलवता बलिराज्यलक्ष्मीः ।

एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत्पुरुषः पुराणः ॥
 
5

 
काव्यमिदं निर्वर्ण्य पारितोषिके तस्याः पट्टिकायाः काञ्चनकलशं ददौ । तस्मात्प्रासादादपसरं-
स्तदीयद्वारस्वत्तके रत्या सह हस्ततालदानपरं स्मरं मूर्तिमन्तमालोक्य नृपेण हासहेतुं पृष्टः
पण्डितः प्राह -
 
-
 
९६. स एष भुवनत्रयप्रथितसंयमः शङ्करो बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् ।
 

अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥
 
20
 
[ द्वितीयः
खनिर्मितप्र-

 
( अत्र D पुस्तके 'अन्नदिणे सिवभवणे०'; 'दिग्वासा यदि तत्किमस्य धनुषा०'; 'अमेध्यमश्नाति०'; 'पयःप्रदान-
सामर्थ्याद्०'; 'असत्युत्तमांगे०' इत्यादीनि पद्यानि समुपलभ्यन्ते परमत्राप्रासङ्गिकत्वात्, PLb आदर्शानुसारेणेतः पूर्व-
मेवोल्लिखितत्वाञ्च्च पुनर्नोद्धृतानि । )
 

 
९७. पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति । अङ्कुरित इव मनोभूर्यसिस्मिन्भस्मावशेषोऽपि

इत्यादिभिः प्रसिद्धसिद्धसारस्वतोद्गारैर्नृपं रञ्जयन् यावदास्ते तावत्कोऽपि सांयात्रिको द्वाःस्थनिवे-
13
दितंःतः सभां प्रविश्य नृपं नत्वा मदनमर्यपट्टिकायां प्रशस्तिकाव्यानि दर्शयामास । नृपेण तल्लाभ-
स्थानके पृष्टे स एवमवादीत् -- 'नीरधावकस्मादेव मम वाहने स्खलिते निर्यामकैः शोध्यमाने समुद्रे
तन्म
तन्मग्नं शिवायतनं परितः परिस्फुरज्जलमप्यन्तः सलिलविकल॑मवलोक्य कस्यामपि भित्तौ वर्णा-
न्निर्वर्ण्य च तज्जिज्ञासया मदनपट्टिकां तत्र प्रस्थाप्य तत्संक्रान्ताक्षरमयी पट्टिकेयमि'ति नृपतिर्नि-
शम्य तदुपरि मृण्मयीं पट्टिकां नियोज्य तत्र पतितान् विपरीतान्" वर्णान् पण्डितैर्वाचयामास ।

 
९८. आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेरस्मन्सङ्कथयैव पार्थिवसुतः सम्प्रत्यसौ लज्जते ।
 

इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बोऽऽम्बुधेर्यातस्तीरतपोवनानि तपसे वृद्धो गुणानां गणः ॥

 
९९. देवे दिग्विजयोद्यते धृतधनुः प्रत्यर्थिसीमन्तिनीवैधव्यत्व्रतदायिनि प्रतिदिशं क्रुद्धे परिभ्राम्यति ।
 

आस्तामन्यनितम्बिनी रतिरपि त्रासान्न पौष्पं करे भर्तुर्द्धर्तुमदान्मदान्धमधुपी नीलीनिचोलं धनुः ॥

 
१००. चिन्तागम्भीरकृकूपादनवरतचलद्भूरिशोकारघट्टव्याकृष्टं निःश्वसन्त्यः पृथुनयनघटीयन्त्रमुक्ताश्रुधारम् ।

नासावंशप्रणाली विषमपथपतद्वाप्बाष्पपानीयमेतद्" देव त्वद्वैरिनार्यः स्तनकलशयुगेनाविरामं वहन्ति ।

 
इति सम्पूर्णेषु काव्येषु वाच्यमानेषु,
 
25
 
13
 
14
 

 
१०१. अयि खलु विषम:मः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।

 
अस्य काव्यस्योत्तरार्द्धं छित्तंपादिभिः परः शतैरपि पण्डितैः " परिपूर्यमाणमपि विसंवदतीति
राज्ञा धनपालपण्डितः पृष्टः-

 
हरशिरसि शिरांसि यानि रेजुर्हरिहरि तानि लुठन्ति गृध्रपादैः ॥
 
30
 
3 D एव । 4 P नास्ति । 5 PD 'मय' नास्ति ।
8-9 एतद्वाक्यखण्ड Pa आदर्शेऽनुपलभ्यम् । 10 D
13 B 'अपि' नास्ति । 14 PI) 'बाणमयूरछत्तपना चिराजकर्पूर.
 
1A ●पट्टिकां राशे दर्शयामास नृपः (1) तन्त्र ) । 2P कर० ।
6 BP Sम्भोनिधौ; Pa sम्भोषौ । 7 ABD • तनमालोक्य परि० ।
'विपरीतान्' नास्ति । 11 AD • मेता । 12 ID छिपा० ।
प्रमुखेषु अपरेषु पण्डितेषु, इदं स्वकल्पितमेव उत्तरार्द्ध न मुख्यमिति वदरसु धनपालः ग्राह' एतादृशः पाठो विद्यमानोऽस्ति ।