2023-10-31 06:57:34 by Bharadwajraki
This page has been fully proofread twice.
[६२] अथ -- अन्नदिणे सिवभवणे दुवारदेसे निएवि भिंगिगणं ।
किं एस दुब्बलो इय निवपुट्ठो भणइ घणवालो ॥
यथा --
[६३] दिग्वासा यदि तत्किमस्य धनुषा तच्चेत् कृतं भस्मना भस्माथास्य किमङ्गना यदि च सा कामं प्रति द्वेष्टि किम् ।
इत्यन्योन्यविरुद्धचेष्टितमहो पश्यन्निजस्वामिनो भृङ्गी सान्द्रशिरावनद्धपुरुषं धत्तेऽस्थिशेषं वपुः ॥ }
५८) अथ कस्मिन्नप्यवसरे नरेश्वरः सरस्वतीकण्ठाभरणप्रासादे व्रजन् सदा सर्वज्ञशासनप्रशंसापरं पण्डितं धनपालमालपत् -- 'सर्वज्ञस्तावत्कदाचिदासीत् । तत्र साम्प्रतं कश्चिज्ज्ञानातिशयोस्ती?'त्यभिहिते, 'अर्हत्कृते अर्हन्तश्रीनामनि चूडामणिग्रन्थे विश्वत्रयस्य त्रिकालवस्तुविषयस्वरूपपरिज्ञानमद्यापि विद्यते' इति तेनाभिहिते -- 'त्रिद्वारमण्डपे स्थितः कस्मिन्द्वारेऽस्माकं निर्गमः ? इति शास्त्रकलङ्कारोपणोद्यते नृपे, बुद्धिमात्रा त्रयोदशीति पाठं सत्यापयता भूर्जपत्रे नृपप्रश्ननिर्णयमालिख्य मृण्मयगोलके निधाय च स्थगिकाधरस्य तं समर्प्य -- 'देव ! पादावधार्यतामि'ति नृपं प्राह । नृपस्तद्बुद्धिसङ्कटे निपतितं स्वं मन्यमान एतद्द्वारत्रयस्य मध्यात्किमपि निर्णीतं भविष्यतीति विमृश्य सूत्रभृद्भिर्मण्डपपद्मशिलामपनीय तन्मार्गेण निर्गत्य तं गोलकं भित्त्वा, तेष्वक्षरेषु तमेव निर्गमनिर्णयं वाचयंस्तत्कौतुकोत्तालचित्तः श्रीजिनशासनमेव प्रशशंस ।
( अत्र D पुस्तके निम्नलिखितं पद्यं प्राप्यते -- )
{ तथाहि --
[६४] द्वाभ्यां यन्न हरिस्त्रिभिर्न च हरः स्रष्टा न चैवाष्टभिर्यन्न द्वादशभिर्गुहो न दशकद्वन्द्वेन लङ्कापतिः ।
यन्नेन्द्रो दशभिः शतैर्न जनता नेत्रैरसंख्यैरपि तत्प्रज्ञानयनेन पश्यति बुधश्चैकेन वस्तु स्फुटम् ॥
( PD आदर्शे पुनरत्र निम्नलिखितमधिकं कथनमुपलभ्यते -- )
{ अन्यदा जलाश्रयपृच्छा --
[६५] सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं व्युच्छिन्ना शेषतृष्णा प्रमुदितमनसः प्राणिसार्था भवन्ति ।
शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं तेनोदासीनभावं भजति मुनिगणः कूपवप्रादिकार्ये ॥
कदाचित् स्वकारितप्रौढतरनवसरसि गतो नृपः 'कीदृगिदं धर्मस्थानमि ?'ति पृच्छति । धनपालः प्राह --
[६६] एषा तटाकमिषतावकदानशाला मत्स्यादयो रसवती प्रगुणा सदैव ।
पात्राणि यत्र बकसारसचक्रवाकाः पुण्यं कियद् भवति तत्तु वयं न विद्मः ॥
तथातश्चुकोप । पुरमागच्छन् मार्गे बालिकासहितां वृद्धां जरया शिरो धूनयन्तीं दृष्ट्वा नृपः पृच्छति -- 'किं शिरो धूनयति ?' ततो धनपालः --
[६७] किं नन्दी किं मुरारिः किमु रतिरमणः किं विधुः किं विधाता
किं वा विद्याधरोऽसौ किमुत सुरपतिः किं नलः किं कुबेरः ।
नायं नायं न चायं न खलु नहि न वा नापि नासौ न चासौ
क्रीडां कर्तुं प्रवृत्तः स्वयमपि च हले भूपतिर्भोजदेवः ॥
अनेन नृपं रुष्टं तोषयामास । }