This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ द्वितीयः
 
प्रत्यागच्छता तत्र यज्ञमण्डपे यज्ञस्तम्भनियन्त्रितच्छागस्य दीनां गिरमाकर्ण्य किं पशुरसौ व्याह-
रतीत्यादिष्टः सन् धनपालोऽवघेहीति प्राह -
 
-
 
९२. नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव ।
वर्ग

स्वर्गं
यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥
5

 
इति तद्वाक्यानन्तरं राज्ञा किमेतदिति भूयोभियुक्त:-
10
 
तः --
 
९३. यूपं कृत्वा पशून् हत्वा कृत्वा रुघिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरके केन गम्यते ॥

 
९४. सत्यं यूपं तपो समिःह्यग्निः कर्माणि समिधो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः ॥

 
इत्यादि-शुकसंवादोदितानि वचांसि नरेन्द्रस्य पुरतः पठन् हिंसाशास्त्रोपदेशिनो हिंत्स्रप्रकृती
न्
ब्रह्मरूपेण राक्षसांस्ताञ्ञ्ज्ञापयन्, नृपमहर्द्धर्माभिमुखं चकार ।
 

 
( अत्रान्तरे Pb आदर्शे मूले, B आदर्शे च पृष्ठपार्श्वभागेषु निम्नलिखितमधिकं कथनमुपलभ्यते -- )

 
{ अथ नृपे गां वन्दमाने धनपालो महिषीं नमन्नुवाच -
 
-
 
[५७]
 
अमेध्यमश्नाति विवेकशून्या खनन्दनं कामयतेऽभिषक्ता ।

खुराप्ग्रशृङ्गैर्विनिहन्ति जन्तून् गौर्वन्द्यते केन गुणेन राजन् ! ? ॥
 

 
[५८] पयःप्रदानसामर्थ्याद्वन्द्या चेन्महिषी न किम् । विशेषो दृश्यते नास्यां महिषीतो मनागपि ॥

 
[५९]
 
स्पर्शोऽमेध्यभुजां गवामघहरो वन्द्या विसञ्ज्ञा द्रुमाः

स्वर्ग छागवधाद् घिधिनोति च पितॄन् विप्रोपमुभुक्ताशनम् ।

 
आप्ताश्छद्मपराः सुराः शिखहुतं प्रीणाति देवान् हविः

स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ॥
 
20
 

 
[६०] वषोधो धर्मो जलं तीर्थं गौर्नमस्या गुरुर्गृही । अग्निर्देवो द्विजः पात्रं येषां तैः कोऽस्तु संस्तवः ॥

 
एकदा जिनपूजायां पण्डितस्यैकाग्रतां परेभ्यो ज्ञात्वा पुष्पपटलिकाऽर्पण पूर्वं देवान् पूजयेति नृपादिष्टो धन-
पालो हरादिस्थानेषु भ्रान्त्वा जिनं पूजयित्वा समागतः । दूतमुखाज्ज्ञातवृत्तान्तेन राज्ञा पूजास्वरूपं पृष्टः ग्प्राह-
-- 'देव ! यत्रावसरोऽभूत् तत्र गत्वा पूजा कृता' । राज्ञा पृष्टम् -- 'क् नाभूदवसरः ?' पण्डित: ग्तः प्राह -- 'विष्णुपार्श्वे
एकान्तकलत्रसद्भावात्, रुद्रार्द्धांगे पार्वतीसद्भावात्, ब्रह्मणो ध्यानभङ्गेन शापादिभयात्, विनाय[क]स्य स्थालि-
भृतमोदकाशने स्पर्शनं संयमन्, चण्डिकायास्त्रिशूलहेतिसत्रस्त न्त्रस्तमहिषमत्सम्मुखागमत्रासात्, हनुमतः कोपाटोप-
25
वशंवदस्य चपेटायात् कुत्राऽव्यवसरो नाभूत् । अपि च-
--
 
[६१] विनास्योत्तमाङ्गं वृथा पुष्पमाला ललाटं विनाहो कथं पट्टबन्धः ।

अकर्णे त्वनेत्रे कथं गीतनृत्ये अपादस्य पादे कथं मे प्रणामः ?'
 

 
इत्यादि प्रोक्ते नृपः प्राहः -- 'काऽप्यवसरोऽभूत् ?' ततः पण्डितः -- 'प्रशमरस निमग्नं दृष्टि ० ।' 'नेत्रे सारसुधारसैक-
सुभगे आस्यं प्रसन्नं सदा० ।' इत्यादि कथयित्वा, जैनालये सदाऽवसरत्वातत्र पूजा कृतेति पर्यवसितः ।
 
1 Dस। 2A आह धनपाल अवधेहि; B स धनपाल अवध्योऽहं इति प्राह; Pa ● अवध्योऽयमिति● । 3 Pb भूयो
भूयोऽभियुक्तो धनपालः प्राह । 4 P प्राणाः समिधयो । 5 D ' एवं यशः सतां मतः एतादृशः पादः । 6D हिंसक● ।
7 D ब्राह्मण । + एतद्विदण्डान्तर्गताः पंक्तयः केवलं Pb प्रतौ प्राप्याः ।