This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ द्वितीयः
 
'क्व सार्थ:थः पुनरीदृशः' इति वाक्यान्तं एव स माघपण्डितः पञ्चत्वमवाप । प्रातस्तं वृत्तान्तम-
गम्य श्रीभोजेन श्रीमालेषु सजातिषु धनवत्सु सत्सु तस्मिन्पुरुषरत्ने विनष्टे क्षुधाबाधिते सति
भिल्लमाल इति तज्जांजातेर्नाम निर्ममे ।
 

 
॥ इति श्रीमाघपण्डितप्रबन्धः ॥
 
5

 
५७) पुरा समृद्धिविशालायां विशालायां पुरि मध्यदेशजन्मा सांकाश्यगोत्रः सर्वदेवनार्मा
मा द्विजो निवसन् जैनदर्शनसंसर्गात्प्रायः प्रशान्तमिथ्यात्वो धनपाल-शोभनाभिधानपुत्रद्वयेना-
न्वितः कदाचिदागताञ्न् श्रीवर्द्धमानसूरीन् गुणानुरागान्निजोपाश्रये निवास्य निर्द्वन्द्व भक्त्या परि-
तोषितान् सर्वज्ञपुत्रकानिति घिधिया, तिरोहितं निजपूर्वजनिधिं पृच्छंस्तैर्वचनच्छलेनार्द्धविभागं
याचितः `सङ्केतनिवेदनाल्लब्धंनिधिस्तदर्द्धं यच्छंस्तैः पुत्रद्वयादर्द्धं याचितो' ज्यायसा धनपालेन
10.
मिथ्यात्वान्धमतिना जैनमार्गनिन्दापरेण निषिद्धः, कनीयसि शोभने कृपापरः स्वप्रतिज्ञाभङ्ग-
पातकं तीर्थेषु क्षालयितुमिच्छुः प्रति तीर्थं प्रतस्थे । अथ पितृभक्तेन शोभननाम्ना लघुपुत्रेण तं
तदाग्रहान्निषिद्ध्य पितुः प्रतिज्ञां प्रतिपालयितुमुपात्तव्रतः स्वयं तान् गुरूननुससार । अभ्यस्तसम-
स्तविद्यास्थानेन धनपालेन श्रीभोजप्रसादसम्प्राप्तसमस्तपण्डितप्रष्ठप्रतिष्ठेन निजसहोदरामर्षभा-
वाद् द्वादशाब्दीं यावत्स्वदेशे निषिद्ध जैनदर्शनप्रवेशेन तद्देशोपासकैरत्यर्थमभ्यर्थनया गुरुष्वा
15
हूयमानेषु सकलसिद्धान्तपारावारपारदृश्वा स शोभननामा तपोधनो गुरूनापृच्छ्य तत्र प्रयातो
धारायां प्रविशन् पण्डितधनपालेन राजपाटिकायां व्रजता तं सहोदरमित्यनुपलक्ष्य सोपहासम् -
- 'गर्दभदन्त भदन्त ! नमस्ते' इति प्रोक्ते; 'कपिवृषणास्य वयस्य ! सुखं ते' [ इति प्रत्युत्तरयांचत्क्रे ।
ततश्चमत्कृतो धनपालो मया नर्मणापि नमस्ते इत्युक्तम्, अनेन तु वयस्य सुखं ते ] इत्युच्चरता
वचनचातुर्यान्निर्जितोऽस्मीति" । तत् 'कस्यातिथयो यूयमि'ति धनपालस्यालापैः 'भवत एवातिथयो
20
वयमि' ति शोभनमुनेर्वाचमाकर्ण्य, बटुना सह निजसौधे प्रस्थाप्य तत्रैव स्थापितः । स्वयं सौधे
समागत्य धनपालः प्रियालापैः सपरिकरमपि तं भोजनाय निमन्त्रयंस्तैः प्रासुकाहारसेवापरै-
र्निषिद्धः । बलाद्दोषहेतुं पृच्छन् -
25
 
-
 
८५. भजेन्माधुकरीरीं वृत्तितिं मुनिर्म्लेच्छकुलादपि । एकान्नं नैव भुञ्जीत बृहस्पतिसमादपि ॥

 
तथा च, जैनसमये दशवैकालिके -
-
 
८६. महुकारसमा बुद्धा जे भवन्ति अणिस्सिया । नाणापिण्डरया दन्ता तेण वुच्चन्ति साहुणो ॥

 
इति स्वसमयपरसमयाभ्यां निषिद्धं कॅल्पितमाहारं परिहरन्तः शुद्धाशनभोजिनो वयमिति

तच्चरित्रचित्रितमनास्तृष्णीकमुत्थाय सौधे" मज्जनारम्भे गोचरचर्यया समागतं तन्मुनिद्वन्द्वमव-
लोक्याsसिद्धेऽन्नपाके तद्ब्राह्मण्योपढौकिते दध्नि मुनिभ्यां व्यतीत कियद्दिनमेतदिति पृच्छ्यमाने,
धनपालः 'किमत्र पूतराः सन्ती' ति सोपहासमभिदधानः, व्यतीतदिनद्वयमेतदिति ब्राह्मण्या
 
1 इदं वाक्यं 1) पुस्तकें न विद्यते । 2 B वाक्यानन्तरं; P वाक्यसमकालं ।
 
स्वजा० । 4 ]) तज्ज्ञातं । 5 D
 
काश्यप गोत्रः, 13 नास्ति । 6 P गंगाधरो नाम । 7 P विहायान्यत्र 'अभिधान' नास्ति । द्विदण्डान्तर्गतः पाठः Pa आदर्शेऽनु-
पलभ्यः । ४ P० लब्धशेवधि । 9 ]) प्रकृष्ट० । 10 D गुरुपुरुषेश । ↑ कोष्ठकान्तर्गतः पाठः A Pa प्रत्यन्तरे नास्ति ।
६ एतस्पाठस्थाने B प्रत्यन्तरे 'शोभनमुनेर्वचसान्तश्चमत्कृतः एतादृशः पाठः । 11 ]) इत्युक्ते । 12 P ऽस्मीत्यचिन्तयत् ।
13 Pa नीचकु० । 14P Pa अकल्पित० । 15 D सौधमाप । 16P मुनियुगल ।