2023-10-31 05:20:45 by Bharadwajraki
This page has been fully proofread twice.
प्रतस्थे । तथा निजजन्मदिने जनकेन नैमित्तिकाज्जातके कार्यमाणे, पूर्वमुदितोदितसमृद्धिर्भूत्वा प्रान्ते गलितविभवः किञ्चिच्चरणयोराविर्भूतश्वयथुविकारः पञ्चत्वमाप्स्यतीति-निमित्तविदा निवेदिते विभवसम्भारेण तां ग्रहगतिं निराचिकीर्षुणा माघपित्रांरा, संवत्सरशतप्रमाणे मनुजायुषि षड्विंत्रिंशत्सहस्राणि दिनानि भवन्तीति विमृश्य नाणकपरिपूर्णास्तावत्संख्यकान् हारकान्
कारितनव्यकोशेषु निवेश्य तदधिकां परां भूतिं शतशः समर्प्य प्रदत्तमाघनाम्ने सुताय कुलोचितां
शिक्षां वितीर्य कृतकृत्यमानिना तेन विपेदे । तदनन्तरमुत्तराशापतिरिव प्राप्तप्राज्यसाम्राज्यो विद्वज्जनेभ्यः श्रियं तदिच्छया यच्छन्नमानैर्दानैरर्थिसार्थं कृतार्थययंस्तैर्भोगविधिभिः स्वममानुषावतारमिव दर्शयन् विरचितशिशुपालवधाभिधानमहाकाव्यचमत्कृतविद्वज्जनमानसः प्रान्ते पुण्यक्षयात्क्षीणवित्तो विपत्तिपाते स्वविषये स्थातुमप्रभूष्णुः सकलत्रो मालवमण्डले गत्वा धारायां कृतावासः पुस्तकग्रहणकार्पणपूर्वकं श्रीभोजात्कियदपि द्रव्यमानेयमिति तत्र पत्नीं प्रस्थाप्य
यावत्तदाशया माघपण्डितश्चिरं तस्थौ; तावत्तथावस्थां श्रीभोजस्तत्पत्नीं विलोक्य ससम्भ्रमः
शलाकान्यासेन तत्पुस्तकमुन्मुद्र्य काव्यमिदमद्राक्षीत् --
७९. कुमुदवनमपश्रि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानांहीह्री विचित्रो विपाकः ॥
अथ काव्यार्थमवगम्य, का कथा ग्रन्थस्य केवलमस्यैव काव्यस्य विश्वम्भरामूल्यमल्पम् । समयोचितस्यानुच्छिष्टस्यहीह्रीशब्दस्य पारितोषिके क्षितिपतिर्लक्षद्रव्यं वितीर्य तां विससर्ज । सापि ततः सञ्चरन्ती विदितमाघपण्डितपत्नीकैरर्थिभिर्याच्यमाना तत्पारितोषिकं तेभ्यः समस्तमपि वितीर्य यथावस्थिता गृहमुपेयुषी तद्वृत्तान्तज्ञापनापूर्वं किञ्चिच्चरणस्फुरच्छोफाय पत्ये निवेदयामास । अथ स 'त्वमेव मे शरीरिणी कीर्त्तिरि'ति श्लाघमानस्तदा स्वगृहमागतं कमपि भिक्षुकं वीक्ष्य भवने तदुचितं किमपि देयमपश्यन् सञ्जातनिर्वेद इदमवादीत् --
८०. अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान्न सङ्कुचति दुर्ललितः करो मे ।
याञ्चा च लाघवकरी स्ववघेधे च पापं प्राणाः स्वयं व्रजत किं परिदेवितेन ॥ १ ॥
८१. दारिद्र्यानलसन्तापः शान्तः सन्तोषवारिणा । दीनाशाभङ्गजन्मा तु केनायमुपशाम्यतु ॥ २ ॥
८२. न भिक्षा दुर्भिक्षे पतति दुरवस्थाः कथमृणं लभन्ते कर्माणि क्षितिपरिवृढान्कारयति कः ।
अदत्त्वापि ग्रासं ग्रहपतिरसावस्तमयते क्व यामः किं कुर्मो गृहिणि गहनो जीवितविधिः ॥ ३ ॥
८३. क्षुत्क्षामः पथिको मदीयभवनं पृच्छन्कुतोऽप्यागतः तत्किं गेहिनि किञ्चिदस्ति यदयं भुङ्क्ते बुभुक्षातुरः ।
वाचास्तीत्यभिधाय नास्ति च पुनः प्रोक्तं विनैवाक्षरैः स्थूलस्थूलविलोललोचनजलैर्बाष्पाम्भसां बिन्दुभिः ॥ ४ ॥
८४. व्रजत व्रजत प्राणा अर्थनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं क्व सार्थः पुनरीदृशः ॥ ५ ॥
कारितनव्यकोशेषु निवेश्य तदधिकां परां भूतिं शतशः समर्प्य प्रदत्तमाघनाम्ने सुताय कुलोचितां
शिक्षां वितीर्य कृतकृत्यमानिना तेन विपेदे । तदनन्तरमुत्तराशापतिरिव प्राप्तप्राज्यसाम्राज्यो विद्वज्जनेभ्यः श्रियं तदिच्छया यच्छन्नमानैर्दानैरर्थिसार्थं कृतार्थ
यावत्तदाशया माघपण्डितश्चिरं तस्थौ; तावत्तथावस्थां श्रीभोजस्तत्पत्नीं विलोक्य ससम्भ्रमः
शलाकान्यासेन तत्पुस्तकमुन्मुद्र्य काव्यमिदमद्राक्षीत् --
७९. कुमुदवनमपश्रि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां
अथ काव्यार्थमवगम्य, का कथा ग्रन्थस्य केवलमस्यैव काव्यस्य विश्वम्भरामूल्यमल्पम् । समयोचितस्यानुच्छिष्टस्य
८०. अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान्न सङ्कुचति दुर्ललितः करो मे ।
याञ्चा च लाघवकरी स्वव