This page has been fully proofread twice.

होमः कारितः, तद्रक्षेयं तीर्थभूता, प्रीत्या भवत्कृते प्राभृतीकृताऽस्ति' । इति तेनोक्ते हृष्टचेतसा राज्ञा स्वहस्तेन सर्वेषां समर्पिता । तैः सर्वैस्तिलककरणेन वन्दिता । अन्तःपुरे प्रेषिता । ततः स सम्मानितः प्रतिप्राभृतसहितः पश्चादागतः । ज्ञातवृत्तान्तेन श्रीभीमेनापि पूजितः ।
 
पुनः कौतुकाक्षिप्तचित्तः श्रीभीमः कस्मिन्नवसरे मुद्रामुद्रितलेखं विधाय तद्धस्ते समर्प्य, उपदापाणिं तड्डामरं मालवेऽप्रैषीत् । स उपदासहितं लेखं भोजहस्तेऽदात् । यावदुन्मुद्र्य वाचयति तावद् 'अयं भवता शीघ्रं निपातनीयः' इति पश्यति । ततः सविस्मयेन राज्ञा पृष्टम् -- 'भो इदं किं लिखितमस्ति ?' । ततः स उत्पातिकामतिः प्राह -- 'देव ! मज्जन्मपत्रिकायां समस्ति, यत्रास्य रुधिरं पतिष्यति तत्र द्वादशवर्षप्रमाणो दुर्भिक्षः पतिष्यति' इति ज्ञात्वा श्रीभीमेनाहमत्र प्रेषितः स्वदेशविनाशभीतेन प्रच्छन्नलेखयुक्तः । एवं सति त्वं यथारुचितं कुरु' इति तेनोक्ते राजाह -- 'नाहमात्मदेशप्रजामनर्थे पातयिष्ये' । ततः सम्मान्य विसर्जितः प्राप्तः स्वदेशे । तद्बुद्धिकौशलेन पुनश्चमत्कृतः श्रीभीमस्तं बहुमन्यते । ]
 
५६) अथ श्रीभोजः श्रीमाघपण्डितस्य विद्वत्तां पुण्यवत्तां च सन्ततमाकर्णयन्, तदर्शनोत्सुकतया राजादेशैः सततं प्रेष्यमाणैः श्रीमालनगराद्धिमसमये समानीय सबहुमानं भोजनादिभिः सत्कृत्य तदनु राजोचितान्विनोदान् दर्शयन्, रात्रावारात्रिकावसरानन्तरं सन्निहिते स्वसन्निभे पल्यङ्के माघपण्डितं नियोज्य तस्मै स्वां शीतरक्षिकामुपनीय प्रियालापांश्चिरं कुर्वाणः सुखं सुखेन सुष्वाप । प्रातर्माङ्गल्यतूर्यनिर्घोषैर्विनिद्रं नृपं स्वस्थानगमनाय माघपण्डित आपृष्टवान् । विस्मयापनहृदयेन राज्ञा दिने भोजनाच्छादनादिसुखं पृष्टः स कदन्नसदन्नवार्त्ताभिरलं शीतरक्षाभारेणं श्रान्तं स्वं विज्ञपयन् खिद्यमानेन राज्ञा कथं कथञ्चिदनुज्ञातः पुरोपवनं यावद्भूभुजाऽनुगम्यमानः माघपण्डितेन स्वागमनप्रसादेन सम्भावनीयोऽहमिति विज्ञप्य नृपानुज्ञातः स्वं पदं भेजे । तदनु कतिपयैर्दिनैः श्रीभोजस्तद्विभवभोगसामग्रीदिदृक्षया श्रीश्रीमालनगरं प्राप्तः । माघपण्डितेन प्रत्युद्गमादियथोचितभक्त्याऽऽवर्जितः ससैन्यस्तन्मन्दुरायां ममौ । स्वयं तु माघपण्डितस्य सौधमध्यास्य सञ्चारकभुवं काचबद्धामवलोक्य स्नानादनु देवतावसरोर्व्यां मारकतकुट्टिमे शैवलवल्लरीयुगजलभ्रान्त्या धौतान्तरीयं संवृण्वन् सौवस्तिकेन ज्ञापितवृत्तान्तस्तदैव तद्देवतार्थानन्तरं निवृत्ते मन्त्रावसरेऽशनसमयसमागतां रसवतीमास्वादमानः, अकालिकैरदेशजैर्व्यञ्जनैः फलादिभिश्चित्रीयमाणमानसः, संस्कृतपयःशालिशालिनीं रसवतीमाकण्ठमुपभुज्य भोजनान्ते चन्द्रशालामधिरुह्याश्रुतादृष्टपूर्वकाव्यकथाप्रबन्धप्रेक्ष्यादीनि प्रेक्षमाणः, शिशिरसमयेऽपि
सञ्जताकस्मिकभीष्मोष्मभ्रान्त्या संवीतसितस्वच्छवसनस्तालवृन्तकरैरनुचरैर्वीज्यमानोऽमन्दचन्दनालेपनेपथ्यः सुखनिद्रया तां क्षणदां क्षणमिवातिवाह्य प्रत्यूषे शङ्खनिस्वनाद्विगतनिद्रो हिमसमये ग्रीष्मावतारव्यतिकरो माघपण्डितेन ज्ञापितः [ प्रतिसमयं सविस्मयः कति दिनान्यवस्थाय ] स्वदेशगमनायापृच्छन् स्वयं कारितनव्यभोजस्वामिप्रासादप्रदत्तपुण्यो मालवमण्डलं प्रति